पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 136 ) तां हतु विबुधद्विषोऽपि हि न मे शक्ताः पुरोवर्तिनीं सा चान्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥९॥ (इति द्विपदिकया दिशोऽवलोक्य सास्त्रम् ) अये, परावृतभागधेयानां दुःखं दुःखानुबन्धि । कुतः । अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे। नववारिधरोदयादहोभि- र्भवितव्यं च निरातपत्वरम्यैः ॥ १० ॥ (अनन्तरे चर्चरी।) जलधर संहरैत कोपमाज्ञप्तः अविरलधारासारदिशामुखकान्ताः । ए अहं पृथ्वीं भ्रमन्यदि प्रियां प्रेक्षिष्ये तदा यद्यत्करिष्यसि तत्तत्सहिष्ये ॥ ११ ॥ ( विहस्य ) वृथा ग्वलु मया मनसः संतापवृद्धिरुपेक्ष्यते । यदा मुन- योऽप्येवं व्याहरन्ति । राजा कालस्य कारणम्' इति । तत्किमहं जलधरसमयं न प्रत्यादिशामि । ( अनन्तरे चर्चरी) गन्धोन्मादितमधुकरगीतै- र्वाद्यमानैः परभृततूर्यैः । प्रसृतपवनोद्वेल्लितपल्लवनिकरः सुललितविविधप्रकारैर्नृत्यति कल्पतरुः ॥ १२ ॥ ( इति नर्तेित्वा ) अथवा न प्रत्यादिशामि यत्प्रावृषेण्यैरेव चिह्नैर्मम राजोपचार; संप्रति । कथमिव ?