सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 129 ) 7 चित्रलेखा-सखि, किं प्रेक्षसे ? उर्वशी-ननु समदुःखगतः पीयते लोचनाभ्याम् । चित्रलेखा-( सस्मितम् ) अयि, कः ? उर्वशी-ननु प्रणयिजनः । रम्भा--( सहर्षमवलोक्य) सखि, चित्रलेवाद्वितीय प्रियसखीमुर्वशी. गृहीत्वा विशाखासहित इव भगवान्सोमः समुपस्थितो राजर्षिः । मेनका--( निर्वर्ण्य ) सखि, द्वे अपि नोऽत्र प्रिये उपनते । इयं प्रत्यानीता प्रियसखी, अयं चापरिक्षतशरीरो राजर्षिर्दृश्यते । सहजन्या-सखि, युक्तं भणसि दुर्जयो दानव इति । राजा-सूत, इदं तच्छैलशिखरम् । अवतारय रथम् । सूतः- यदाज्ञापयत्यायुष्मान् । (इति तथा करोति :) (उर्वशी रथावतारक्षाभं नाट्यन्ती सत्रासं राजानमवलम्बते ।) राजा--(स्वगतम् ) हन्त, सफलो मे विषमावतारः । यदिदं रथसंक्षोभादङ्गेनाङ्गं ममायतेक्षणया स्पृष्टं सरोमकण्टकमङ्कुरितं मनसिजेनेव ॥ १३ ॥ 'उर्वशी-सखि, किमपि परतोऽपसर । चित्रलेखा--नाहं शक्नोमि । रम्भा--अत्र प्रियकारिणं संभावयामो राजर्षिम् । विक्रमोर्वशीये प्रथमोऽङ्कः