पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 128 ) उर्वशी-( राजानमवलोक्य आत्मगतम् ) उपकृतं खलु दानवेन्द्रसंरम्भेण । राजा--(उर्वशी विलोक्य आत्मगतम् ) स्थाने खलु नारायणमृषिं विलोभयन्त्यस्तदूरुसंभवामिमां विलोक्य व्रीडिताः सर्वा अप्सरस इति । अथवा नेयं तपस्विनः सृष्टिरित्यवैमि । कुतः ? अस्याः सर्गविधौ प्रजापतिरभूञ्चन्द्रो न कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ १० ॥ उर्वशी-सखि चित्रलेखे, सखीजनः कुत्र खलु भवेत् ? चित्रलेखा-सखि, अभयप्रदायी महाराजो जानाति । राजा-(उर्वशीं विलोक्य ) महति विषादे वर्तते सखीजनः । .. पश्यतु भवती-

यदृच्छयां त्वं सकृदष्यवन्ध्ययोः पथि स्थिता सुन्दरि यस्य नेत्रयोः । त्वया विना सोऽपि समुत्सुको भवे- त्सखीजनस्ते किमुतार्द्रसौहृदः ॥ ११ ॥ उर्वशी -( आत्मगतम् ) अमृतं खलु ते वचनम् । अथवा चन्द्रादमृतमिति किमाश्चर्यम् ? अत एव ते प्रेक्षितुं त्वरते मे हृदयम् । राजा-( हस्तेन दर्शयन् ) एताः सुतनु मुखं ते सख्यः पश्यन्ति हेमकूटगताः । उत्सुकनयना लोकाश्चन्द्रमिवोपप्लवान्मुक्तम् ॥ १२ ॥ (उर्वशी साभिलाषं पश्यति ।)