सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 122 )

(प्रकाशम् ) न पुनरात्मगत्या मानुषाणामेष विषयः। तापसी-यथा भद्रमुखो भणति-अप्सरःसंबन्धेनास्य जनन्यत्र देवगुरास्तपोवने प्रसूता । राजा--(अपवार्य) हन्त, द्वितीयामिदमाशाजननम् (प्रकाशम् ) अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ? तापसी-कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तायष्यति ? राजा--(स्वगतम् ) इयं खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि । अथवानार्यः परदारव्यवहारः । ( प्रविश्य मृण्मयूरहस्ता ) तापसी--सर्वदमन, शकुन्तलावण्यं प्रेक्षस्व । बाल:--( सदृष्टिक्षेपम् ) कुत्र वा मम माता ? उभे नामसादृश्येन वञ्चितो मातृवत्सलः । द्वितीया--वत्स, अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि । राजा-(आत्मगतम् ) किंवा शकुन्तलेत्यस्य मातुराख्या ? सन्ति पुनर्नामधेयसादृश्यानि । अपि नाम मृगतृष्णिकेव नाममात्रप्रस्तावो मे विषादाय कल्पते ? बालः–मातः, रोचते म एष भद्रमयूरः । प्रथमा-( विलोक्य सोद्वेगम् ) अहो, रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते । "