पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(121) एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्त्वया । सत्त्वसंश्रयसुखोऽपि दृष्यते कृष्णसर्पशिशुनेव चन्दनः ॥ १८ ॥ तापसी-भद्रमुख, न खल्वयं ऋषिकुमारः । राजा--आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्ययात्तु वयमेवंतर्किणः । (यथाभ्यर्थितमनुतिष्ठन्बालस्पर्शमुपलभ्य, आत्मगतम् ) अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् । कां निर्वृतिं चेतसि तस्य कुर्या- द्यस्यायमाङ्गात्कृतिनः प्ररूढः ॥ १९ ॥ तापसी-(उभौ निर्वर्ण्य ) आश्चर्यमाश्चर्यम् । राजा-आयें, किमिव ? तापसी-अस्य बालस्य तेऽपि संवादिन्याकृतिरिति विस्मापितास्मि । अपरिचितस्यापि तेऽप्रतिलोमः संवृत्त इति । राजा--( बालकमुपलालयन् ) न चेन्मुनिकुमारोऽयम्, अथ कोऽस्य व्यपदेशः ? तापसी-पुरुवंशः। राजा-(आत्मगतम् ) कथमेकान्वयो मम । अतः खलु मदनु- कारिणमेनमत्रभवती मन्यते । अस्त्येतत्पौरवाणामन्त्यं कुलव्रतम् । भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थमशन्ति ये निवासम् । नियतैकपतिव्रतानि पश्चा- त्तरुमूलानि गृहीभवन्ति तेषाम् ॥ २० ॥ .