पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली - २८ ॥ द्विधैव कारणत्वं स्यात् अथ प्रादेशिको भवेत् । वैशेषिको विभुगुण. संयोगादि द्वयं तथा ॥९९॥ चक्षुहिां भवेद्यं द्रव्य देरुपलम्भकम् । चक्षुषः सहकारि स्थानछुक्लादि- कमनेकधा ।। १०० ॥ जलादिपरमाणी तन्नित्यमन्यत्सहेतुकम् । रसस्तु रसनाग्राह्यो मधु- रादिरनेकधा ॥ १०१॥ सहकारी रसज्ञाया नित्यतादि च पूर्ववत् । प्राणनाहोो भवेद्वन्धो ब्राणस्यैवोपकारकः ॥ १२२ ॥ सौरभश्चासौरभश्च स द्वेधा परिकीर्तितः । स्पर्शस्त्वगि- न्द्रियग्राह्यस्त्वचः स्यादुपकारकः ॥ १०३ ॥ अनुष्णाशीतशीतोष्णभेदात्स त्रिविधो मतः। काठिन्यादि क्षितावेव नित्यतादि च पूर्ववत् ॥ १०४ ॥ एतेषां पाकजत्वं तु क्षितो नान्य- त्र कुत्रचित् । तत्रापि परमाणी स्यात्पाको वैशपिके नये ॥ १५ ॥ नैयायिकानां तु नये द्वयणुकादाबपीष्यते । गणनाव्यवहारे तु हेतुः संख्याभिधीयते ॥ १०६ ॥ नित्येषु नि-यमे- कत्वमानित्येऽनित्यमिप्यते । द्वित्वादयः परार्धान्ता अपेक्षाबुद्धिजा मताः ॥ १०७ ॥ अने- काश्रयपर्याप्ता एते तु परिकीर्तिताः । अपेक्षावुद्धिनाशाच नाशस्तेषां निरूपितः ॥ १०८ ॥ अनेकैकत्वबुद्धिर्या सापेक्षाबुद्धिरिष्यते । परिमाणं भवन्मानव्यवहारस्य कारणम् ॥ १०९॥ अणु दीर्घ महद्भस्वमिति तद्भेद ईरितः । अनित्ये तदनित्यं स्यानित्ये नित्य मुदाहृतम् ॥ ११० ॥ संख्यातः परिमाणाञ्च प्रत्रयादपि जायते । अनित्यं द्वयणुकादौ तु संख्याजन्यमु. दाहृतम् ॥ १११ ॥ परिमाणं घटादौ तु परिमाणजमुच्यते । प्रचयः शिथिलाख्यो यः सं. योगस्तेन जन्यते ॥ ११२ ॥ परिमाणं तूलकादी नाशस्त्वाश्रयनाशतः । संख्यावत्तु पृथ- क्त्वं स्यात्पृथक्प्रत्ययकारणम् ॥ ११३ ॥ अन्योन्याभावतो नास्य चरितार्थत्यामध्यते । अ. स्मात्पृथगिदं नेति प्रतीतिर्हि विलक्षणा ॥ ११ ॥ अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः । कीर्तितस्त्रिविधस्त्वेष आद्योऽन्यतरकर्मजः ॥ ११ ॥ तथोभयक्रियाजन्यो भवे- संयोगजोऽपरः । आदिमः श्येनशैलादिसंयोगः परिकीर्तितः ।। ११६ ॥ मेघयोः सन्निपा- तो यः स द्वितीय उदाहृतः । कपालतरुसंयोगात्संयोगस्तरुकुम्भयोः ११७ ॥ तृतीयः स्या- कर्मजोऽपि द्विधैव परिकीर्तितः। अभिघातो नोदनं च शब्दहतुरिहादिमः ॥ १२८ ॥ शब्दाहे. तुर्द्धितीयः स्याद्विभागोऽपि त्रिधा भवेत्। एककोद्भवस्त्वाद्यो द्वयकोद्भवोऽपरः ॥ ११९ ॥ विभागजस्तृतीयः स्यात्तृतीयोऽपि द्विधा भवेत्। हेतुमात्रविभागोत्थो हेत्वहेतुविभागजः ।। २०॥ परत्वं चापरत्वं च द्विविधं परिकीर्तितम् देशिकं कालिकं चापि मूर्त एव तु दशि. म् ॥ १२१ ॥ परत्वं मूर्तसंयोगभूयस्त्वज्ञानतो भवेत् । अपरत्वं तदल्पत्वबुद्धितः स्वादि- तीरितम् ॥ १२२ । तयोरसमवायी तु दिक्संयोगस्तदाश्रये । दिवाकरपरिस्पन्दभूयस्त्व- ज्ञानतो भवेत् ॥ १२३ ।। परत्वमपरत्वं तु तदीयाल्पत्वबुद्धितः । अत्र त्वसमवायी स्यात्सं- योगः कालपिण्डयोः ॥ १२४॥ अपेक्षावुद्धिनाशेन नाशस्तेषां निरूपितः। बुद्धे प्रपञ्चः प्रागेव प्रायशो विनिरूपितः ॥ १२५ ॥ अथावशिष्टोऽप्यपरः प्रकारः परिदश्यते । अप्रमा च प्र- मा चेति ज्ञानं द्विविधमिष्यते ॥ १२६ ॥ तच्छून्ये तन्मतिः स्यादप्रमा सा निरूपिता। तत्प्रपञ्चो विपर्यासः संशयोऽपि प्रकीर्तितः ॥ १२७ ॥ आद्यो देहेष्वात्मबुद्धिः शङ्खादी पतितामतिः । भवेनिश्चयरूपा या संशयोऽथ प्रदश्यते ॥ १२८ ॥ किंस्थिन्नरो घा स्थाणु- वेत्यादिबुद्धिस्तु संशयः । तदभावाप्रकारा धोस्तत्प्रकारा तु निश्चयः ॥ १२९ ॥ स संश- यो मतिर्या स्यादेकत्राभावभावयोः । साधारणादिधर्मस्य ज्ञानं संशयकारणम् ॥ १३०॥ दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरत्वादिरूपो दोषो नानाविधः स्मृ. तः ॥ १३१ ॥ प्रत्यक्षे तु विशेष्येण विशेषणवत्ता समम् । संभिकर्षों गुणस्तु स्यादथ त्व- नुमिती पुनः ॥ १२ ॥ पक्षे साध्यविशिष्टे तु परामशों गुणो भवेत् । शक्ये सादृश्यवाद्ध. भवेदुपमिती गुणः ॥ १३३ ॥ शाब्दबोधे योग्यतायास्तात्पर्यस्याथ वा प्रमा । गुणः -