पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गारामजटीयं । च वटत्वं मंपर्याप्त्यवच्छेदकतात्व तथा च प्रमेयत्वविशिष्टगुणकर्मान्य त्वविशिष्टसत्तावान् गुण इति भ्रमेऽव्याप्तिः तत्र - कारतावच्छेदकतापर्याप्त्यधिकरणीभूतप्रमेयत्वघटित गुरुधर्मस्याभावप्रतियोगितानवच्छेदकतया तदवच्छिन्नप्र- कारतायाः निरुकावच्छिन्नान्यत्वात् स्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकसत्तात्वव्यापकत्वाच्च तद- न्यत्वाभावादिति चेन्न । स्वसमानाधिकरणाभावप्रतियोगितावच्छेद्कतापर्याप्त्यधिकरणनिष्ठावच्छेदकतास्व- निवेशेनैवोपपत्तौ तत्र पर्याप्तिनिवेशे प्रयोजनविरहादिति वदन्ति । तदपि चिन्त्यं यत्र स्वरूपतो रजतत्व- प्रकार करङ्गविशेष्यकभ्रमे तनाव्याप्तिः रजतत्वस्यापि रङ्गविशिष्टाभावीय कालिकसंबन्धावच्छिन्न प्रतियोगि- तानवच्छेदकत्वात् । नच प्रकारतावच्छेदकसंबन्धावच्छिन्नत्वेन प्रतियोगिताविशेषणानायं दोष इति वाच्यं तथा सति घटप्प्रकारकसंयोगसंसर्गकगुणविशिष्टभ्रमेऽव्याप्तेः जगत एव गुणनिष्ठाभावीयसंयोगसंबन्धावच्छि- नप्रतियोगिताबच्छेदकत्वेन तदनवच्छेदकस्याप्रसिद्धेः । अथ प्रकारतावच्छेदकसंबन्धातिरिक्तप्रकारता- प्रतियोगिकसंबन्धभित्रसंबन्धावच्छिन्नत्वेन प्रतियोगिता विशेषणीया तथाच संयोगेन घटवान् गुण इत्यत्र स्वरूपसंबन्धावच्छिन्न प्रतियोगितैव तादृशी तदवच्छेदकं अनवच्छेदक गुणत्वप्रकारकप्रमाविशेष्यत्वादिकमेवेति नाव्याप्तिरिति चेन्न । तथापि संयोगसंबन्धेन प्रमेयप्रकारकगुण- विशेष्यकभ्रमेऽव्याप्ते?ारत्वात् । तत्र प्रकारतावच्छेदकीभूतसंयोगातिरिक्त संबन्धमात्रस्यैच प्रमेयप्रतियोगित- या संयोगस्यैव तदतिरिकत्वेन तदवान्छिन्नप्रतियोगितानवच्छेदकत्वाप्रसिद्धेः तदवस्थत्वात् । यदि च प्रका- रतावच्छेदकसंबन्धातिरिको य: प्रकारतावच्छेदकसंबन्धप्रतियोगिप्रकारप्रतियोग कसंबन्धः तदतिरिक्त संब- न्धावच्छिन्नत्वं प्रतियोगिताविशेषणं एवञ्च संयोगेन प्रमेयवान् गुण इत्यत्र संयोगातिरिको यस्संयोगप्रतियोगिधटपटादिरूपप्रमेय प्रतियोगिकसंबन्धः समवायादिस्त दतिरिक्तस्वरूपादिसंबन्धः तदव- च्छिन्नप्रतियोगितावच्छेदकत्वाभावाच गुणत्वप्रकारकप्रमाविशेष्यतावादी प्रसिद्धेः । नच प्रमेयस्यापि गुण- निष्ठाभावीयतादृशप्रतियोगितानवच्छेदकत्वात तथ्यापकत्वात प्रमेयत्वावच्छिन्नत्वेन तदन्यत्वविशिष्टतादृशान्य- त्वस्य सत्त्वादित्युच्यते तदा विषयतया प्रमेय वान् घट इति भ्रमेऽव्याप्तेः तत्र प्रमेयमात्रस्यैव विषयतानि- रूपकप्रकारतावच्छेदकसंबन्धप्रतियोगितया विषयताया एव तदतिरिक्ततत्प्रतियोगिकसंबन्धभिन्नसंबन्धतया तत्तत्संबन्धावच्छिन्नघटानिष्ठाभावीय प्रतियोगितानवच्छेदकाप्रसिद्धेः । एतेन स्वसमानाधिकरणाभावप्रतियोगि- तानवच्छेदकसंबन्धप्रतियोगिव्यापकत्वं स्वसमा नाधिकरणाभावीय प्रतियोगितावच्छेदकसंवन्धावच्छिन्नप्रति- योगितावच्छेदकं यत् प्रकारतावच्छेदकसंबन्धप्रतियोगिवृत्ति तदतिरिक्तधर्मव्यापकत्वं घटप्रकारकसंयोगसंस- र्गकगुणविशेष्यकनमें गुणनिष्ठाभावीय संयोगसंवन्धावच्छिन्नप्रतियोगितावच्छेदकयत्संयोगप्रतियोगिवृत्तिघटत्वा. दि तदतिरिक्तत्वं गुणत्वादी प्रसिद्ध तथापकत्वाभावात् प्रकारतायां न दोषः गुणकर्मान्यत्वविशिष्टसत्तावान् गुण इत्यत तादृशसत्तात्वब्यापकत्वेऽपि तादृशप्रतियोगितावच्छेदकगुणकर्मान्यत्वविशिष्टसत्तात्वावच्छिन्नत्वान्न दोषः संयोगेन प्रमेयवान् गुण इत्यत्रापि गुणनिष्टाभावीयसंयोगसंबन्धावच्छिन्न प्रतियोगितावच्छेदकं यत् संयो. गसंषन्धे प्रतियोगिवृत्ति तदतिारकत्वं गुणत्वादी प्रसिद्धमिति न दोषः । नचैवमपि स्वरूपतो रजतत्वप्रका- रकसंयोगसंसर्गकभ्रमेऽव्याप्तिः तत्र रजतत्वनिष्ठप्रकारतायाः विशेष्यतासमानाधिकरणाभावीयसंयोगसंवन्धा- वच्छिन्न प्रतियोगितावच्छेदकावच्छिन्नान्यत्वात् ताशसंबन्धावच्छिन्न प्रतियोगितावच्छेदकं यत् संयोगप्रति- बोगिवृत्ति तदतिरिकरजतत्वव्यापकत्वाच्च तदन्यत्वाभावादिति वाच्यं निरूपितत्व समवायाभ्यां अतिरिक- संबन्धेन नातेः स्वरूपतो भाने मानाभावेन स्वरूपतो रजतत्वप्रकारकसंयोगसंसर्गकत्रमस्यैवासिद्धिरित्यपि निरस्तं विषयितया प्रमेयवान् घट इति भ्रमेऽव्याप्तेर्दुरित्वात् तत्र वृत्तितन्मावत्यैव घटनिष्ठाभावीयविष. यितासंबन्धावच्छिन्न प्रतियोगितावच्छेदकत्वात् विषयितासंबन्धप्रतियोमिवृत्तित्वाश्च तदतिरिकाप्रसिद्धेः । न चाकाशादिरेव ताशप्रसिद्ध इति वाच्यं तथापि तब्यापकत्वस्य प्रकारतायामसिद्धत्वादिति तस्मात् भ्रमत्वं कथञ्चिदपि निवक्तुमशक्यमिति चेदन ब्रूमः स्वसमानाधिकरणाभावप्रतियोगितावच्छेदकावच्छिन्नस्वनमाना- धिकरणाभावीययवत्संबन्धावच्छिन्नप्रतियोगितानवच्छेदको यो धर्मः तद्वयापकतत्तत्संबन्धावच्छिन्ना या प्र- कारता तदन्यतन्निष्ठप्रकारताशालित्वमिति निष्कर्षः । संयोगेन घटवानू गुण इत्यत्र गुणनिधाभावीयस्वरूप