पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गारामजटीयं । - दृशवैजात्यावच्छिन्नसंयोगस्य जलादिसाधारणतया तस्य द्रव्यविभाजकोपाधिव्याप्यतावच्छेदकत्वाभावात् । अत एव रूपादिनाशकतावच्छेदकवैजात्यावच्छिन्नाग्निसंयोगेऽपि नाव्याप्तिः ताशसंयोगस्य पृथिवीतेजोद्वय- वृत्तितया द्रव्यविभाजकोपाधिव्याप्यतावच्छेद कधटजनकतावच्छेदकतया सिद्धकपालद्वयसंयोगनिष्ठचैजात्यमा- दायाव्याप्तिवारणाय संयोगवृत्तित्वं विशेषणमावश्यकं तादृशवैज्ञात्यस्य पृथिवीत्वव्याप्यतावच्छेदकत्वादिति चेन नोदनवादिना साङ्कर्येण तादृशवैजात्यासिद्धेः । अपिच कपालद्वयसंयोगस्य कपालद्वयसंयोगत्वेनैव हेतु- ताभिमता न तु वैजात्येन अत एव येन सहेत्यन्यथासिद्धिलक्षणे कपालेन कपालावयवेऽन्यथासिद्धिवारणाय यस्येत्यस्य स्वतन्त्रान्वयव्यतिरेकशून्गत्वे सतीति निवेशप्रयासोपचर्यते अन्यथा कपालद्वयसंयोगस्य वैजा. त्येनेव कारणत्वे कपालेनैव तस्य पूर्ववृत्तिवनियमाभावात् । अत्रोच्यते वर्णजनकतावच्छेदकतया सिद्धवै. जात्यावच्छिन्नकण्टसाल्वाद्यभिधाते अव्याप्तिवारणाय संयोगावृत्तित्वविशेषणमावश्यकमेव द्रवत्वपदस्य नैमि- त्तिकद्रवत्वपरत्वात न सांसिद्धिकद्वत्वेऽतिव्याप्तिः। स्थितस्थापकस्य पृथिव्यादिचतुष्टय वृत्तित्वं अनेन लक्षणस्य न स्थितस्थापकेऽव्याप्तिः । पृथिवीजलमधुररसयोरप्यव्याप्त्यापत्तेः संस्कारत्वस्य मूर्तत्वव्याप्यतावच्छेदक- स्वाभावात् मूर्तत्वव्याप्यतावच्छेदकयोर्वेगवस्थितस्थापकत्वयोश्च गुणत्वसाक्षायाप्यत्वाभावात् इति चेन्न सं. स्कारवान्यगुणत्वव्याप्याच्याप्यत्वे सति गुणत्वव्याप्यत्वस्यैव गुणत्व साक्षायाप्यत्व पदेन विवक्षितत्वात् स्वाश्रयान्योन्याभावव्यापकात्यन्ताभाव प्रतियोगित्वं संयोगविभागद्वित्वद्विपृथक्त्यभिधानां लक्षणम्। अत्र सं- योगाभावस्यापि खानयान्योन्याभावप्रतियोगित्वादिदं लक्षणं संयोगेऽतिव्याप्तम् । नच प्रकृतव्यापकताश. रीरे प्रतियोगियधिकरण्यनिदेशे प्रयोजनाभाषेन खाश्रयान्योन्याभावसमानाधिकरणात्यन्ताभावप्रतियोगि- त्वरूपं स्वाश्रयान्योन्याभावव्यापकत्वं स्वास्यन्ताभावस्यान्योन्य नास्त्येव स्वात्मकतदत्यन्ताभावस्य स्वा- श्रययत्किञ्चिद्यक्तिभिन्नापरब्यक्तौ सत्त्वादिति नातिव्याप्तिरिति वाच्यम् । तथापि स्वाश्रयान्योन्याभावः किं स्वाश्रयत्वावच्छिन्नप्रतियोगिताकाभावः उत स्वाश्रवान्य कप्रतियोगिकान्योन्याभावः । आये स्वाश्रय- त्वावच्छिन्नप्रतियोगिताकान्योन्याभावाधिकरणे स्वस्यावृत्तित्वात् संयोगेऽतिव्याप्तिस्तदवस्था । यदि स्वाश्रयप्र. तियोगिकान्योन्याभावः तदा स्वाश्रयनिष्ठवैशिष्टयव्यासज्यवृत्तिधर्मावच्छिन्न प्रतियोगिताकान्योन्यामावाधिकर. णे स्वस्यापि सत्त्वादतिव्याप्तिः । अथ खाश्रयनिष्ठतद्यक्तित्वावच्छिन्नप्रतियोगिताकान्योन्याभाव एव विवक्षित इति न काप्यनुपपत्तिरिति चेत् तथापि स्वात्यन्ताभावस्य यो वैशिष्टयव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकाल्य- न्ताभावः तस्य खाश्रयान्योन्याभाववति सत्त्वाइसंभवस्य दुरित्वात् । अत्रोच्यते स्वाश्रयान्योन्याभावाधिकर- णवृत्तित्वस्य समवायसंबन्धेन विवक्षणे तादृशात्यन्ताभावस्य समवायेन वृत्तित्वेन लक्षणघटकत्वासंभवादिति दिक् । रूपस्पर्शान्यत्वे सति द्रव्यात्वविभाजकोपाधिव्याप्यतावच्छेद्कसंयोगविभागवेगद्वत्वावृत्तिजातिशून्य- वे सति गुणत्वसामान्य गुणलक्षणम् ।तिक्तत्वाम्लत्वादेः पृथिवीत्त्वव्याप्यतावच्छेदकतया तिक्तत्वाम्लत्वादात्र- तिव्याप्त्यभावेऽपि मधुररसेऽतिव्याप्ति: मधुरत्वावच्छिन्नस्य पृथिवीजलोभयसाधारणतया मधुरत्वस्य पृथि- वीविभाजकोपाधिव्याप्यतावच्छेदकत्वात् । नच जलीयमधुररसे पार्थिवमधुररसव्यावृत्तवैजात्यं तद्यावृत्तवैजा- त्यं च पार्थिवमधुररसे स्वीक्रियत इति वाच्यं तत्र प्रमाणाभावात् । नच जलजन्यतावच्छेदकतया पृ- थिवीजन्यतावच्छेदकतया तसिद्धिरिति वाच्यम् । तथा सति तुल्ययुक्त्या जलीय शुक्लरूपे वाय्वनुष्णाशीत- स्पर्शे च तज्जन्यतावच्छेदकवैजात्यसिद्धिसंभवेन जलीय शुक्लरूप इत्यादिप्रन्यासा त्यापत्त्या विजातीयमधुरर- ससाक्षात्कारत्वावच्छिन्नं प्रति हरीतक्यादिभक्षणस्य कारणतया तत्तजन्यतावच्छेदककुक्षिप्रविष्टतया जलीय. रसे कथाचिद्वैजात्यस्वीकारेऽपि पार्थिवरसे तत्सिद्धौ प्रमाणाभावात् ! नवं तत्रापि पाकजन्यतावच्छेदकतया तसिद्धिरिति वाच्यं पाकजन्यमधुररसे तादृशवैजाये प्रमाणाभावात् । नच तत्रापि समवायेन मधुररसं प्रति स्वाश्रयसमवेतत्वसंबन्धेन मधुररसस्य कारणत्वे कल्पनीये पाकजन्यमधुररसे व्यभिचारवारणाय प्रत्येकन्या- वृत्तवैज्ञास्यानुभवोऽस्तीति कृतमिदं लक्षणमतो न तत्राप्यतिव्याप्तिः । स्वाश्रय समवायिमावृत्तिस्वसजातीय. गुणजन्यवृत्तिसङ्ख्यात्वपृथक्त्वातिरिक्तभावनावृत्त्यन्यजातिमत्वे सति पाजत्वं पाकजरूपगन्धस्पर्शद्रवत्वाना स्नेहवेगगुरुत्वैकत्वैकपृथक्त्वपरिमाणस्थितस्थापकानां लक्षणम् । साजायं च गुणस्वव्याप्यजाया। नन्वत्र स्ने ।