पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुकावली-प्रभा-दिनकरीयसमन्विता । ८४९ फलायालमिति भावः ॥ ज्ञानादपीति ॥ अपिना भोगपरिग्रहः । ननु तत्त्वज्ञानस्य कथं धर्माधर्मनाशकत्वं नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपीति वचनविरोधात् । इत्थं च त- स्वज्ञानिनां झटिति कायब्यूहेन सकलकर्मणां भोगेन क्षय इति चेन्न। तत्र भोगस्य वेदबो. धितनाशकोपलक्षकत्वान् | कथमन्यथा प्रायश्चित्तादिना कर्मणां नाशः। तदुक्तं ज्ञानाग्निः सर्व- कर्माणि भस्मसात्कुरुतेऽर्जुन । क्षीयन्ते चास्य कर्माणि तस्मिन दृष्टे परावरे इति । ननु त- त्त्वशानिनस्तर्हि शरीरावस्थानं सुखदुःखादिकं न स्यान । ज्ञानेन सर्वेषां कर्मणां नाशादिति चेन्न प्रारब्धेतरकर्मणामेव नाशात् । तत्तच्छरीरभोगजनक हि यत्कर्म तत्प्रारब्धं तदभिप्राय- मेव नामुक्तमिति वचनामिति ॥ प्रभा. प्रमाणमत आह ॥ मुक्तावळ्यामत इति । बासनाया हेतुत्वादेवेत्यर्थः ॥ न फलायालमिति ॥ न धर्माधोत्पादनसमावित्यर्थः । तथाच ज्ञानिनः रागरूपसहकारिकारणाभावात् सुकृतदुष्कृतकर्मभ्यां न तत्र धर्माद्युत्पत्तिरिति भावः । केचित्तु ननु गङ्गादिदर्शनादीचरे कुतो न धर्मादेत्पत्तिरत आह || मुले हमी तु वासनाजन्याविति ॥ ईश्वरे मिथ्याज्ञानजन्यवासनाविरहात न धर्मादेत्पत्तिरिति भाव इत्या- हुः तदसत् गङ्गादिविषयकप्रत्यक्षमात्रस्य न धर्मादिहेतुत्वं सर्वेषामपि तादृशमानसप्रत्यक्षसत्त्वेन धर्माद्युत्प, त्यापत्तिः किन्तु गङ्गादिनिष्टलौकिकविषयताशालिप्रत्यक्षमेव तथा। एवं चेवरे तादृशप्रत्यक्षरूपकारणाभावादे- व धर्माद्युत्पत्त्य प्रसक्तः तत्प्रसक्तिपूर्वकतया इमा वित्यादिमूलावतरणस्यान्याय्यत्वादिति । ननु निरुक्तवच- नानुरोधात् भोगस्यैव निरुक्तधर्माधर्मनाशकत्व स्वीकारे तत्त्वज्ञानानन्तरं मोक्षो न स्यात् धर्मादिनाशकाभा- वादत आह ॥ इत्थंचेति ॥ भोगस्यैव धर्मनाशकत्वे चेत्यर्थः ॥ झटिति कायव्यूहेनेति ॥ एकदानेक- शरीरस्वीकारेणेत्यर्थः । सकलकर्मणामिति । निखिलधर्माधर्माणामित्यर्थः ॥ भोगेन क्षय इति ॥झटिति फलानुभव कारणेनेत्यर्थः । अत्र भोगस्येति ॥ तादृशवचनघटकभुक्तपदाथै कदेशभोगस्येत्यर्थः ॥ उपलक्षक स्वादिति ॥ सूचकत्वादित्यर्थः । तथाच नामुक्त क्षीयत इत्यस्य भोगवेदबोधितनाशकान्यतरं विना न क्षीयत इत्यर्थान्न तत्त्वज्ञानस्य धर्मादिनाशकत्वानुपपत्तिरिति भावः । नामुक्तमित्यादिवचनस्यैतादृशार्थपर- रदे प्रमाणमाह ।। कथमन्यथेत्यादि ॥ प्रायश्चित्तादिनेति ॥ आदिना कर्मनाशाजलस्पर्शादेः परिग्रहः धर्माणामधर्माणां च नाश इत्यर्थः कभमिति पूर्वेणान्वयः । यद्यपि कथमन्यथा कर्मनाशाजलस्पर्शादिना कम णां नाश इत्येव वक्तुमुचितं धर्मस्यैव प्राथमिकत्वात् आदिपदेन दुरितनाशकप्रायश्चित्तस्यापि ग्रहणसम्भवा- च तथाप्यधर्मनिरूपणानन्तरमेव एतादृशमूलस्य प्रसक्ततया तस्यैव प्रथममुपस्थितत्वमित्याशयेन प्रायश्चि- तादीत्युक्तमिति ध्येयम् । एतावता भोगस्यैव धर्माधर्मनाशकत्वरक्षे वाधकं प्रदश्येदानी ज्ञानस्यादृष्टनाशक- स्वे स्मृति श्रुतिं च प्रमाणयति ॥ तदुक्तमिति ॥ गीतायां भगवतोक्तमित्यर्थः ॥ सर्वकर्माणीति ॥ सकलादृष्टानीत्यर्थः ॥ भस्मसारकुरुत इति ॥ नाशयतीत्यर्थः । श्रुति दर्शयति ॥ क्षीयन्त इति । नाशं प्राप्नुवन्तीत्यर्थः ॥ अस्येति ॥ ज्ञानिन इत्यर्थः ॥ कर्माणीति ॥ सकलादृष्टानीत्यर्थः । तस्मिन् दृष्टे परावर इति ॥ निरवधिकपरत्वाश्रये ब्रह्मणि साक्षात्कृते सतीत्यर्थः ।। तहीति॥ भोगस्येव तत्त्वज्ञा- नस्यापि कर्मनाशकत्व इत्यर्थः ॥ नाशादिति ॥ नाशस्वीकारादित्यर्थः । तथाच ज्ञानस्य सर्वनाशकत्वस्वीका. दिनकरीयम्. मानाभाव इयत आह ॥ मुक्ताचल्यामत इति ॥ ज्ञानिना तत्त्वज्ञानवता ॥ वचनविरोधादिति ॥ तेनादृष्टनाशमात्रे भोगाय हेतुत्वप्रतिपादनादिति भावः ।। इत्थं चेति । कर्मणां भोगेकनाश्यत्वे वेत्यर्थः ॥ अन्यथा उपलक्षकत्वाभावे ॥ सर्वकर्माणीति ॥ सर्वकर्मजन्यादृष्टानीत्यर्थः ॥ भस्मसात्कुरुते नाश- यति । स्मृति दर्शयित्वा श्रुति दर्शयति । क्षीयन्ते चेति ॥ तदभिप्रायमेव प्रारब्धकर्माभिग्नायमेव । 107