पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्कावली-प्रभा-दिनकरीयसमन्विता । साक्षान्मरणजनकस्यैव हि हिंसात्वं श्येनस्तु न तथा। किन्तु तजन्यापूर्वामिति वाच्यं ख- गाघातेन ब्राह्मणे व्रणपाकपरम्परया मृते हिंसात्वानापत्तः । केचित्तु श्येनस्य हिंसा फलं न तु मरणं तेन श्येनजन्यखड्गाघात दिरूपा हिंसाभिचारपदार्थस्तस्य च पापजनकत्वं अतः श्येनस्य वैधत्वात् पापाजनकत्वेऽपि अग्रिमपापं प्रतिसन्धाय सन्तो न प्रवर्तन्त इत्याहुः । प्रभा. परम्परया मरणानुकूलत्वाच हिंसात्वापतिस्तद्वारणाय तादृशविशेषणस्यावश्यकत्वे अर्थाच्छयेनस्यापि वारणं भवतीति भावः । तटस्थः शङ्कते ॥ नचेति ॥ हिंसात्वमिति ॥ अस्त्विात शेषः ॥ न तथेति ॥ न साक्षान्मरणजनक इत्यर्थः ॥ तजन्यापूर्वमिति ॥ साक्षान्मरणजनक इत्यनुषशेणान्वयः । तथाच साक्षा- न्मरणानुकूलव्यापारस्य हिंसात्वस्वीकारेणेव सकलदोषवारणे अदृष्टाद्वारकत्वविशेषणमनर्थकमिति भावः ॥ ख. गधातेन व्रणपाकपरम्परया मृत इति॥त्रणनितरुजानुभवपरम्पराद्वारा खड्गपातजन्यमरणाश्रये पुरु. षे सतीत्यर्थः ॥ हिंसात्वानापत्तेरिति । तादृशखड्गधातस्य हिंसात्वानुपपत्तरित्यर्थः। तथाच तादृशखड्गधा. तस्य हिंसात्वानुपपत्त्या साक्षान्मरणानुकूलव्यापारस्य हिंसात्वं न संभवतीति भावः । बलवदनिष्टाननुबन्धि- स्वविशेषणदानं विनैव श्येनस्य हिंसात्वं निराकृत्य बलवदनिष्टाननुबन्धित्वमुपपादयतां प्राचीनकदेशिनां म. तमाह । केचित्विति ॥ हिंसेति ॥ साक्षान्मरणानुकूलव्यापार इत्यर्थः ॥ तेनेति ॥ साक्षान्मरणजन. कव्यापारस्यैव हिंसात्वस्वीकारणेत्यर्थः ॥ खड्गघातादिरूपहिंसेति ॥ तादृशहिंसदेत्यर्थः॥ तस्य चे. ति ॥ खड्गघातादेरेवेत्यर्थः ॥ पापजनकत्वमिति ॥ स्वीक्रियत इति शेषः। तथाचैतन्मते साक्षान्मरणा- नुकूलव्यापारस्यैवाभिचारपदार्थत्वेन खड्गधातादेरेव तादृशतया अभिचारमहीनं चेत्यादिना तस्यैव पापजन- कत्वबोधनादिति भावः । ननु साक्षान्मरणजनकव्यापारस्यैव हिंसात्वमस्त्विति नचेत्यादिनन्थेन पूर्वमाश- तितत्वात्यनिरुक्त्यम् । नच पूर्व श्येनजन्यापूर्वस्यैव हिंसात्वाशनात् अत्रतु खड्गघातादेरेव तथात्वाशना- च भेद इति वाच्यम् खड्गघातादिरूपाहंसेति वाक्यघटकादिषदेन श्येनजन्यापूर्वस्यापि प्रहणसंभवात्पौनरु. त्यं दुरिमिति चेन्न । एतन्मते श्येनजन्यापूर्वस्य खड्गाभिघातं प्रत्येव व्यापारविषया हेतुत्वेन मरणं प्रत्यन्य. थासिद्धत्वात् साक्षान्मरणजनकत्वाभावेन पौनरुतयाप्रसक्तेः । नव साक्षान्मरणजनकव्यापारस्य हिंसारखे यादशखड्गधातोत्तरमेव ब्राह्मणस्य न भूतिः किंतु तमन्यमणपाकपरम्परया तादृशखड्गाभिघातस्य हिंसात्यानु. पपत्तिः साक्षान्मरण साधनस्वाभावादिति वाच्यम् । एतन्मतेऽनन्यथासिद्धत्वविशेषितनियतपूर्ववृतितावच्छेदक- धर्मवत्त्वस्यैव प्रकृते साक्षाजनकत्वपदार्थतया खड्गाभिघातस्य स्वजन्यसन्निपातादिदोषद्वारैव हेतुत्वाद्यापारे- ण व्यापारिणोऽन्यथासिद्धत्वाभावेन तत्रापि निरुक्तसाक्षाजनकत्वसत्त्वादिस्याशयः । नन्वेव सत्यास्तिकानां दिनकरीयम् . श्यकेनादृष्टाद्वारकत्वविशेषणेन श्येनस्यापि हिंसात्ववारणमिति भावः। ननु साक्षान्मरणजनकत्वाविशेषणादेव ता. दशशिवपूजनश्येनादेवारणे किमदृष्टाद्वारकत्वेन गुरुविशेषणेनेति तटस्थः शङ्कते ॥ नच साक्षादिति ॥ अदृष्याद्वारकत्वविशेषणं विनैव श्येने बलश्दनिष्टाननुबन्धित्वमुपादयतां मतमाह ॥ केचित्रिवति ॥हिं- सा फलमिति ॥ साक्षान्मरणफलको व्यापारः फलमित्यर्थः ॥ तस्य खड्गाभिघातादेः ॥ पापजनकत्व. मिति ॥ अभिचारमहीनं चेत्यादिनाभिचारस्य पापजनकत्वबोधनात् साक्षान्मरणजनकव्यापारस्यैचाभिचा. रपदार्थत्वादिति भावः । नव पूर्व नरेत्यादिना साक्षान्मरणजनकव्यापारस्यैव हिंसास्वमित्याशक्षितत्वात् तेन पौनरुक्त्यमिति वाच्यं पूर्व साक्षान्मरणजनकस्य श्येनजन्यापूर्वस्य हिंसात्वमाशक्षितमिह च तथाभूत- स्य खगाभिघातादेरिति भेदात् । नचादिपदेन श्येनजन्यापूर्वस्य तथाभूतस्य प्रहणात् कथं भेद इति वाच्यं श्येनजन्यापूर्वस्यैतन्मले खड्गाभिघातं प्रत्येव व्यापारत्तया तस्य मरणजनकत्वाभाचात् । नच साक्षान्मरणज- नकव्यापारस्य हिंसात्वे खड्गाघातेन ब्राह्मणे त्रणमाकपरम्परया मृते हिंसात्वानुपपत्तिस्तदवस्यैवेति वाच्यं सब बागवातायुत्तरभेद सनिपाताहिदोषस्योत्पश्या मरणं प्रति लक्ष्य व्यापारतया व्यापारेण व्यवधानात