पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२२ कारिकावली [गुणखण्ड खष्टसाधनत्वमविज्ञाय तादृशकार्यताज्ञानसहस्रेगापि प्रवृत्तरसम्भवात् । यदपि पण्डापूर्व फल- प्रभा. स्तवपाठादाविवेति ॥ कालत्रयविहितस्तोतपाठादाविवेत्यर्थः । आदिना कालद्यावहिताग्निहोत्रपरिग्रहः । तथाच सन्ध्योपासनातया अवश्य कर्तव्यगायत्रीकवचादेः पारायणस्य त्रिसन्ध्यं कीर्तयेद्यस्तु सर्वान् कामा- नवाप्नुयात् इति वचनेन यथा कामना सद्भावनै यत्यं तथा सम्ध्योपासनादेरपि कामनासत्त्वमावश्यकामिति भा- वः इदमुपलक्षणं फलकामनायाः प्रवृत्ति प्रयोजकतथा कामनादिविरहिण: सन्ध्योपासनादौ काम्यसाधनताज्ञा- नाभावात् प्रवृत्त्यभावेऽपि अकुर्वन्विहितं कर्म नरो भवति किल्बिषी इति वचनेन शुचि कर्म कुर्वीतेत्यादिश्रुत्या च शुचित्वादिमतः विहित कमाननुष्ठानस्य प्रत्यवाय सम्पादकत्वबोधनात् शुचित्वादिविरहिणः तदकरणस्य प्रत्यवा. यासम्पादकत्वबोधनाकच कामनादिविरहिणः नित्यकर्माकरणप्रयुक्तप्रत्यवायवस्वमस्त्येवति प्रत्यवायानुप- तिफलकनित्य कर्म प्रवृत्त्यर्थमास्तिकस्य प्रत्यवायनिवृत्यादिकामना अवश्यं स्वीकार्यत्यपि द्रष्टव्यम् । केचि- तु ॥ कल्पनादिति ॥ इदमुपलक्षणं अर्थवादोपस्थितका मनायाः अधिकारत्वेऽपि अकुविहितं कर्मेत्या- दिना शौचे सति विहितान नुष्ठानस्य प्रन्यवाय जनकत्वबोधनात् कामनासंवलितस्य शुचित्वादेनाधिकारखं किं. तु नित्यस्थले फलकामना शुचित्वाद्योरधिकार योसंवलनं तथाच कामनादिविर हेऽपि शुचित्वादिरूपाधिकारस. स्वात् सन्ध्यायकरणस्य प्रत्यवाय जनकत्वमेव कामनाया अधिकारत्वेऽपि तदधिकारवत: शौचादिविरहेण सन्ध्याद्य करणस्य प्रत्यवाय जनकत्वं न कल्प्यते शुचितत्काल जीवित्वरूपाधिकारकदेशवतोऽपि अकरणे प्र- त्यवायजनकत्वं करूप्यते तेन संबलिताधिकारस्वेऽपि क्षतिविरहाच्चेत्यपि दृष्टव्यम् । एतेन तत्र नियमेन फल- कामनासत्त्वे मानाभावेऽपि न क्षतिरित्याहुः । तदसत् नैयायिकमते नित्ये काम्ये च कामनाया एवाधिका- रत्वेन कामनाचानवाधिकारी इष्टसाधनतादित्रित यज्ञानस्यैव सर्वत्र प्रवर्तकत्वात् न शुचित्वादेरधिकारत्वं त- न्मते साक्षात्परम्परया वा तज्ज्ञानस्या प्रवर्तकत्वात् अत इदमुपलक्षणमित्यारभ्य किन्तु नित्यस्थले फल काम- नाशुचित्वाधोराधिकारयोस्संवलनमित्यन्तप्रन्थोऽलग्नः । एवं कामनाविरप्रयुक्तनित्यकर्माकरणस्य प्रत्यवाय - सम्पादकत्वेऽपि कामनावतः शौचादिविरह प्रयुक्तनित्यकर्माकरणमळीकमेव । नहि सकलकारणसत्त्वे कार्यानु- त्पत्तिस्तत्कालजीवित्वस्य नित्यकर्मप्रयोजकत्वेऽपि शुचिवस्थ प्रयोजकत्वे मानाभावात् । अन्यथा अशुचिर्वा शुचिर्चापि काले सन्ध्यां समाचरदिति वचनविरोधापत्तेः । नचैवं सति शुचि कर्म कुर्वी. तेत्यादिश्रुतिविरोधापत्तिरिति वाच्यं तस्याः शुचित्वे काम्यसाधारणकर्मत्वावच्छिन्न प्रयोजकत्वपरत्वात् सन्ध्योपासकस्य कदाचिच्छुचित्वविरहेऽप्युक्तश्रुतिविरोधाभावात् एवमुक्तवचनेन सन्ध्यादेः विध्युक्तकालाव- च्छेदेनावश्यकर्तव्यत्वप्रतिपादनेन शौचाभावप्रयुक्तसन्ध्यायकरणस्यापि प्रत्यवायसम्पादकत्वात् तथाचेत्यार- भ्य द्रष्टव्यमित्यन्तप्रन्थोऽप्यलग्नः एवं कामनाविरहप्रयुफेटसाधनताशानाभावेन सन्ध्यायकरणप्रयुक्तप्रत्यवायो- त्पत्तेरावश्यकत्वादेतेन तत्र नियमेन फलकामनासत्वे मानाभावेऽपि न क्षतिरित्यन्तग्रन्थोऽप्य लग्न एवेति दिक् । ननु विहित कालजीवित्वलिङ्गक कार्यताज्ञानादेव नित्ये प्रवृत्त्युपपत्तेः नित्यस्य काम्यत्वकल्पनं तत्प्रवृत्ताविष्टसाधन• ताज्ञानस्य हेतुत्वकल्पनं चायुक्तमिति प्राभाकरनिगळितमतं सिंहगुहाबलोकन्यायेन प्रसङ्गसङ्गला चेदानी दृषयः दिनकरीयम्. र्थवादापस्थितकामनाया अधिकारत्वेऽपि अकुर्वन् विहितं कर्मेत्यादिना शौचे सति विहिताननुष्ठानस्य प्रत्य- वायजनकत्वबोधनात् कामनासंवलितस्य शुचित्वादेर्नाधिकारत्वं किंतु नित्य स्थले फलकामनाशुचित्वाद्योर- धिकारयोः संवलनं तथा च कामनाविरहेऽपि शुचित्वादिरूपाधिकारसत्वात् तदा सन्ध्यायकरणस्य प्रत्यवा- यजनकत्वमेव कामनाया अधिकारत्वेऽपि तदधिकारवतः शौचादिविरहिणः सन्ध्याकरणस्य प्रत्यवायजनक- स्वं न कल्प्यते शुचितत्कालजीवित्वरूपाधिकारैकदेशवतोऽप्यकरणे प्रत्यवायजनकत्वं कल्प्यते न संबलिता. धिकारत्वेऽपि क्षतिविरहाचेत्यपि द्रष्टव्यम् । एतेन नियमेन फलकामनासत्त्व मानाभावेऽपि न क्षतिरिति सूचि- सम् । ननु नित्यगोचर प्रवृत्ताविष्टसाधनताज्ञानं कारणमेव नेत्यनेनैवोपपत्तौ किमर्थं नित्यस्यापि काम्यत्वं क- स्पनीयमत आह ॥न विति । स्वेटसाधनत्वामिति ॥ अन्वयव्यतिरेकाभ्यां प्रवृत्तित्वावच्छिन्नं प्रती-