पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । धीतिरोधानात् । वृष्ट्यादौ तु कृतिसाध्यताज्ञानाभावान्न चिकीर्षाप्रवृत्ती किंत्विष्टसाधन- ताज्ञानादिच्छामात्रम् | कृतिश्च प्रवृत्तिरूपा बोध्या । तेन जीवनयोनियत्नसाध्यप्राणपञ्च- कसञ्चारे न प्रवृत्तिः । इत्थं च प्रवर्तकत्वानुरोधाद्विधेरपीष्टसाधनत्वादिकमेवार्थः । इत्थं प्रभा. ति ॥ अगम्यागमनादिविशेष्यकबलवदनिष्टानुबन्धित्वप्रकारकज्ञानोत्सत्त्य संभवादित्यर्थः तथाच निरुतरागा. दिदशायां नरकाम्फूा नरके बलवद्देषानुत्पत्त्या वा तत्र बलवदिष्टसाधनताज्ञानं न संभवतीति प्रतिबन्धका- भावादगम्यागमनादिप्रवृत्त्यव्यवहितपूर्वकालेऽपि तादृशज्ञानोत्पत्तिसंभवेन व्यभिचाराभावात् बलवदनिष्टाननु. वन्धित्वज्ञानस्यापि प्रवृत्तिसामान्ये हेतुत्वं निराबाधामति भावः । इष्टसाधनतादिज्ञानस्य चिकी द्वारा प्रवृत्ति हेतुत्वेनैव सामञ्जस्ये उपायेच्छां प्रति इष्टसाधनताज्ञानस्य न पृथग्घेतुन्वं प्रयोजनाभावादित्याशा चिकीर्षा. नुत्पत्तिस्थले उपायेच्छोत्पत्तिप्रदर्शनेन परिहरति ॥ दृष्टयादौ स्विति ॥ आदिना रम्भासंभोगादे: परिप्रहः अवधारणार्थकतुशब्दः ज्ञानाभावादित्युत्तरं योज्यः ॥ न चिकीर्षाप्रवृत्ती इति ॥ तभाच कृतिसाव्यताज्ञानाभावादेव तत्र चिकीर्षानुत्पत्तौ तदभावात्प्रवृत्तेरपि अनुत्पत्तिरिति भाव: वृष्टयादावेव उपायेच्छोत्पत्तिरावश्यकीत्याह । किंस्विति । इच्छामात्रमिति ॥ उपायेच्छात्वाव. च्छिन्नमित्यर्थः उत्पद्यत इति शेषः तथाच तत्र इच्छायाः अस्वीकारे अनुभवापलापापत्त्या दृशकार्यकारणभाव आवश्यक इति भावः । ननु कृतिसाध्यताशानस्य चिकी द्वारा न प्रवर्तकत्वं तत्स. त्वेऽपि प्राणपञ्चकसञ्चार प्रवृत्त्यदर्शनात् नच तत्र कृतिसाध्य ताज्ञानसत्त्वेऽपि इष्टसाधनताज्ञानाभवात् न प्रथ. त्तिः इष्टसाधनताज्ञानसहकृतस्यैव तस्य चिकीर्षाद्वारा प्रवर्तकत्व स्वीकारादिति वाच्यं प्राणपञ्चकसञ्चारे जी. वनरूपेष्टसाधनताज्ञानस्यापि सत्त्वादित्यत आह ॥ कृतिश्चेति ॥ कृतिसाध्यत्वज्ञानत्वरूपप्रवर्तकतावच्छेद - कघटककृतिश्वेत्यर्थः । प्रवृत्तिरूपा बोध्येति॥ तथाच कृतिसाध्यताझानं प्रवर्तकमिति वाक्य घटककृतित्वरूप. सामान्यधर्मावच्छिन्नवाचककृतिशब्दस्य प्रवृत्तित्वरूपविशेषधर्मावच्छिन्नलाक्षणिकत्वस्वीकारेण यत्नत्वावच्छि- असाध्यताज्ञानस्यैव प्रवर्तकत्वलाभानोक्तव्यभिचार इति भावः । उक्तार्थमेव स्पष्टयति ॥ तेनेति । उकरीत्या यनत्वावच्छिन्नसाध्यताज्ञानस्य प्रवर्तकत्वस्वीकारेणेत्यर्थः । जीवनयोनियत्नसाध्य इति ॥ तन्मात्रसा. ध्य इत्यर्थः प्रवृत्त्य साध्य इति यावत् । अनेन प्रवृत्तिजनकयत्नसाध्यताज्ञानप्रतिबन्धकतदसाध्यतानानसत्त्वमा- विष्कृतं यथाश्रुते प्राणपञ्चकसञ्चारे जीवनयोनियमसाध्यत्वकथनस्या प्रकृततया असाङ्गत्यापत्तेः । न प्रवृ- चिरिति ॥ यत्नमाध्यताज्ञानाभावादित्याशयः। अन्येतु कृतित्वावच्छिन्ननिरूपितसाध्यताज्ञानमात्र प्रवर्तक लक्षणायाः अकल्पनप्रयुक्तलाघवात् नच प्राणपञ्चकसञ्चारे प्रवृत्त्यापत्तिः चिकीर्षा प्रति तादात्म्य संबन्धेन प्रा. णपश्चकसञ्चारप्रतिबन्धकत्वस्वीकारेणैव तत्र चिकीर्षानुत्पत्तौ कारणाभावादेव प्रवृत्यापत्तिवारणसंभवादित्याहुः । दिनकरीयम्. ति ॥ अगम्यागमनादिसुखे उत्कटरागादिनेत्यर्थः ॥ नरकति ॥ बलवदनिष्टेत्यर्थः ।। तिरोधानात् अ- नुत्पादनात् । तादृशसुखे उत्कटरागसत्त्वेऽगम्यागमनजन्यनरके बलवद्देषानुदयादिति भावः ॥ प्रवृत्ति रूपेति ॥ कृतिसाध्यताज्ञानमित्यत्र प्रवृत्तित्वेन कृतेः प्रवेश इत्यर्थः । स्वेच्छाधीनकृति साध्यताज्ञानस्य हेतु- त्ववादिमणिकृन्मतेऽपि स्वेच्छाधीनत्वं कृतिविशेषणं प्रवृत्तिरूपकृतिलाभायैवेति भावः । इत्थं च तयापारीभू. तेच्छापि प्रवृत्तिसाध्यत्वप्रकारिका बोध्या ज्ञानेच्छयोः समानप्रकारकत्वेन हेतुहेतुमद्भावादिति । तेन प्रवृत्ति प्रवेशेन ॥ प्राणपञ्चकसञ्चारेन प्रवृत्तिरिति । नच प्राणानामतीन्द्रियतयोपादानप्रत्यक्षाभावादेव न प्रा- गोपादानकसञ्चारसाध्यकप्रवृत्त्यापात्तरिति वार्य प्राणवहनाड्युपादानकप्रागसञ्चारमाध्यकप्रवृत्त्यापत्तिवारणा- यैव प्रवृत्तिसाध्यताज्ञानहेतुत्वाङ्गीकारात् । यद्यपि प्रापासञ्चारावृत्तिविशेष्यतासम्बन्धेन कृतिसाध्यताज्ञानहेतुत्वा. श्रीकारादेव तथा प्रवृत्तिवारणं सम्भवति तथापि घटादौ जीवनयोनियत्नसाध्यात्वभ्रमात प्रवृत्यापत्तिवारणाय प्रवृत्तिबाध्यत्वज्ञानस्वेन हेतुत्वमावश्यकमिति ध्येयम् । एतेन प्राणसञ्चारे प्रवृतिवारणाय प्रवृत्तियाध्यताज्ञान- 1