पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१२ कारिकावली [गुणखण्ड मैवम् । लाघवेन बलवदनिष्टाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यताज्ञानस्य तत्र हेतुत्वात् । न च साध्यत्वसाधनत्वयोविरोधः यदाकदाचित् साध्यत्वसाधनत्वयोरविरोधादेकदा ज्ञानान्वयि- प्रभा. सिद्धत्वासिद्धत्वावच्छेद्यसाधनत्वसाध्यत्वविषयकै कविशेष्य कसमूहालम्बनज्ञानमभ्रान्तम्य न संभवति तयोर्वि रुद्धत्वात् अवच्छेदकान वगाहिसाध्यत्वसाधनत्वज्ञानमप्रामाणिकं मूले वृक्षः कपि संयोगीत्याकारकप्रतीतेरे- वानुभवसिद्धतया अव्याप्यवृत्तिप्रकारकज्ञानस्य स्वावच्छेदकावगाहित्यनियमादित्यभिमानः। प्राभाकरमतमुप. संहरति । तस्मादिति । उत्तरीत्या निरुक्कसाधनत्वसाध्यत्वविषयसमूहालम्बनासंभवादित्यर्थः नचेदानी मसिद्धः पाकः कृतिमाध्यः कालान्तरे सिद्धः पाकः इष्टासाधन मिति समूहालम्बनसंभवात् कथमेतदिति वा- च्यं इदानीन्तनकालकालान्तरयोरनुगमकरूपाभावेन विशिष्यैव निवेशनीयत या तत्तत्कालविषय कज्ञानस्यागनु- गतरूपेण हेतुत्वासंभवात् कालभेदेन उभयं ज्ञायत इति भिरक्षणाचच्छेयककहाननिरूपितविषयतावदेव नि. रुकसाधनत्वसाध्यत्वोभयमित्यर्थः तथाचेष्टसाधनत्व कृतिमाध्यत्वोभयविषयकज्ञानस्याप्रामाणिकतया नैयायि- कैस्तादृशोभयविषयकज्ञानत्वेन प्रवृत्तिहेतुताया वक्तुमशक्यत्वादनायत्या सर्वैरपि तादृशकायताज्ञानरधेनैव - वृत्तिहेतुत्वं स्वीकार्यमिति प्राभाकराभिप्रायः । अत्र स्वविशेषणशब्देन काम्ये कामनैव विशिष्य प्राह्या अन्यथा उरूदोषापत्तेः एवं नित्येऽपि स्वविशेषणशब्देन शुचित्वावहितकालजीवित्वोभय मेव विशि. ध्य प्राां अन्यथा प्रामाणिकत्वस्यापि म्वविशेषणत्वेन अहमिदानीन्तनकृतिसाध्यसन्ध्यावन्दन कस्ता- दृशविषभक्षणकप्राणित्वादित्यनुमानजन्यविषभक्षणसाधारणकृति साध्यताज्ञानस्यापि प्रवर्तकत्वापत्तेरेवं च काम्यनित्यस्थलीय कार्यताज्ञानयोः कामना लिङ्गककृतिसाध्यत्वज्ञान वादिना विशिष्य प्रवृत्तिसामान्ये हेतुत्वं न संभवति परस्परव्याभिचारित्वात् अतः कामनाशुचित्वविहित कालजीवित्वोमयान्य तगलिङ्गककृतिसाध्यत्वज्ञा नत्वेन सामान्यरूपेण हेतुत्वं वाच्यम् । तदपेक्षया कार्यानत्य साधारणा लवदनिष्टाननुबन्धित्व दित्रित यविषय कहानत्वेन लाघवाद्धेतुत्वमुचितमित्याशयेन तन्मतं दूषयति ॥ मैवमिति ॥ लाघवेनेति ॥ गुरूभूतज- म्यत्वादिघटितधर्मस्य कारणतावच्छेदकत्वाप्रविष्टत्वप्रयुक्तलाघव नेत्यर्थः ॥ बलवदिशाननुबन्धीत्यादि ॥ बलवनिष्टाननुबन्धित्वेष्टसाधनत्वकृति साध्यस्वविषयकनिर्णयत्येत्यर्थः ।। हेतुत्वादिति ॥ तादृश तयवि षयकनिश्चयत्वेनैव हेतुत्वस्वीकारादित्यर्थः पूर्वपक्षिणोक्तं साध्यसाधनत्वयाविरोधं परिहरति ॥ नचेति ॥ नहीत्यर्थः अविरोधमुपपादयति ॥ यदाकदाचिदिति ॥ कालविशेषघटितयोसाध्यत्वसाधनत्वयोरेकत्र वृत्ती बाधकाभावादित्यर्थः । तथाच एककालावच्छेदेन साध्यत्वसाधनस्वयोरेकत्रावृत्तित्वेऽपि न क्षतिः तज्ज्ञा. नस्य प्रवर्तकत्वानभ्युपगमात् किन्तु साध्यत्व साधनत्वयोरनवच्छिन्न योरविरुद्धयोः ज्ञानमेव प्रवर्तके अव्या- प्य वृत्तिज्ञानस्यावच्छेदकावगाहित्यनियमे मानाभावात् वृक्षः कपि संयोगीलांप प्रतीतेस्सर्चानुभवसिद्धत्वादिति भावः । उतार्थमेव प्रकाशयति ।। एकदेति ॥ इदंच ज्ञानान्वयिसाध्यत्वसाधनत्वयोश्चेति ॥ नि- दिनकरीयम्. क्षः संयोगीत्येव प्रतीतेः । तथा च साध्यत्वसाधनत्वयोरपि स्वस्वावच्छेदमिद्धत्वासिद्धत्वविषयकमसिद्धः पाकः कृतिसाध्यः सिद्धश्च पाक इष्टसाधनामेति ज्ञानं समूहालम्बनरूपं वाच्यम् । तच्च न सम्भवति सिद्ध- स्वासिद्धत्वज्ञानयोः परस्परं विरोधित्वादित्यभिमानः । तस्मात् कालभेदादिति ॥ न चेदानीमासेद्धः पा- कः कृतिमाध्यः अनेच सिद्धः पाक इष्टसाधना मेति ज्ञानादेव प्रवृत्तिरास्त्विति वाच्यं इदानीन्तनातनकाल- योरननुगमात् । प्राणिस्वस्यापि पुरुषविशेषणत्वेनःहामिदानीन्तनकृतिसाध्यविषभक्षणः प्राणित्वादित्याद्यनुमि. तिसम्भवादिषभक्षणसाधारणं स्वविशेषणवत्ताप्रतिसन्धानजन्य कार्यताज्ञानमिति बलवदनिष्टाननुषन्धीष्टसाथ- नसा शौचाधन्य सरलिअप्रतिसन्धानजन्यकार्यताज्ञानं प्रवर्तकं वाच्यं तदपेक्षया बलवदनिष्टाननुबन्धीष्टसाध- नताविषयककार्यतामानमतिलध्विति तदेव काम्यनिन्यसाधारणकारण-वेन कल्प्याप्त इत्यभिप्रायेण प्राभाकरम तं दूषयति ॥ भैवमिति ॥ साध्यत्वसाधनत्वयोर्विरोधं दूषयति ॥ नचेति ॥ न हीत्यर्थः ॥ यदाकदा चिदिति ॥ यत्किचित्कालीनस्य साध्यत्वस्य यत्किश्चित्कालीनेन साधनस्वेन विरोधाभावादित्यर्थः । तथा