पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा-दिनकरीयसमन्विता । ८११ धिकदुःखाजनकत्वं बलवद्वेषविषयदुःखाजनकत्वं वेति चेन्न इष्टसाधनत्वकृत्तिसाध्यत्वयो- युगपज्ज्ञातुमशक्यत्वात् साध्यत्वसाधनत्वयोविरोधित्वात्। असिद्धस्य हि साध्यत्वं सिद्धस्य च साधनत्वम्। नचैकमेकेनैकदा सिद्धमसिद्धं चेति ज्ञायते तस्मात्कालभेदादुभयं बायत इति प्रभा. ति रागान्धस्यागम्यागमनादी प्रवृत्त्यनुपपत्तिः अस्य तादृशनर कसाधनत्वात् इत्यस्वरसादाह ॥ बलवढेषवि. षयेति ।। विजातीयद्वेषविषय इत्यर्थः तथाच दुःखे बलबत्त्वं विजातीयद्वेषविषयत्वरूपमेवेति भावः । न च प्रमाणाभावाहेषे वैजात्यं न सिध्यतीति वाच्यं इष्टसाधनताज्ञानसत्त्वेऽपि यादृशद्वेषविषयसाघनताज्ञान- पप्रतिबन्धकवशात् नेच्छासुत्पत्तिः तादृशद्वेषे इच्छाप्रतिबन्धकतावच्छेदकघटकतया वैज्ञात्यसिद्धेर्निष्प्रत्यूह- स्वात् इत्थंचेष्टोत्पत्तिनान्तरीय कदुःखविषयकद्वेषस्य रागान्धसमवेतनरकविषयकद्वेषस्य वा ताहशत्वन तन ताशवैजात्याभावानोक्तानुपपत्तिरित्याशयः ॥ इष्टसाधनत्वकृतिसाध्यत्वयोरिति ॥ इष्टोत्पत्त्य- व्यवहितपूर्वक्षणवृत्तित्वघटितेष्टसाधनत्वकृत्यव्यवहितोत्तरक्षणसंबन्धघटितकृतिसाध्यत्वयोरित्यर्थः ॥ युग- पज्शातुमशक्यत्वादिति ॥ एककालावच्छेद्यैकविशेष्यकज्ञानविषयताप्रयोजकसामर्थ्याभाववत्वादित्यर्थः तत्र हेतुमाह ॥ साध्यत्वसाधनत्वयोरिति । क्षणविशेषघटितयोस्तयोरित्यर्थः ॥ विरोधादिति ॥ एकक्षणावच्छेदेनकलावत मानवादित्यर्थः । विरोधमुपपादयति ॥ असिद्धस्य हीति असिद्धस्यैवेत्यर्थः । आद्यक्षणसंबन्धस्येति यावत् ॥सिद्धस्य चेति ॥ आद्यक्षणान्यक्षणवृत्तित्वविशिष्टस्यैवेत्यर्थः तथाच कृत्यव्य- वहितोत्तर क्षणसंबन्धघटितकृति साध्यत्वस्य उत्पत्तिक्षण एव यागादिवृत्तित्वात् स्वगादिरूपेष्टसाधनत्वस्य का- बान्तरभाविस्वर्गाव्यवहितपूर्वक्षणसंबन्धित्वघटितस्य चोत्पत्तिक्षणावच्छेदेन यागाद्यवृत्तित्वाच्च तयोरेकक्ष- णावच्छेदेनैकत्रावर्तमानत्वरूपविरोधः दुर्वार इति भावः । नच इष्टाव्यवहितपूर्ववृत्तितावच्छेदकधर्मवत्त्वरूपेष्ट- साधनत्वस्योत्पत्तिक्षणावच्छेदेनापि यागादौ संभवात् कथं विरोध इति वाच्यम्। तादृशसाधनत्वस्य स्वरूप- योग्यत्वरूपतया यागादिकमिदं स्वरूपयोग्यं न फलोपधायकमिति ज्ञानात्प्रवृत्त्यनुदयेन फलोपधायकत्वज्ञानस्यै. व प्रवर्तकत्वावश्यकतया तादश ज्ञानविषयेष्टसाधनत्वस्योत्पत्तिक्षविशिष्टयागादी अवर्तमानत्वात्तयाविरोध- स्यानिवार्यत्वात् एतावता तयोविरोधमुपपाय इदानीमेकज्ञानाविषयत्वमुपपादयति ॥ नचैवमेकेनकदति॥ एकेन एकदा इदं सिद्धं ॥ तदसिद्धमिति ॥ ज्ञायत इत्येकमित्युकं एकमेकदेशेन सिद्धमिति अपरेणासि द्वामिति ज्ञायत इत्येकेनेत्युक्त एकेनैकं विभिन्न कालावच्छेदेन ज्ञायत इत्येकदेत्युक्तं तथाच क्षणविशेषघटित- दिनकरीयम्. येन सुखजनके कर्मणि दुःखजनकत्वनियमाप्रसिद्धधभावात् । मिश्रास्त्विष्टोत्पत्त्यनान्तरीयकनरकदुःखाजनक- स्वमुक्तस्यार्थ इति नानांसद्धिरित्याहुः । नन्वेवं सति नरकसाधनत्वेन प्रमिते परदाराधिगमनादौ रागौत्कव्याः म प्रवर्तेत इष्टोत्पत्त्यनान्तरीय कनरकदु खजनकत्वेन तस्य निश्चयादित्यत आह ॥ बलवद्वेषेति॥ द्वेषे च बलद- स्वं जातिविशेषः । अत एव रामान्धस्य यदागम्यागमनादिजन्यदुःखे न तादृशो द्वेषस्तदा तद्धेतावपि प्रवृत्तिः ।। माध्यत्वसाधनत्वयोर्विरोधमुपपादयति ॥ असिद्धस्य हीति॥ आद्यक्षमवृत्तित्वविशिष्टस्य पाकादेरित्यर्थः ॥ सिद्धस्य अनाद्यक्षणविशिष्टस्य । कृत्यव्यवहितोत्तरक्षणसम्बन्धित्वघटितस्य कृतिसाध्यत्वस्य पाकोत्पत्ति- क्षण एव पाकसित्वात् कालान्तरभाव्योदनादिफलसाधनत्वस्यौदनाव्यवाहतपूर्वक्षणसम्बन्धित्वघटितस्य, चोत्पतिक्षणे पाकावृत्तित्वात् तयोरेकक्षणावच्छेदेनैकत्रावृत्तित्वरूपविरोधादिति भावः । यद्यपि कालान्तर- माग्योदनाव्यवाहितपूर्वक्षणवृतितावच्छेदकधर्मवत्त्वरूपमोदनसाधनत्वमाद्यक्षणवृत्तित्वविशिष्टेऽपि पाके सम्भ- वतीति कथं विरोधस्तथापि स्वरूपयोग्यमिदं न फलोपधायकमिति ज्ञानात् प्रवृत्त्यनुदयेन फलोपधायकस्वक.. पेसाधनताज्ञानस्यैव संशयसाधारणस्य प्रवृत्तिकारणत्वं वाच्यं पूर्वोकं फलोपधायकत्वं चाधक्षणरिशिष्टे या पादौ न सम्भवतीति भावः । साध्यत्वसाधनत्वयोर्विरोध व्युत्पाद्य तयोरेकज्ञानविषयत्वं न सम्भवतीस्या- ह ॥ नचैकमेफेनैकदेति ॥ अव्याप्यवृत्तिपदार्थस्य स्वस्वावच्छेदकानवगाहिज्ञानं न सम्भवति । मूले २,