पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न वा इति द्वितीया विप्रतिपत्तिः । स्वाश्रयग्राहकण गृह्यत पय न वा इति तृतीया विप्र- तिपत्तिः । स्वाश्रयेण गृहात पय नवेति प्रत्येकमेव वेति चतुर्थी विप्रतिपत्तिः । यद्वा घ- टोऽयमिति ज्ञानप्रामाण्यं एतज्ज्ञानग्राह्यं नवाएतज्ज्ञानग्राहकमात्रमाा नवा इति पञ्चमी वि. प्रतिपत्तिः । एवं पञ्चविप्रतिपत्तयः प्रामाण्यवादे प्रदर्शिताः । अथ झप्त्युत्पत्तिभेदेन स्वतस्त्वपरतस्त्वयोः विचार ; ग्रन्थावलोकनव विशदीभविष्यतीति विस्तरभिया नास्माभिर्वर्णितः ॥ एवं कर्मण एव फलप्रदत्वं नतु ईश्वरस्येति मामांमकानां सिद्धान्तः तैरीश्वरान ङ्गीकारात अत एच पूर्वतन्त्र देवताधिकरण “ उपासनादों पर ध्यानमात्रमाहार्य तस्यति मिनिमतनिष्कर्षः, मम त्वेवं वदतोऽपि वाणी दुष्यतीति हरिस्मरणमेव शरणम्” इति खण्डदेवेनोक्तम् । जगढ़वं स्यादित्यस्य श्लोकस्य जगत्सत्यत्वं वेदान्तीतरमतसिद्धं, वेदान्तिना मतेतु मिथ्यायमित्यभिधायः ।। अयथार्थज्ञानं अप्रमा, अयथार्थत्वं नाम तदभावयति तत्प्रकारकत्वं तच्च सपा परतोग्राहामेव । सर्व ज्ञानं प्रमा अप्रमेव नास्तीत्यख्यातिवादिनः प्राभाकराः, तन्मते शुक्तो क्वचिद्र जतार्थिप्रवृत्तिः रजतस्मृतिपुरोवर्तिज्ञानाभ्यामेव निर्वहति न तदर्थ शुक्ती इदं रजतमित्यकारकशानाङ्गीकारः प्रवृत्तिं प्रति इष्टभदाग्रहस्यव कारणत्वाङ्गीकारात । वंद्रान्तिनां मतं तु शुक्तिरजतादिभ्रमग्य संसारकालीनवाविषयमातिमासिकरजतादिवि. पयकत्वं, तथा च तादशभ्रमकालेऽनिर्वचनीयरजत विषयीक्रियत इति अनिर्वचनीयख्या- तिवादिना वेदान्तिनः । नच रजतोत्पादकानां रजताक्यवादीना अभावे शुक्ती कथं रजत- मुत्पद्यत इति वाच्यं, नहि लाकसिद्धसामग्री प्रातिभासिकरजतोत्पादिका किंतु विलक्षण व तथाहि काचादिदोपदृपित लोचनस्य पुरावर्तिद्रव्यसंयोगात् इदमाकारा चाकचि. क्याकारा काचिदन्तःकरणवृत्तिरुदति तस्यां च वृत्ती इदमंशावच्छिन्नं चैतन्यं प्रतिवि. म्बत तत्र वृत्तः बहिनिगमेन इरमंशावच्छिन्नचैतन्यं वृत्त्यवच्छिन्नचैतन्यं प्रमातृचैतन्यं चा. भिन्नं भवति । ततश्च प्रमातृचैतन्याभिन्नविषयचैतन्यनिष्ठा शुक्तित्यप्रकारिका अविद्या चाकचिक्यादिसादृश्यसन्दर्शनसमुद्बाधितरजतसंस्कारसध्राचीना काचादिदोपसमय- हिता रजतरूपाकारंण रजतज्ञानाभासाकारण च परिणमरा इत्यनिर्वचनीयख्या- तिवादः । शशविषाणादिवदत्यन्तमसदेव वस्तु प्रतीयत इत्य सत्ख्यातिवादिनो मा. ध्वाः, तः ज्ञानस्य विषयसत्ताव्याप्यत्वानङ्गीकारात् । रामानुजमतानुयाधिनस्तु स्वप्ने भ्रम च सत्यमेव रजतादिकमुत्पद्यते, अत एव च तत्प्रयुक्तसुखदुःखे अप्यनुभवसिद्धे इति सख्यातिवादमङ्गीकुर्वन्ति । नवायिकास्तु प्रवृत्ति प्रति इष्टसाधनताज्ञानस्य हेतुत्वात् स. त्यरजतस्थले पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानस्य लाघवेन प्रवृत्तिजनकतया शुक्ता- चपि रजतार्थिप्रवृत्तिजनकत्वेन विशिष्टज्ञानस्थच कल्पनावश्यकतया शुक्ति विशेष्यकर जतस्थप्रकारकं ज्ञानं अङ्गीक्रियत इत्यन्यथाख्यातिवादमगीकुर्वन्तात्यास्तां विस्तरः ॥ पुस्तकस्यास्य च मुद्रणविषये मातृकाप्रदानेन उपकृतवद्भयः कुम्भकोणवासिश्रीनि. वासपाटाचार्येभ्यः मन्सालक? गोविन्दाचार्येभ्यः, विल्लियम्बाकं नरसिंहाचार्येभ्यः, श्रोत्रियं नावल्पाकं रामानुजाचार्येभ्यः, वाराणसीस्थराजकीयसंस्कृतपाठशालामीमांसो- पाध्यायश्रीचिन्नस्वामिशास्त्रिभ्यश्च निरतिशयं कार्तस्यमावेदयामः ॥ इति सर्वत:शिवम् ।। मैलापूर , मडास. सि. शङ्कररामशास्त्री २८-९-१९२३ एडिटर .