पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः वृत्तिनिमित्तकं साधुपदत्वादित्यनुमानेन पक्षधर्मतावलाद्वयत्वप्रवृत्तिनिमित्तकत्वं सिध्यति । तन्न सम्याग्विना व्याप्तिबोध शाब्दादिवोधतः ॥ १४१ ॥ तन्मतं दूषयति ।। तन्न सम्यगिति ।। व्याप्तिज्ञानं विनापि शाबोधस्यानुभवसिद्धत्वात् । न हि सर्वत्र शब्दश्रवणानन्तरं व्याप्तिज्ञाने प्रमाणमस्तीति । किंच सर्वत्र शाब्दस्थले यदि व्याप्तिज्ञानं कल्प्यते तदा सर्वत्रानुमितिस्थले पदज्ञानं कल्पयित्वा शाब्दबोध एव किं न स्वी- क्रियतामिति ध्येयम् ।। ।। १४०॥ १४१।। प्रभा. स्यासंभाविततया अनुमानाङ्गीकार इति इदमुपलक्षण गवयप्रत्यक्षानन्तरं गवयत्वविशिष्टं गवयत्वपदशक्यं गब यपदनिरूपितलक्ष्यत्वाभाववत्त्वे सति गवयपदनिरूपितानान्तसमवेतत्तिज्ञानाधीनोपस्थितिविशेष्यत्वात् य-- धर्मावच्छिन्नं यत्पदनिरूपित्तलक्ष्यत्वाभावदत्वं सति यत्सदनिरूपिताम्रान्तसमवेतवृत्तिज्ञानाधीनोपस्थितिविशे-- ध्यं भवति तद्धर्मावच्छिन्नं तत्पदशक्यं यथा में त्वावच्छिन्नमिलनुमानात गवयवावच्छिन्ने गधयपदशक्यता- नुमितिरपि वोध्या एतेन गवयपदे गवयत्वावच्छिन्न शक्तत्वानुभितावपि उपमितिसमानाकारकगवयत्वावच्छिन्न - विशेष्य कगवयपदशक्यत्वासिद्धेस्तदर्थमुपमानस्य पृथक्प्रामाण्यमावश्यकामांत शङ्का निरस्तः ॥ व्याप्ति. ज्ञानं विनापीति ॥ निरुपदस्मारितत्वविशेष्यनिरुक्तसंसर्गवत्वरूप साध्यनिरूपितव्याप्तिप्रकारकज्ञानशू- न्यकालेऽपीत्यर्थः ॥ शाब्दबोधस्यति ॥ घटमानयेति वाक्यश्रवणानन्तरं घटकर्मकानय नानुकूलकृतिमानि- सादिबोधस्वेत्यर्थः अन्यथा घटानयनादौ प्रवृत्तिर्न स्यादित्याशयः तथाच व्यतिरेकव्याभिचारात शब्दज्ञानोत्त. रकालीनानुभवसामान्ये व्याप्तिज्ञानस्य हेतुत्वं न संभवतीति भावः । ननु च्याप्तिज्ञानं विना शाब्दबोधोऽसिद्धः यः तानुभूयमानः शाब्दयोधः तत्रापि व्याप्तिज्ञानकल्पनादत आह ॥ नहीति ॥ शब्दश्रवणानन्तरं सर्वतेति योज. ना ॥ शब्दशवणानन्तरमिति ।। घटमानवेत्यादिश्रवणकालोत्तरत्वविशिष्ट इत्यर्थः । सर्वत्रेति ॥ अनुभूय. मानघटकर्मकानयनानुकूल कृतिमानित्यादिबोधपूर्वक्षणेषु सर्वेष्वित्यर्थः । व्याप्तिज्ञाने मानमिति ॥व्याप्ति- ज्ञान कल्पकप्रमाणमित्यर्थः । अस्तीति । तथाच सर्वत्र व्याप्तिज्ञानकल्पनायां प्रमाणाभावेन व्यभिचारदु- चरित्वात् व्याप्तिान न हेतुरिति भावः । ननु अनुमितिरूप कार्यान्यथानुपपत्तिरेव मानमित्याको प्रति- बन्दीमुखेन परिहरति । किञ्चेति ॥ कल्प्यत इति । अनुमितिरूपकार्यान्यथानुपपत्त्येत्यादिः॥सर्वत्रा- नुमितिस्थल इति॥व्याप्तिज्ञानकरणकानुमितिस्थान इत्यर्थः ॥ पदज्ञानं कल्पयित्वते ॥ व्याप्तिज्ञानकाल इत्यादिः पदविषयं आकालादिविषयकं च स्मरणं च कल्पयित्वेत्यर्थः ॥ शाब्दबोध एवेति ॥ एवकारेणानुमि-- त्यस्वीकारो लभ्यते तथाच शाब्दप्रमितिमपलप्य तत्स्थाने सर्वनानुमिति प्रमामजीकृत्य तदन्यथानुपपत्त्या पदज्ञा- नोत्तरं व्याप्तिज्ञानं यदि कलप्यते तदा सर्वनानुभितिप्रमामपलप्य तत्स्थाने शाब्दप्रमामजीकृत्य तदन्यथानु- पपत्त्या व्याप्तिज्ञानसमये पदज्ञानस्य कल्पयितुं शक्यत्वात् अनुमानस्य प्रमाणान्तरत्वोच्छेदा- पत्तिः । तस्मादेवनापरस्यापलापासंभवात् शब्दस्यापि पृथक्प्रामाण्यमावश्यकं एवं युक्तितौल्येन उपमान- स्यापि प्रमाणानारत्व मावश्यकमिति भावः इदमुपलक्षणं अनुमिनामात्यनुव्यवसायबलात् अनुमितित्वरूप- जात्यवच्छिन्नस्यव उपमिनोभि शाब्दयामीत्यनुभवबलात् उपमितित्वशाब्दत्वरूपवैजात्यावच्छिन्नस्यापि सि- दिनकरीयम्. नुपपत्त्या व्याप्तिज्ञानं कल्पनीयमित्यत आह ॥ किंचति ॥ पदज्ञानं कल्पयित्वति ॥ पदस्मरणं क- त्पयित्वेत्यर्थः । वह्नयादिशाब्देनार्थस्येव वह्नयादिरूपेणार्थनापि वहयादपदस्मरणसम्भवात् वाच्यत्वादिवद्वा- चकत्वादिसम्बन्धस्यापि स्मारकत्वादिति भावः । इदमुपलक्षणं आकासादिज्ञानं कल्पयित्वेत्यपि बोध्यम् । मणिकृतस्त्वेते पदार्थाः परस्परसंसर्गवन्तः योग्यतादिमत्पदोषस्थापितत्वादित्यनुमाने योग्यता न लिमविशेषणं लिस्य निश्चितस्यैव निश्वायकतया योग्यतायाश्च संशयेऽपि शाब्दबोधदर्शनादतः पृथगेव शब्दोपमानमि-