पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ७७१ .. यत्र स्वत एव शङ्का नावतरति तत्र न तर्कापेक्षापीति तदिदमुक्तम् । तर्कः कचिच्छङ्का- निवर्तक इति ॥ १३७॥ प्रभा. दिति तर्कस्य कथञ्चिदपि यद्ययं वह्निमान्न स्यात् तर्हि धूमवान्न स्यादितिमुक्तावळीग्रन्थप्रतिपाश्चत्वाभावेन उदक्षरत्वापत्तेः यच्च यथाश्रुततादृशग्रन्थप्रतिपाद्यतर्कस्य विषयपरिशोधकस्य व्याप्तिप्रहानुपयुक्ततया अस-- तेरिति तदप्ययुक्तम् त हेत्वधिकरणविशेष्य कसाभ्याभावशङ्कानिवर्तकत्वादन्यस्य विषयपरिशोधकत्वस्य दुचतया हेत्वधिकरणे साध्याभावशानिवर्तकताहशतर्कस्य तादृशशङ्काधीननिरुतव्याभिचारशङ्कानिवर्तकत्व- स्याप्यक्षतत्वात् धूमो वहिव्यभिचारी स्यादित्यादि तर्केण व्यभिचारशहानिरासेऽपि देशान्तरीयकालान्तरीयहे. तुसंबन्धितत्तदधिकरणेषु साध्याभावशङ्कायाः पुनः व्यभिचारशङ्काया उत्पत्तेरावश्यकतया तादृशव्यभिचारशङ्काया हेतुसंबन्धितत्तदधिकरणेषु साध्याभावशङ्कानिवर्तकतत्प्रदर्शनं विना अत्यन्तोच्छेदासंभवाश्च परन्तु धूमो वह्वि- व्यभिचारी स्यादित्यादितर्कस्य साक्षायभिचारशङ्का निवर्तकत्वं निर्वहिस्स्यादित्यादतर्कस्य तु परम्परया लन्नि- वर्तकत्वमिति वस्तुगतिः ॥ यत्रेति ।। यत्साध्यहेत्वोः व्याप्तिबान इत्यर्थः विरोधित्वं सप्तम्यर्थः । तस्य शङ्का. यामन्वयः ॥ स्वत एवेति ॥ केवलान्वयित्वप्रहप्रयुक्ततत्साध्यतदभावरूपकोरिद्वयोपस्थितिविरहादेवेत्यर्थः ॥ शङ्केति ॥ तद्धत्वधिकरणे तत्साध्याभावशकाप्रयुक्तव्याभिचारशक्रेत्यर्थः ॥ नावतरतीति ॥ नोत्पत्तुमर्हती- त्यर्थः तादृशत्वधिकरणविशेष्यकसाध्याभावशङ्कारूपकारणविरहादिति भावः ॥ तत्रेति ॥ तत्साध्यहेत्वो. ाप्तिज्ञान इत्यर्थः ॥ न तापेक्षेति ॥ सामग्रीविरहादेव व्यभिचारशङ्कानुत्पनेः तन्निवर्तकतर्को नाङ्गीक- तव्य इत्यर्थः तथाच नानवस्थेति भावः उत्तार्थस्य मूलाप्रतिपाद्यत्वान्नयूनतेति शङ्कापरिहाराय तस्य मूल. कारानुमतत्वं प्रकाशयति ॥ तदिति ॥ तदेवेत्यर्थः पूर्वोकमेवेति यावत् इदमित्यादितर्कः क्वचित् शङ्कानि- वर्तक इति मूलोकमिदमित्यर्थः । तथाच न न्यूनतेति भावः । ननु तर्कसामान्यस्य साक्षात्परम्परया वा व्यभिचारज्ञानप्रतिबन्धकत्वे प्रमाणाभावः वहिव्यभिचारित्वरूपापादके वह्निजन्यत्ववदवृत्तित्वरूपवाटिजन्य- त्वाभावात्मकापाव्याप्यत्वप्रकारकज्ञानस्य च तत्कारणत्वेन तत्पूर्वमावश्यकतया तेनैव व्यभिचारज्ञाननिवृत्तेः तद्विरुद्धहानकालीनतद्वत्ताज्ञानस्य तद्विरुद्धतया ज्ञायमानधर्मप्रकारकज्ञानप्रतिबन्ध कत्वादिति चेदन मणिकार- प्रभृतयः अनाहार्यतादृशज्ञानस्य निरुकज्ञानप्रतिबध्यत्वेऽपि आहार्यज्ञानस्य केनाप्यप्रतिबध्यत्वाग्निरुक्तज्ञानका ले आहार्यव्यभिचारादिक्षानोत्पत्ती बाधकामावेन तन्निरासाथ तर्कस्यावश्यकत्वात् । नच तर्कानङ्गीकारेऽपि तेन कथं तादृशशङ्कानिरास इति वाच्यम् अनिष्टप्रसन्जनात्मकतर्केणापाद्यज्ञाने द्वेषस्यैवोत्पत्त्या तेन वात्र प्रतिबन्धात् तादृशज्ञानस्य इष्टत्वाभावेनापादकज्ञाने इष्टसाधनताज्ञानानुत्पत्त्या कारणाभावेन इच्छाया अ. नुत्पत्त्या आहार्यशङ्काया उत्पत्त्यसंभवात् तादृशशङ्का प्रति इच्छायाः कारणत्वादिति रीत्या तकस्य तादृश- शङ्कानिवर्तकत्वामित्याहुः। उपाध्यायप्रभृतयस्तु व्यभिचारज्ञानस्य व्याप्तिज्ञानप्रतिबन्धकतायां तर्कस्य उत्तेजक- स्वस्वीकारातू तर्ककाले व्यभिचारज्ञानसत्त्वेऽप्युत्तेजकाभावविशिष्टव्याभिचारज्ञानाभावरूपकारणसंभवात् तत्स- म्पादकत्वरूपं औपचारिकमेव व्यभिचारशङ्कानिवर्तकत्वं तस्येत्याहुः । दीधितिकारप्रभृतयस्तु आहार्यज्ञानसा- धारणतत्प्रकारकबुद्धित्वावच्छिन्नं प्रति तदापादकतकत्वेन मणिमन्त्रादिन्यायेनानुमिती सिद्धरिव तर्कस्थापि प्रतिबन्धकत्वं आवश्यकामिति प्राहुः । तर्को द्विविधः साक्षायभिचारशङ्कानिवर्तकः परम्परया च आयः धूमोव- हिव्यभिचारी स्यात् वह्निजन्यो न स्यादिति । द्वितीयस्तु वह्नयभाववान् स्यात् तर्हि धूमाभाववान् स्यादिति । ए- दिनकरीयम्. रणं तत्र व्याप्तिज्ञान प्रतिबन्धकव्यभिचारशङ्कानिवर्तकस्तोऽपेक्षित एवमप्रेऽपीत्यनवस्थेत्यत आह ॥ यत्रे- ति ॥ स्वत एव शङ्कासामग्रीविरहादेव । न तर्कापेक्षत्यनन्तरमतो नानवस्थेति शेषः । ननु तर्कस्य न म्पभिचारशङ्कानिवर्तकत्वं तर्ककारणीभूतव्याप्तिज्ञानेनैव तन्निवृत्तेः सम्भवादिति चेदन केचित् अनाहार्यशङ्का- यास्तर्ककारणीभूतव्याप्तिज्ञानेन निराससम्भवेऽप्याहार्यशङ्कायास्ततो निवृत्तिन सम्भवति आहार्यज्ञानस्य तदप्र. तिबध्यत्वात् किं तु तर्केणैव तथा हि अनिष्टप्रसजनात्मकेन तर्केणापादकज्ञाने आपाद्यज्ञानरूपानिष्टसाधनत्व- -