पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ७४७ करणत्वादिति वाच्यं तत्र संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वाल्लक्ष्यस्याननुगमाल्लक्षण- प्रकारतादिशून्यं हि सम्बन्धानवगाहि तत् । प्रमात्वं न स्वतोग्रा संशयानुपपत्तितः ॥ १३६ ।। स्याननुगमेऽपि न क्षतिः ।। प्रमात्वमिति ॥ मीमांसका हि प्रमात्वं स्वतोग्राह्यमिति वदन्ति। प्रभा. यनिरूपकत्वादिति यावत् । तथाच वृक्षप्त्य कपिसंयोगाधिकरणतया तद्वद्भिनत्वाभावेन तादृशभेदघटितक- पिसंयोगभ्रमलक्षणस्य मूले वृक्षः कपिसंयोगीति भ्रमेऽव्याप्तिस्यादिति भावः ॥ तत्रेति ।। वृक्ष इत्यर्थः ।। संयोगाभावावच्छेदेनेति ॥ कपिसंयोगाभावावच्छेदकारच्छेदेनेत्यर्थः कपिसंयोगानबच्छेदकदेशावच्छे- देनेति यावत् ।। संयोगज्ञानस्येति ।। कपिसंयोगप्रकारकज्ञानत्वावच्छिन्नस्यैवेत्यर्थः ॥ भ्रमत्वादिति ॥ क- पिसंयोगभ्रमपदार्थत्वादिलः। तथाच तद्वति तावशेष्यकतदसवच्छेदकावच्छेद्यतत्प्रकारकज्ञानस्वस्यैव तद्विशे- ध्यकतत्प्रकारकभ्रमलक्षणत्वस्वीकारात् वृक्षविशेष्यकालावच्छेद्यकपिसंयोगप्रकारके मूले बृक्षः कपिसंयोगीति भ्रमेऽपि तादृशलक्षणसत्त्वान्नाव्याप्तिरिति भावः एवमेवाव्याप्यवृत्तिधर्मान्तरप्रकारकभ्रममाोऽप्युक्तलक्षणमेच स्वीकार्यमिति । ननु व्याप्यवृत्तिधर्मप्रकारकभ्रमस्यैकविध लक्षणमव्यायवृत्तिधर्मप्रकारकभ्रमस्यान्यविषं लक्षण. मिति लक्षणाननुगम इत्यत आह ॥ लक्ष्यस्यति ॥ व्याप्य वृत्त्यव्याप्यवृत्तिधर्मनकारकभ्रमस्येत्यर्थः ॥ अ. ननुगमादिति ॥ विभिन्नरूपेण लक्ष्यत्वस्वीकारादित्यर्थः ॥ लक्षणाननुगमेऽपीति ॥ विभिन्नरूपेण ल- क्षणत्वेऽपीत्यर्थः । न क्षतिरिति ॥ नाव्यप्तिरित्यर्थः तथाव व्याप्य वृत्तिधर्मप्रकारकभ्रमशब्दवाच्यत्वाव- च्छिन्नं प्रति तदभाववात्रिष्टविशेष्यतानिरूपितज्ञानीयतनिष्ठतत्प्रकारताकत्वस्य लक्षणत्वस्वीकारात् तद्विशेष्य- काव्याप्यवृत्तिधर्मप्रकार कभ्रमशब्दप्रतिपाद्यस्वावच्छिन्नं प्रति तन्निष्ठत दनवच्छेदकावच्छेद्यज्ञानीयतन्निष्ठप्रकार- ताकत्वस्य लक्षणत्वस्वीकाराच तत्र तत्रोक्ताननुगमप्रयुक्ताच्यातेरनवकाश इति भावः । अन्न प्राथमिकभ्रमल- क्षणस्र प्रमेयत्वाद्यवच्छिन्नविशेष्यकघटत्वप्रकारकप्रमेयोघटइत्यादिप्रमायां अतिव्याप्तिः तादृशप्रमीयविशेष्य- तायाः प्रमेयमात्रवृत्तित्वेन घटत्वशून्यपटादावपि सत्त्वात् । नच विशेष्यतायां तदभाववनिष्ठत्वमपहाय त- त्पत्तित्वस्य निवेशान्नातिव्याप्तिः निरुक्तप्रमीयविशेष्यतायाः घटेऽपि सत्त्वादिति वाच्यम् । एवं सति घ. टपटोभयं घट इति घरपटोभयत्वावच्छिन्नविशेष्यकघटत्वप्रकारकभ्रमे अव्याप्त्यापत्तेः तादृशभ्रमीयविशेष्यता. याः उभयवृत्तित्वेन घटेऽपि सत्वात अतस्तत्संबन्धितानवच्छेदकावांच्छन्नविशेष्यतानिरूपितज्ञानीयतनिष्ठप्र- कारताकत्वं तशमलक्षणमिति वाच्यम् । निरुक्तप्रमीयविशेष्यतावच्छेदकप्रमेयत्वस्य घटत्वसंबन्धितानवच्छेद- कत्वाभावान्नातिव्याप्तिः निरुक्तभ्रमीयविशेष्यतावच्छेदकवटपटोभयत्वस्य घटत्वसंवन्धितानवच्छेदकतया न तन्नातिव्याप्तिः एवंचाव्याप्य वृत्यधिकरणताया अप्यव्याप्यत्तितया वृक्षवृत्तिकपिसंयोगाधिकरणतायाः अ- पिशाखादिरूपावच्छेदकाङ्गीकारात् मूलावच्छिन्नो वृक्षः कापसंयोगी उत्पत्तिकालीनो घट गन्धवानित्याद्यव्याप्य- वृत्तिधर्मप्रकारकममस्यापि कपिसंयोगगन्धादिसंबन्धितानवच्छेदकालदेशोत्पत्तिकालावच्छिन्नविशेष्यताकतया तत्रापि व्याप्यवृत्तिधर्मप्रकारकभ्रमस्थलीयलक्षणसंभवात उभयत्र एकजातीयलक्षणासंभवशङ्कया लक्षणद्वयं प्र- दर्य लक्षणाननुगमप्रयुक्तदोषवारणाय मूलकृतां लक्ष्याननुगमप्रदर्शनं व्याप्यवृत्तिधर्मप्रकारकभ्रमस्थलीययथा- श्रुतलक्षणाभिप्रायेणेति प्रतिभाति । एतावता ज्ञानस्य प्रमात्वाप्रमालाभ्यां वैविध्यं अप्रमात्वादेस्तदभाववद्विश. ध्यकतत्प्रकारकत्वं तद्वदविशेष्यकतत्प्रकारकत्व स्वरूपत्वं च दार्शतम् । इदानी तादृशप्रमात्वस्य नैयायिकम- तसिद्धपरतोग्राह्यत्वव्यवस्थापनाय मीमांसकमतसिद्धस्वतोग्राह्यत्वं निराकरोति ॥ मूले प्रामाण्यमिति ॥ य- दिनकरीयम्. तावच्छेदकप्रकारकनिर्णयस्य कारणतया तजन्य तावच्छेदककोटिप्रविष्टतयानुभवत्वस्य जातिविशेषत्वे सिद्धे जानत्वस्यानुभवत्वाघटकत्वान्नानुभवत्वस्य वैययमिति कृतं पल्लवितेन । प्रामाण्यं न खतोग्राह्यमिति मूलेन खतोमाह्यत्वं निषिध्यते तत्र खतस्त्ववादिनः के इत्याकालायामाह ॥ भीमांसका हीति ।। स्वप्र-