पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ७४५ प्रमेत्यर्थः । अथैवं स्मृतेरपि प्रमात्वं स्यात्ततः किमिति चेत्तथा सति तत्करणस्यापि प्रमाणान्तरत्वं स्यादिति चेन्न यथार्थानुभवकरणस्यैव प्रमाणत्वेन विवक्षितत्वात् । इदं तु बोध्यं येन स- म्बन्धेन यद्वत्ता तेन सम्बन्धेन तद्वद्विशेष्यकत्वं तेन सम्बन्धेन तत्प्रकारकत्वं वाच्यं तेन प्रभा. तत्संबन्धिनिष्ठत्वमपहाय तत्संबन्धितावच्छेदकावच्छिन्नत्वस्यैव निवेशनीयतया निरुक्तज्ञानीयघटपटो. भयनिष्ठविशेष्यतावच्छेदकघटपटोभयत्वस्य धास्वसंबन्धितावच्छेदकावच्छिन्नत्वाभावात् तत्संबन्धिताव- च्छेदकत्वाभावेनातिव्याप्त्यभावात् । नचैवमपि घट इत्याद्याकारकनिर्धर्मितावच्छेदककप्रमायामव्याप्तिः विशेष्यतायाः घटत्वादिसंबन्धितावच्छेदकावच्छिन्नत्वाभावात् तत्संबन्धितावच्छेदकावच्छिन्नत्वस्थाने त. संबन्धितानवच्छेदकानवाच्छिन्नत्यनिवेश्य उक्ताव्याप्तिवारणे प्रमेयवान् घट इत्याद्याकारकप्रमेयावच्छि- नविशेष्यकघटत्यादिप्रकारकप्रमायामव्याप्तिः दुर्वारा । तत्र प्रमेयत्वेन प्रमेयमानस्यैव विशेष्यतावच्छेदकत्वेन घटत्वादिसंबधितानवच्छेदकपरत्वादेरपि विशेष्यतावच्छेदकत्वादिति वाच्यं तत्संबन्धितावच्छेदक- तानवच्छेदकावच्छिन्नावच्छेदकत्वानिरूपितविशेष्यताया एव लक्षणधटकरवात निरुतज्ञानीयविशेष्यतावच्छे- दकतावच्छेदकप्रमेयत्वस्य घटत्वादिसंबन्धितावच्छेदकतानवच्छेदकत्वाभावेन तत्राव्याप्तेरभावात् । इत्थंच स्वसंबन्धितावच्छेदकतानवच्छेदकधर्मानवच्छिन्नावच्छेदकत्वानिरूपितत्वस्वनिष्ठज्ञानीयप्रकारतानिरूपितत्वो- भय संबन्धेन तद्धर्मविशिष्टविशेष्य ताकत्वं तद्धर्मप्रमाया लक्षणमिति फलितमतो नोकदोषः । निर्मितावच्छे. दककनमानभ्युपगमेन न तनातिव्याप्तिः । नच वह्नयभावत्वादिना पदार्थान्तरावगाहिहदोवह्नयभाववानि- त्याद्याकारकस्यान्तरा निर्धर्मितावच्छेदककभ्रमस्य भट्टाचार्य सार्वभौमैरनङ्गीकृततया तादृशभ्रमीयवह्नयभावत्व- निष्टप्रकारतानिरूपितपदार्थान्तरनिष्ठविशेष्यतायाः निरवच्छिन्नत्वेन निरुकावच्छेदकत्वानिरूपितत्वात् निरुक- प्रमालक्षणस्य तादृशभ्रमेऽतिव्याप्तिरिति वाच्यम् । निर्मितावच्छेदककभ्रमाङ्गीकर्तृमते यथाश्रुततत्संबन्धिनि- विशेष्यतायाः तत्संबन्धितावच्छेदकतानवच्छेदकावच्छिन्नावच्छेदकत्वानिरूपितत्वस्यापि निवेशनीयत्वातू निरुक्तभ्रमीयवयभावत्वनिष्ठप्रकारतानिरूपितपदाधान्तनिष्ठविशेष्यतायाः तादृशावच्छेदकत्वानिरूपितत्वेऽपि तत्संबन्धिनिष्टस्वाभावात् नातिव्याप्सिनसक्तिः । एवंच तत्संबन्धिनिष्ठत्वतत्संबन्धितावच्छेदकतानवच्छेदकाव- च्छिन्नावच्छेदकत्वानिरूपितत्वज्ञानीयतन्निष्ठप्रकारतानिरूपितत्वएतस्त्रितय संबन्धेन तद्धर्मविशिष्टविशेष्यताशा- लित्वं तत्प्रमात्वमिति फलितमिति न कोऽपि दोष इति दिक् । अस्मद्गुरुचरणास्तु विशेषणसंशयाद्विशिष्टसंशय इति विशेषणभ्रमात् विशिष्टन मस्यैव स्वीकार्यतया पदार्थान्तरे वह्नयभावत्वप्रकारकभ्रमोत्तरं पर्वतादौ ववधभा- वत्वविशिष्टप्रकारकभ्रम एव स्वीकार्यः नतु वह्नयभावत्वावच्छिन्नपदार्थान्तरनिष्ठप्रकारतानिरूपितपर्वतादिनिष्ठ. विशेष्य ताशालिभ्रमोऽपि अन्यथा तस्य विशिष्टवैशिष्टयावगाहिज्ञानानात्मकतया विशेषणतावच्छेदकप्रकार. कनिर्णयशून्य कालेऽपि तदुत्पत्त्यापत्तेः नच तज्ज्ञानं विशेष्ये विशेषणमिति रीत्या जायमानमेवेति विशेषणता. वच्छेदकप्रकारकनिर्णय शून्यकाले तदुत्पत्तौ बाधकाभाव इति वाच्यम् वहिमान् ह्रद इलाकारकवह्नित्वावच्छि. नप्रकारतानिरूपितहदत्वावच्छिन्नविशेष्यताशालिबुद्धिप्रतिबन्धकस्वानुपपत्तेः तादृशज्ञानस्य वह्नित्वावच्छिन्नप्र- तियोगिताकाभावत्वावच्छिन्न प्रकारताशालिनिश्चयत्वरूपप्रतिबन्धकतावच्छेदकरूपानाक्रान्तत्वात् । किञ्च तन्मते पदार्थान्तरविशेष्यकरजतत्वप्रकारकइदंरजतमितिभ्रमवत् केवलरजतमिति तादृशभ्रमस्यापि स्वीकारापत्तिः भ्रमत्वाविशेषात् नचेष्टापत्तिः मीमांसकानां भ्रमस्थाने ज्ञानद्वयमङ्गीकृत्यान्यथाख्यातिनिराकरणस्यानुचितत्वा- पत्तेः नैयायिकानां निर्मितावच्छेदककभ्रमस्थाने ज्ञानद्वयस्वीकारासंभवेनान्यथाख्यातिरवश्यमभ्युपेयेति प्रबलदूषणमनभिधाय मीमांसकमते दूषणान्तराभिधानस्यानुचितत्वापत्तेश्च । अपिच इदं रजतं नवेति संशयवत् तुल्ययुक्त्या रजतं नवेति संशयस्यापि स्वीकारापतिः श्रमत्वाविशेषात् नचेष्टापत्तिः धर्मिज्ञानसाधारणादि- धर्मज्ञानानां हेतुत्वविलयापत्त्या सर्वासद्धान्तविरोधापत्तेः तस्मात् निर्धर्मितावच्छेदककनमोऽप्रामाणिक एव । भट्टाचार्य सार्वभौमप्रभृतीनां तादृशत्रमाङ्गीकारस्तु प्रौढवादमात्रमेवात एव भ्रममात्रस्य सर्व ज्ञानं धर्मिण्यमान्तं 94