पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ७२१ शब्दाहेतुर्द्वितीयः स्यात् विभागोऽपि त्रिधा भवेत् । दनाख्यः संयोग इति ॥ विभक्तप्रत्ययासाधारणकारणं विभागं निरूपयति ॥ विभाग इति ।। प्रभा. मप्रामाणिकमेवेति । ननु यत्रादौ हस्तक्रिया ततो द्वितीयक्षणे शरीरक्रिया तत्र हस्तक्रिया चतुर्थक्षणे हस्त- तरुसंयोगः शरीरक्रियाजन्यशरीरपूर्वदेशसंयोगनाशश्च तदुत्तरक्षणे जायमानशरीरतरुसंयोगः हस्ततरुसंयोग- जन्यः शरीकियाजन्यो वेत्यत्र विनिगमनाविरहः । नहि तस्योभयजन्यत्वं संभवति जातिसाङ्कर्यापत्तेरिति चेन्न शरीराक्रियायाः संयोगजनकत्वानङ्गीकारे उत्तरसंयोगरूप नाशकाभावेन शरीरनाशपर्यन्तस्थायित्वावश्यक तया शरीरे क्रियान्तरानुपपत्तिप्रसङ्गात् कर्मवति कर्मान्तरानुपपत्तेः तस्मात् क्रियासामान्यस्य संयोगजनक- स्वमावश्यकं न संयोगसामान्यस्य संयोगजनकत्वं कियारूपासम वायिकारणविरहस्थल एव संयोगस्य तज्जन- कत्वस्वीकारात् । एवंच कियाघटितसामग्याः प्राबल्यात् उभयसामग्रीसमवधानस्थले शरीरतरुसंयोगस्य श- रीरक्रियाजन्यत्वस्यैव खीकारेणोक्तानुपपत्त्यभावात् । नव्यास्तु हस्ततरुसंयोगशरीरक्रियोभयसमवधानकालीन- शरीरतस्संयोगस्य विनिगमनाविरहेणोभयजन्यत्वमावश्यक साङ्कर्यस्य जातिबाधकरवानगी कारादित्याहुः । तन्न तथासत्ये कव्यक्ति कादीनामपि जातिबाधकत्वानापत्तेः ! नच तेषां तथात्वे तब्यक्तित्वादीनां जातित्वा- पत्त्या घटत्वकलशत्वकुम्भत्वादीनां विभिन्न जातिवापत्त्या सामान्यादिष्वप्रामाणिकानन्तजातिस्वीकारापत्या चातिगौरवात् तेषां जातिवाधकत्वमावश्यकमिति वाच्यम् । युक्तस्तौल्येन साङ्कर्यस्यापि जातिवाधकस्वावश्य- कत्वात् अत एव व्यक्तरभेदस्तुल्यत्वं सरोऽथानवस्थितिरित्याधुदयनाचार्योंक्तिरपि सङ्गच्छते । अपरंतु संयोगकिययोः एकैकसमवधानस्थले एकैकसयोगोत्पत्तरिव कारणद्वयसमवधानस्थले संयोगोत्पत्तेरावश्यकत- या प्रकृते हस्ततसंयोगशरीरक्रियाभ्यां संयोगद्वयमावश्यकं तत्र द्वित्वाद्यनुपलम्भस्तु सजातीयसकररूपदो- षादित्याहुः । तत्र एकस्मिन्नेकदा तत्संयोगवति तत्संयोगान्तरानभ्युपगमात् प्रतिबन्धकीभूतक्रियाघटितसामग्री. सत्त्वेन संयोगजसंयोगोत्पत्त्यसंभवाच्च । यत्तु हस्ततासंयोगशरीरक्रियाभ्यां चित्रसंयोगात्मकविजातीय संयो- गोजात इति न साकर्यस्य जातिबाधकत्व हानि: नवैकत्रैकदा तत्संयोगवति तत्संयोगान्तरस्वीकारप्रसक्तिरिति त. न्न चित्रसंयोगस्य भाष्यकाद्यननुमतत्वात् प्रमाणाभावाखेति दिक् । एकक्रियाजन्यसंयोग क्रियाद्वयेन जायमानं संयोगं चोदाहरति ॥ आदिम इत्यादिना ॥ कर्मसंयोग विभजते ॥ कर्मजोऽपीति ॥ कर्मजसंयोगोऽपीत्य- र्थः । अपिना संयोगसामान्यद्वैविध्यं समुचीयते अभिघातरूपमाह ॥ शब्दहेतुरिति ॥ अवच्छेदकतासंबन्धा- वच्छिन्नशब्दनिष्टकार्यतानिरूपितसमवायसंबन्धावच्छिन्नकारणताश्रय इत्यर्थः ॥ आदिम इति ॥ अभिघात दिनकरीयम् । ल्पनापेक्षया समवायेन संयोगस्यैव हेतुत्वकल्पनौचित्यात् । वस्तुतो यत्र कपालक्रियया कपालान्तरेण तरु. णा चैकस्मिन् क्षणे संयोगस्तदुत्तरक्षणे घटोत्पत्तिः कपाल क्रियानाशश्च नाशकस्योत्तरमयोगस्य पूर्व सत्त्वात् तदुत्तरक्षणे कुम्भतरुसंयोगानुपपत्तेः पूर्वक्षणे कपालक्रियाया नाशात्तस्मात् कपालसंयोग एव तन कारणमि. ति संयोगजसंयोगसिद्धिनिराबाधैवेति । अत्र केचित् कथं संयोगस्य विध्यमन्य तरकर्मजन्यसंयोगस्याप्रसिद्धः यत्रेषुक्रिययेषुवृक्षयोः संयोगस्तत्र संयोगाधिकरणे वृक्षे क्रियाविरहेण व्यभिचारादन्यतरकर्मणः संयोग अति का. रणत्वस्य वक्तुमशक्यत्वादित्याहुः तन्न कार्याव्यवहितपूर्वक्षणावच्छेदेन कार्यतावच्छेदकावच्छिन्नयत्किञ्चि- ध्यक्तयधिकरणीभूतयावयक्तिवृत्तिकाभावप्रतियोगितानवच्छेदकधर्मवत्त्वमेव कारणताघटकमेवं च कार्या- व्यवहितपूर्वक्षणावच्छेदेन कार्यतावच्छेदकावच्छिन्नयत्किञ्चिवक्त्यधिकरणयावयक्तिषु कारणाभाववत्त्वमे. व व्यभिचारः । नचैवविधो व्यभिचारः प्रकृते इपोरपि तादृशयावदन्तर्गततया तत्र क्रियाभावासत्त्वादिति दिक् । नन्वेयं यत्र हस्तक्रिया ततो द्वितीयक्षणे शरीरक्रिया तत्र चतुर्थक्षणे इस्ततरुसंयोगस्तस्मिन्नेव क्षण शरीरक्रियाजन्यशरीरपूर्व देशसंयोगनाशस्तदुत्तरक्षणे शरीरतरुसंयोगो जायते तस्य च हस्ततस्तंयोगजन्यत्वं शरीराक्रयाजन्यत्वं चेत्यन्न विनिगमनाविरहः । नचोभयमेव तत्र हेतु: जातिसङ्करप्रसङ्गादिति चेन्न तत्र संयो. गद्वय स्योपगमात् द्वित्वाग्रहस्तु सादृश्यदोषादियेके तत्र चित्रसंयोग एवोत्पद्यते कारणत्वं तु तत्र संयोग- 91