पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता। - तथोभयस्पन्दजन्यो भवेत् संयोगजोऽपरः । आदिमः श्येनशैलादिसंयोगः परिकीर्तितः ॥ ११६ ॥ प्रभा. वजात्यद्व यमङ्गीकार्यम् । एवं क्रियान्तरसहकृतक्रियया जायमानमेषव्यसंयोगादेरभिघातरूपतया तादृशाक यया जायमानतूलद्वयसंयोगादेश्च नोदनरूपतया च तादृशकियाजन्यतावच्छेदकवैजात्यस्यापि नोदनस्वादिना साक्ष्यवारणाय प्रत्येकं नोदनत्वाभिघातत्वव्याप्यवैजात्यद्वयमवश्यमङ्गीकार्यम् । एवं च क्रियासामान्गजन्यता - वच्छेदकसंयोगविभाजकवैजात्यव्याप्यानां वैजात्यानां चतुष्ट्वात् कीदृशवैजात्याभ्यां कर्मजसंयोगस्य द्वैवि ध्यमित्यत्र बिनिगमनाविरहेण कर्मजसंयोगस्य द्वैविध्येन विभागासंभवात् चातुविध्येन विभागस्याप्रामाणिकत्वा- तू सकलतान्त्रिकासिद्धान्तविरुद्धत्वाञ्च वर्मजसंयोगस्य विभागकरणं नियुक्तिकमेव । वस्तुतस्तु क्रियान्तरास. हकृतक्रियावृत्तिवैजायस्य तत्सहकृतक्रियायामपि उक्तरीत्या सत्त्वेन क्रियासहकृतक्रियावृत्तिबैजात्यव्यापक- त्वादुत्क्षेपणत्वादिना तस्य सार्याभावेऽपि कर्मसहकृतकर्मवृत्तिवैजात्यस्योरक्षेपणत्वादिना सायंवारणाय कर्मसहकृतक्रियायामुत्क्षेपणत्वादिव्याप्यवैजात्यचतुत्र्यं स्वीकार्यम् । तत्र परस्परव्याभिचारवारणा- थै कैकवै जात्यावच्छिन्नसहकृतापरबैजात्यावच्छिन्नजन्यतावच्छेदकं जोदनत्वादिव्याप्यवैजाल्यद्वयामिति रीत्या क्रियासहकृतकियाजन्यसंयोगेषु वैजाल्याष्टकाङ्गीकार आवश्यकः। एवं उत्क्षेपणादिकर्मभ्यां संयोगे मानाभावे- नोत्क्षेपणावक्षेपणाभ्यां आकुश्चनप्रसारणाभ्यामेद संयोगो व्याप्यः । तत्रापि परस्परव्यभिचारावारणागैकवै- जात्यावच्छिन्नासह कृतापरवेजात्यावच्छिन्नजन्यतावच्छेदकनोदनादिव्याप्य जात्याष्टकविरुद्धमेव एकवैजात्या. वच्छिन्न सहकृतापरबैजात्यावच्छिन्नजन्यतावच्छेदकनोदनादिव्यायवै जात्यचतुष्टयमवरप्रभङ्गीकार्यमेव । एवंच कौशवैआत्याभ्यां कर्मजसंयोगस्य द्वैविध्यमित्यत्र विनिगमकाभावात् द्वादशधा विभागस्याप्रामाणिकत्वात् भाष्यकाराद्यननुमतत्वाच्च कर्मजसंयोगस्यो करीया विभागकरणमप्रामाणिकमेव । आद्योऽन्य तरकर्मज इत्यादि मूलन्तु एकया क्रियया यथा संयोगः यथा च क्रियाद्वयन कसंयोगो जायते तथा त्रिभिः कर्मभि- श्चतुर्भिः कर्मभिर्वा एकस्संयोगो न जायत इति शिष्यबोधतात्पर्येणो चरितं नतु विभागपरं अत एव कर्मजोऽपि द्विधैव परिकीर्तित इत्यादिना कर्मजसंयोगस्य द्वैविध्येन विभागकरणमप्रेतनं साधु सङ्गच्छते किन्तु कर्मजस्संयोग- जश्चेति भाष्यरीत्या संयोगस्य द्वैविध्यप्रतिपादकमेवानयैव रील्या विभागस्थलेऽपि सर्वमूह्यमिति प्रतिभाति ॥ ननु भवेत्संयोगजोऽपर इति मूलेन संयोगजसंयोगः प्रतिपादितः तत्र प्रमाणाभावः कपालकियाजन्यकपालतरुसं. योगोत्तरकालीनकुम्भतरुसंयोग प्रत्यपि समवाय घटितसामानाधिकरण्यसंबन्धेन कपालक्रियाया एव हेतुत्वसं- भवात् अवयविसमवेतक्रियां प्रत्य वयवसमवेतक्रियायाः समवायघटितसामानाधिकरण्यसंबन्धेनैव हेतुत्वस्य कृप्तत्वादिति चेग्न कपालतरुसंयोगजनककपालक्रियाया कुम्भतरुसंयोगकाले कपालतरुसंयोगेन नाशादसमवानि-- कारणस्य कार्यसहभावेन हेतुतया तदभातात तेन कुम्भतरुसंयोगोत्पत्त्यसंभवात् तत्र कपालतरुसंयोगोत्तरं कुम्म- तसंयोगापलापे कुम्भसंयोगी वृक्ष इति सर्वानुभवसिद्धप्रतीतिव्यवहारयोरनुपपत्तेः तस्मात् संयोगजसंयोगा- जीकार आवश्यक इति। केचित्त वस्तुतो यत्र कपालक्रियया कपालान्तरेण तरुणा चैकस्मिन् क्षणे संयोगः तदुत्तर- क्षणे घटोत्पत्तिः कपालक्रियानाशश्च तत्र नाशकस्योत्तरसंयोगस्य पूर्व सत्त्वात् तदुत्तरक्षणे कुम्भतरुसंयोगानुपप- त्तिः पूर्वक्षणे कपालकियानाशात् तस्मात् कपालतरुसंयोग एव तत्र कारणमिति संयोगसिद्धिनिराबादेत्याहुः । तदसत् वृक्षकपालसंयोगजनककपालकियाजन्य कपालद्वयसंयोगस्य घटारम्भकरवे प्रमाणाभावात् चनावच्छे- विजातीयकपालद्वयसंयोगस्यैव घटासमवायिकारणत्वात् अन्यथा संयोगेन घटं प्रति तादात्म्येन चक्रस्य संयोगेन दण्डस्य च हेतुत्वानुपपत्तेः वृक्ष एव संयोगेन घटोत्पत्तिस्वीकारेण संयोगसंबन्धावच्छिन्नोत्पत्त्यवच्छेदकतासंबन्धेन दिनकरीयम् . मत्वेन विजातीयसंयोगत्वेन समवायेन हेतुहेतुमद्भावात् उभय कर्मजसंयोगादौ च तादृशवैजात्यामा वेन व्यभिचाराभावात् । एवमुभयकर्मणः संयोगस्यापि च संयोग प्रति हेतुत्वं बोध्यम् ॥ मूले भवेत् संयोगजोऽपर इति ॥ ननु संयोगजसंयोगे मानाभावः यत्र कपालक्रियया कपालतरुसं-