पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । प्रभा. लाख्य इति ॥ प्रचयत्वं च अवयवसंयोगगतो जातिविशेषः । तादृशजातिविशेषावच्छिन्न एव शिथिल इत्युच्यत इत्यर्थः । किञ्चिदवयवावच्छेद्यावयवान्तरसंयोगाभावावशिष्टमहावयवनिष्ठसंयोगः प्रचय इति प्रा- ध्वः । महत्पदमन न देयं तेन परमाणुसंयोगस्य प्रचयत्वेऽपि न क्षतिरित्येकदेशिनः । भूयोऽवयवाव- च्छेदेनावयवान्तरासंयोगिन्यवयवे वर्तमानसंयोगः प्रचयः तेन परमाणुसंयोगो घणुकसंयोगो वा न प्रचय इति नव्याः । अत्र दीर्घत्वं जन्यमहत्त्वाधिकरणच्यणुकादानेव न त्वाकाशादादेवं ह्रस्वत्वं जन्याणुत्वाधिकर- पाध्यणुकेष्वेव न परमाणुष्विति प्राञ्चः । दीर्घत्वं हस्वत्वं नित्यानित्यभेदेन द्विविधं नित्यं दीर्घत्वं आका.. शादौ अनित्यं दीर्घत्वं जन्यमहत्त्वसमानाधिकरणमित्युक्तमेव नित्यं ह्रस्वत्वं परमाणुष्वेव अनित्यं ह्रस्वत्वं जन्याणुत्वाधिकरणद्यणुकसमवेतमित्युक्तमेवेत्याचार्याः । परामाणुयणुकयोर्हस्वत्वेन केनाप्यननुभूतत्वात् आ. काशादिविभुचतुष्टयस्य दीर्घत्वेन केनाप्यननुभूतत्वाच्च ह्रस्वत्वदीर्घत्वयोः जन्यमहत्त्वसमानाधिकरणत्वमेव वाच्यं अत एव सूची दण्डात् हस्वा दण्डः सूचितो दीर्घ इति सार्वजनीनलौकिकप्रत्यक्षमप्युपपद्यत इत्यस्मद्- रुचरणाः । स्वतन्त्रास्तु अणुःवं महत्त्वं चेति परिमाणं द्विविधमेव हस्वत्वदीर्घत्वयोः अवयवसंयोगविशेषरूपत्वा. तु तादृशसंयोगविशेषविषयकत्वेनैव हस्वो दीर्घ इति प्रत्यक्षोपपत्तेः । अन्यथा इदं वर्तुलं इदं चतुरश्रमित्याधनु- भवानुरोधेन वर्तुलत्वादीनामपि परिमाणान्तरत्वापत्तेरियाहुः । इदंचाणु महद्दीर्घ ह्रस्वं चेति भाष्यविरुद्धत्वेन वर्तुलत्वचतुरश्रत्वयोरिव ह्रस्वत्वदीर्घत्वयोः संयोगविशेषरूपत्वासंभवात उपेक्षितम् । वस्तुतस्तु परिमाणं मान- व्यवहारकारणं अणु महद्दीर्घ ह्रस्वं चेति भाष्यं तन कारणमित्यन्तं लक्षणपरं अणु महदिति भाष्यं द्वैविध्येन परिमा. णविभागपरं दीर्घ ह्रस्वं चेति भाष्यं नैविध्येन महत्त्वविभागपरं भाष्यस्थानुक्तसमुच्चायकचशब्देन परममहत्त्वला- भात् ।तथाच तच्च पारमाणं द्विविध अणुत्वमहत्त्वभेदात् महत्त्वमपि त्रिविधं दीर्घदहस्वत्वपरममहत्त्वभेदात् इति भाष्यार्थः फलितः। अत्र दीर्घत्वं चतुरणुकादिसकलजन्यद्रव्यवृत्तमहत्त्वरूपं ह्रस्वस्वन्तु व्यणुकमात्रवृत्तिमहत्त्व रूपं परममहत्त्वं विभुवृत्ति क्वचित्सूच्यादौ दण्डाद्यवधिकहस्वत्वव्यवहारः असरेवादावणुत्वव्यवहारवत् भाक्त इ- ति बोध्यम् । न वापकृष्टमहत्वस्यैव दीर्घत्वहस्व स्वरूपत्वे दण्डावधिकमहत्त्ववत्तया प्रतीयमानघटादौ दण्डावधि- कदीर्घत्वप्रत्ययापत्तिः तदवाधिकमहत्त्वस्यैव तदवधिक दीर्घत्वरूपत्वात् । एवं घटावधिकदीर्घत्ववत्तया प्रतीयमा- ने दण्डादौ घटावधिकमहत्वप्रत्ययापत्तिः तदवधिकदीर्घत्वस्यैव तदवाधिकमहत्त्वरूपत्वात् इति वाच्यम् । घटो दी| दण्डो महान् इति प्रत्ययस्य इष्टत्वात् । दण्डात् घटो दीर्घ इत्यादिप्रत्ययस्य च तदपेक्षया दीर्घत्व प्रत्यक्ष प्रति तदवयवघटकैकावयवाप्रावच्छेद्यापरावयवसंयोगपरम्परापर्याप्तसङ्ख्याधिकसङ्खयापर्याप्त्याधिकरणतादृशावयव- संयोगवत्त्वज्ञानस्यैव हेतुत्वात् घटे दण्डावयवघटकैकावयवाग्रावच्छेद्यापरावयत्र संयोगपरम्परापर्याप्तसङ्खयाधिक सहयापर्याप्त्यधिकरणतादृशावयवसंयोगवत्त्वाभावात् अभ्रान्तस्य तादृशसंयोगवत्त्वज्ञानासंभवेन कारणाभावा-- नापत्तिः निरुक्तसंयोगपरम्परावत्त्वज्ञानस्य सावधिकदीर्घत्वप्रकारकप्रत्यक्षाहेतुत्वे दीर्घत्वस्य महत्त्वातिरिक्तपरि- माणरूपायवादिमतेऽपि दण्डे दीर्घत्वस्य वर्तमानतया दण्डो घटाहीर्घ इति प्रत्यक्षवत् ताळवृक्षादीर्घ इति प्र- स्यक्षापत्तेवारत्वात् । तज्ज्ञानस्य हेतुत्वे तु ताळवृक्षावयवघटकैकैकावयवानावच्छेद्यापरावयवसंयोगपरम्पराप. याप्तसङ्ख्याधिकसङ्खयापर्याप्त्यधिकरणताशावयवसंयोगपरम्परावत्त्वस्य दण्डेऽभावात् अभ्रान्तस्य तज्ज्ञानासं- भवेन मतद्वयेऽपि दण्डे तादृशप्रत्यक्षापत्तिवारणं सुकरमेव । एवं दण्डनिष्ठमहत्त्वस्य घरनिछमहत्वावधिको- स्कर्षानाश्रयत्वात् दण्डो घटापेक्षया महानिति प्रत्यक्षस्यापि मतद्वये नावकाशः । अनयैव दिशा घटो दण्डा- स्व इति प्रत्यक्षं व्यवहारो वा मतद्वयेऽप्युपपादनीयः। परन्तु ह्रस्वत्वदीर्घत्वयोः महत्त्वातिरिक्तपरिमाण रूपत्वमते प्रत्यक्ष वास्तवं व्यवहारोऽपि मुख्यः निष्कृष्टमते निरुक्त प्रत्यक्षव्यवहारौ त्रसरेणावणुत्वप्रत्यक्षत-- व्यवहारतुल्याविति विशेषः । एवंचागुत्वमहत्त्वरूपपरिमाणद्वयेनैव सर्वत्र सामञ्जस्ये परिमाणस्य चातुर्विध्यक- रूपनागौरवं एकस्मिन्नेव दण्डादौ परिमाणद्वयकल्पनागौरवं च दीर्घत्वादेः परिमाणान्तरत्ववादिमते परभव- शिष्यते । नच परिमाणद्वैविध्ये तचतुर्विधमित्यादिमुक्तावळीग्रन्थविरोध इति वाच्यम् । तस्य फलतश्चातुर्विध्ये तात्पर्यान्न विरोध इति प्रतिभाति । परिमाणं तूलकादौ नाशस्त्वाश्रय नाशत इति मूलेन नाशशब्दोत्तरभूयमाणा• -