पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः परिमाण घटादौ तु परिमाणजमुच्यते । प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते ।। ११२ ।। परिमाणं तूलकादौ नाशस्त्वाश्रयनाशतः । परिमाणजन्यं परिमाणमुदाहरति । परिमाणं घटादाविति ।। घटादिपरिमाणं कपा- लादिपरिमाणजन्यम् । प्रचयजन्यमुदाहर्तुं प्रचयं निक्ति । प्रचय इति ।। परिमाणं चाश्र- प्रभा. लसंयोगे मानाभावः सावयवत्वमात्रेण मूलावयवेष्विव धणुके प्रचयसंयोगस्वीकारेऽपि त्र्यणुके परिमाणे ता. रतम्यस्य फेनापि प्रमाणेनाननुभूतत्वात् घणुकव्यणुकपरिमाणयोः प्रचयासमवायिकारणकत्वेऽपि मानाभाव इत्यपि बोध्यम् ॥ अत इति ॥ उक्तरीत्या द्वषणुकत्र्यणुकपरिमाणयोः परिमाणप्रचयासमवायिकारणकत्वासं. भवादित्यर्थः । धणुकादिपारमाणयोः सङ्ख्यातिरिक्तासमवायिकारणकत्वाभावमुपपाथ इदानी सङ्ख्यासमवा- यिकारणकत्वमुपपादयति ॥ परमाणो द्वित्वसंख्यति ॥ तत्समवेतद्वित्वसङ्खये वेत्यर्थः । यणुकप- रिमाणस्येति । असमवायिकारणमित्युत्तरेणान्चयः ॥ द्ववणुके त्रित्वसंख्या चेति ॥ तत्समवेतत्रि- त्वसङ्खवेत्यर्थः ॥ १०९ ॥ ११० ॥ १११ ॥ परिमाणजन्यमिति ॥ परिमाणमात्रजन्नामित्यर्थः ॥ घटादिपरिमाणमिति ॥ कपालद्वयार- बघटादिपरिमाणमित्यर्थः । कपालादिपारमाणजन्यमिति । कपालादिपरिमाणमात्रजन्यमित्यर्थः । अ. त्र यादृशकपालद्वयेन प्रचयस्तादृशकपालद्वयारधघट समवेतमहत्त्वं प्रत्यवयवगतप्रचयस्य हेतुत्वासंभवातू ध्यणु- केऽपि महत्त्वोत्पत्त्यापत्त्या द्वित्वत्वेन द्वित्वसङ्ख्यायाः महत्त्वहेतुत्वासंभवेन कपालगतद्वित्व सङ्ख्यायाः घटसमो. तमहत्वहेतुत्वासंभवाच । नच द्वित्वात्य द्वित्वत्वेन उक्कापत्तिाभया महत्त्वोत्पादकत्वासंभवेऽपि तादृशघट- व्यक्तिसमवेतमहत्त्वव्यक्ति प्रति कपालद्वय गतद्वित्वस्य तद्गतपारमाणस्य वासभवाथिकारणत्वमिलन विनि. गमनाविरहात तल द्वित्वस्यापि हेतुत्वमावश्यकर्मिति वाच्य अवयवमहत्त्वोत्कर्षणावयविमहत्त्वोत्कर्षस्या- न्यत्र दर्शनस्यैव विनिगमकत्वात् । तस्मात् घटविशेषगतमहत्त्वपरिमाणं कपालादिपरिमाणमात्रजन्यमिति हृदयम् ॥ प्रचयजन्यमुदाह मिति ॥ परिमाणे प्रचयजन्यत्वं दर्शथितुमित्यर्थः । प्रचयमात्रासमवाधिकार- णकपरिमाण मानाभावादिति भावः । अत्र प्रचितमहावयवद्वयारब्धतूलादिसमवेतमहत्त्वस्य अप्रचितमहा- वयवद्वयारब्धघटादिपारमाणापेक्षया महत्वशन्यद्यणुकत्यारब्धव्यणुकसमवेतमहत्त्वापेक्षया च अतिशयदर्श नादित्याशयः ॥ प्रचयं निर्वतीति ॥ आदौ प्रचयस्वरूपं दर्शयतीत्यर्थः । प्रचयस्वरूपाज्ञाने प्रचयजन्य- वेन परिमाणनिरूपणासंभवादिति भावः । इदमुपलक्षणम् । कपालत्रयारब्धघटादिसमवेतपरिमाणं सङ्ख्या- परिमाणोभयजन्यं कपालादिद्वयारब्धघटादिसमवेतमहत्त्वापेक्षया महत्त्वशून्यावयवत्रयारब्धत्रसरेण्वपेक्षया वोत्कृष्टत्वात् । एवं प्रचितमहावयवत्रयारब्धतूलकादिसमवेतपरिमाणं सङ्खयापरिमाणप्रचयत्रितयजन्य प्रचितमहावयवद्वयारब्धतूलादिसमवेतमहत्वापेक्षया अप्रचिनमहावयवतयारब्धघटादिसमवेतमहत्त्वापे- क्षया चोत्कृष्टत्वात् । एवं चानित्वं परिमाणं पञ्चधा पर्यवसितमित्यपि बोध्यम् ॥ मूले प्रचयश्शिथि- दिनकरीयम्. परिमाणजन्यं परिमाणमात्रजन्यम् । कपालादिपरिमाणजन्यम् ॥ कपालादिपरिमाणमा- अजन्यमित्यर्थः । अप्रचितमहत्कपालद्वयारब्धे घटे यन्महत्परिमाणं तत्र कपालगतद्विस्वसङ्खथा न कारणं द्वित्वसङ्ख्याया महत्त्वाजनकत्वात् अन्यथा अणुकेऽपि महत्त्वोत्पादापत्तेः। नचोकापत्त्या द्वित्वत्वेन परिमाणा- जनकत्वेऽपि घटगतमहत्त्व प्रति कपालगतमहत्त्वस्य कपालगत्तद्वित्वस्य वा हेतुत्वमित्यत्र विनिगमनाविरह इति वाच्यं कपालगतमहत्त्वोत्कर्षण घटगतमहत्वाकर्षस्यानुभविकतया कपालमहत्वस्य तनावश्यं हेतुता. या वाच्यत्वात् यत्र कपाले न प्रचयस्तत्र प्रचयस्यापि हेतुत्वासम्भवात्तत्र घटपरिमाणं कपालपरिमाणमात्रजन्य- मिति भावः ॥प्रचय इतीति।मूले शिथिलाख्य इति ॥ किञ्चिद्वयवावच्छेदेनाव यवान्तरासंयोगिनि