पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०६ कारिकावली [गुणखण्डः परिमाणं भवेन्मानव्यवहारस्य कारणम् ।। १०९ ॥ अणु दीर्धं महद्भस्वमिति तद्भेद ईरितः । अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम् ॥ ११० ॥ सङ्ख्यातः परिमाणाच्च प्रचयादपि जायते । अनित्यं घणुकादौ तु सङ्ख्याजन्यमुदाहृतम् ।। १११ ।। भावान्नोपपद्यदित्यवधेयम् ॥ परिमाणं निरूपयति ॥ परिमाणमिति ॥ मान- प्रभा. पेक्षाबुद्धिविशिष्टबहुत्वत्वादिविशिष्टत्रित्वादिरूपकारणसत्त्वाच इमे शतं सहस्रमित्याद्याकारकशतत्वाधवाच्छन्न. लौकिकविषयताशालिप्रत्यक्षानुत्पत्तिः इमे वव इत्याकारकब हुत्वत्वावच्छिन्नत्रित्वादिनिष्ठलौकिकविषयताशा- लिप्रत्यक्षोत्पत्तिश्च भवतीति न किंचिदनुपपन्नमिति । इत्थं चेति बहुत्वस्य विवादिरूपत्वस्वीकार एवेत्यर्थः । इतो बहुतरेयं सेनेति । इयं सेना इतो बहुतरा वहुतमेत्यर्थः॥ इति प्रतीतिरुपपद्यत इति ॥ इत्याकार-- कप्रत्यक्षं प्रमावेनाभ्रान्तैज्ञातुं शक्यत इत्यर्थः । तत्सेनापर्याप्तसहस्रत्वादिरूपबहुत्वसङ्ख्याधिकलक्षत्वादि-- रूपबहुत्वसङ्घयापर्याप्त्यधिकरणस्वस्यैतत्सेनायां सत्त्वादिति भावः । कन्दलीकारमतं दूषयति ॥ बहुत्वस्ये. ति ॥ संख्यान्तरत्वे त्विति ॥ कृप्तसङ्ख्याविभाजकधर्मान्यतमशून्यसञ्जयारूपत्वमते स्वित्यर्थः । तुरव- धारणे ॥ तारतम्याभावादिति । अत्र बहुत्वत्व जातेरेकत्वात् तव्याप्याने कवैजात्यानीकारे प्रमाणाभा- वाच तत्सेनापर्याप्तबहुत्वसङ्खयावधिकोत्कर्षस्याळी कतया तादृशोत्कर्षाश्रय बहुत्वसवयापर्याप्यधिकरणत्वस्य । तत्सेनायां सुतरामप्रसिद्धया तादृशप्रतीतेधमत्येन अचान्तानां प्रमात्वप्रत्ययानुपपत्तिः तादृशप्रत्ययोपपादना. य बहुत्वेऽनेकजात्याङ्गीकारे कृप्तत्रित्वादि भिन्नबहुत्वसङ्ख्या कल्पने तत्रानन्तवैजात्यकल्पने चातिगौरवात् त. दपेक्षया बहुतस्य कृप्तत्रित्वादिरूपत्वमङ्गीकृत्य तत्र कृप्तत्रिवत्वादिरूपानन्तवैजात्यमादाय तारतम्यप्रत्यय- स्य प्रमात्वप्रतिपादनानौचित्यादित्याशयः । नच बहुत्वस्य नित्वाथभिन्नत्वे बहुत्वत्वावच्छिन्नप्रकारताशालिनि. वयकाले त्रित्वत्वाद्यवच्छिन्न प्रकारक संशयो न स्यात् त्रित्वत्वादेः बहुत्वत्वादिरूपेण निश्चितत्वादिति वाच्यम् बहुत्वत्वावच्छिन्न प्रकारकनिश्चयस्य तद्धर्मावच्छिन्नाभावप्रकारकबुद्धिं प्रत्येव प्रतिबन्धकतया तादृशनिश्चयकाले त्रित्वत्वाचवच्छिन्न प्रकारकसंशयोत्पत्तौ बाधकाभावात् ॥ इति सङ्ख्याग्रन्थः॥पारमाणं मानव्यवहारकारणमिति भाष्यानुसारेण परिमाणलक्षणमाह ॥ मूले परिमाणमिति ॥ मानव्यवहारकारणत्वस्य काल मात्रे आका. शादौ सत्त्वादतिव्याप्तिरत आह ॥ मुक्कावळ्यां मानव्यवहारासाधारणं परिमाण मिति ॥ घटो महानित्यादिशब्दनिष्टवाच्यतासंबन्धावच्छिन्न कार्यतानिरूपितसमवायसंबन्धावच्छिन्न- कारणत्वं परिमाणलक्षणमित्यर्थः । अत्रापि सङ्घ थालक्षणोक्तरीत्या अव्याप्तिवारणाय तादृशकारणत्वस- मानाधिकरणरूपासमवेतजातिमत्त्वमेव परिमाण सामान्यलक्षणम् । एवं तादृशकारणत्वसमानाधिकरणदीर्घत्वा. त्तिजातिमत्त्वं महत्त्वलक्षणम् । एवं महत्पदस्थाने दीर्धादिपदं अणुपदं च निक्षिप्य तादृशातिरूपर्धित्वत्व. हस्वत्वत्वाणुत्वत्वमादाय दीर्घत्वहस्वत्वाणुत्वानां लक्षणं बोध्यम् । इदमुपलक्षणम् । परिमाणपदशक्यतावच्छे. दकतया सिद्ध जातिविशेषरूपपरिमाणत्वं परिमाण सामान्यलक्षणाम् । एवं अणुत्वादिपदशक्यतावच्छेदकतया सि- द्धजातिविशेषरूपाणुत्वत्वादिमत्त्वं अणुत्वादिचतुर्णा विशेषलक्षणामित्यपि बोध्यम् ।अनाणुत्वं परिमाणं महत्त्व प- रिमाणमित्याद्यनुगतप्रतीत्या परिमाणत्वजातिसिद्धिः । तादशजातिविशेषवत्त्वं परिमाणसामान्यलक्षणम् । एवं अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वमित्यनुगतप्रतीत्याणुत्वत्वादिजातिरपि सिध्यति । तत्तजातिविशेषवत्त्व अणुत्वादि. दिनकरीयम् . हुत्वे स्वसजातीयोत्कर्षाभावात्तव मते तस्यैकरूपत्वादिति भावः । नच बहुत्वस्य त्रित्वादिरूपत्वे बहुत्वनिश्चये क. थं त्रित्वादिसंशय इति वाच्यं समानप्रकारक निश्च यस्यैव संशयविरोधितया बहुत्वत्वप्रकारकनिश्चयस्य त्रित्वत्वा. च