पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड: त् । अथ परमाण्वन्तरे कर्मचिन्तनात् पञ्चमादिक्षणेऽपि गुणोत्पत्तिः। तथा हि एकत्र परमा- प्रभा. तोऽग्निसंयोगात् परमाणौ कर्म तादृशाग्निसंयोगजनककर्मनाशः अग्न्यन्तरस्य पूर्वदेशविभागश्च ततः परमाणु. द्वयविभागः तदग्नौ कर्म अग्न्यन्तरस्य पूर्वदेशसंयोगनाशश्च तत आरम्भकसंयोगनाशः तादशकमजन्यविभा. गः परमाणौ चरमारन्यन्तरसंयोगश्च ततो द्वयणुकनाशः तदग्निपरमाणुसंयोगनाशः अग्न्यन्तरकर्मनाशश्च त. तश्वरमाग्निसंयोगजन्यः परमाणों श्यामादिनःश: पुनरग्न्यन्तरकर्म च ततः रक्तोत्पत्तिः चरमान्यन्तरसंयो- गनाशकविभागश्च ततश्चरमाग्न्यन्तरसंयोगनाशसंभवादिति भावः ॥ रक्ततरता न स्थादिति ॥ रक्तत. मता न स्यादित्यपि बोध्यम् । अत्र श्यामादिनाशकतावच्छेदकाग्नि संयोगनिष्ठवजात्यस्यैव यदि रक्तायुत्पा. दकतावच्छेदकत्वं तदा एकवैजात्यायैव रकरकतसक्ततमोत्पादकतावच्छेदकत्यावश्यकतया कारणतावच्छे- दकभेदाभावेन र करक्ततत्वादिवलक्षण्यानुपपत्तिः । कचिद्रकोत्पत्तिः कचिद्रक्ततरोत्पत्तिः क्वचिद्रक्तत- मोत्पत्तिरिति नियमानुपपत्तिश्च कार्यवैचित्र्यस्य कारणतावच्छेदकभेदाधीनत्वेन प्रकृते तदभावात् कार्यवि- शेषोत्पत्तेः कारणविशेषाधीनत्वेन प्रकृते तदभावाच । नचेष्टापत्ति: घटादिरक्तापेक्षया कुकुममाणिक्यादिरके तारतम्यस्यानुभूय मानत्वेन तत्परमाणुरक्वेऽपि तदावश्यकत्वात् तत्परमाणुष्वपि रकतराद्युत्पत्तेः आवश्यक- त्वाच्च । तस्मान्नाशकतावच्छेदकवैजात्यविरुद्धमेव उत्पादकतावच्छेदकजात्यमवश्यमङ्गीकार्यम् । एवंच रक्को. त्पादकतावच्छेद कवैजात्यव्याप्यरक्ततरताद्युत्पादकतावच्छेदकजात्यद्वयाङ्गीकारात् कारणतावच्छेदकभेदस- त्वेन कुङ्कुम माणिक्यादिरक्तेषु घटादिरतापेक्षया अनुभूयमानरक्ततारतम्यस्य नानुपपत्तिः विजातीयाग्निसं- योगस्यैव रक्तादिजनकत्वात् कुत्रचिदेव रक्ततराद्युत्पत्तिः न सर्वत्रेति नियमोपपत्तिश्चात एव पुनरप्यन्यस्मा- दग्निसंयोगादिति भाष्यमपि सङ्गच्छत इति विश्वनाथपञ्चाननस्याशयः । केचितु वस्तुतो रक्ततारतम्यस्य पू वरूपविशेषध्वंसविशेषसहकृतत्वात भाष्यस्थ द्वयणुकनाशाग्निसंयोगापेक्षयान्यपरत्वादुत्पादकविनाशकयोर- ग्निसंयोग योरेकत्वानेकत्वे अनियते एवंति बोध्यमित्याहुः । तदसत् रकतारतम्यस्य पूर्वरूपविशेषध्वंससहकृत- त्वं न संभवति घटाधारम्भकपरमाणुषु तेजस्संयोगाधानाने करक्तध्वंसानन्तरोत्पन्नेऽपि रक्तरूपे तारतम्यस्य तादशपरमाण्वारब्धघटादिरूपे तारतम्यस्य चादर्शनाभावात् द्वघणुकनाशकाग्निसंयोगस्य श्यामादिनाशं प्रत्येव हेतुत्वस्य निर कृतत्वेन तदास रक्तादिहेतुत्वस्य सुतरामप्रसत्तया पुनरप्यग्न्यन्तरसंयोगादिति भाष्यस्य द्वय- णुकनाशकाग्निसंयोगापेक्षया अन्याग्निसंयोगपरत्वासंभवाच्च । यच्चोक्तमुत्पादकविनाशकयोरग्निसंयोगयोरेक- त्वानेकत्वे अनियते एवेति तदप्यसतं कदाचिदुत्पादकनाशकाग्निसंयोगयोः भिन्नत्वं कदाचिदभि- बत्वमित्यायातम् । तथा सत्युत्पादकतावच्छेदकनाशकतावच्छेदकजात्योः साङ्कर्यापत्तरिति । वस्तुतस्तु नाश. कतावच्छेदकोत्पादकतावच्छेद कजात्रोविरुद्धत्वमेव परन्तु अग्निसंयोगनिष्ठर कोत्पादकतावच्छेदकवैजात्य. व्याप्यमेव रक्ततराद्युत्पादकतावच्छेदकवैजात्ययं तादृशवैजात्ययोः पृथिवीत्वव्याप्यघटत्वपटत्वयोरिव वि- रुद्धत्वमेवेति प्रतिभाति । अन्ये तु द्वयणुकनाशानन्तरं पुनरुत्पन्नथणुकस्य द्वयणुकनाशक्षणप्रभृति पञ्चम- षष्ठसप्तमाप्टमक्षणेषु रूपादिमत्त्वं वदन्ति तन्मतोपन्यसायादौ हेतुं प्रदर्शयति ॥ परमाण्वन्तर इति ॥ द्वयणुकनाशककर्मवरपरमाणुभिन्नोत्पत्स्यमानद्वयणु कारम्भकपरमाणावित्यर्थः ॥ कर्मचिन्तनादिति ॥ उ. दिनकरीयम् . संयोगत्वं तदेव यगुत्पादकतावच्छेदकं तदा कार्यतावच्छेदकमपि सामान्यतः पृथिवीपरमाणुरूपत्वं स्वया वाच्यं तथा सति कचिद्रक्ततरता क्वचिच रक्ततमता परमाणो न स्यात् कार्यवैचित्र्यस्य कारणतावच्छेदक भेदाधीनत्वादिति । सिन्दूरादौ रक्ततारतम्यस्यानुभविकतया तत्परमाणुषु वस्यावश्यंभावादिति भावः । इदं च पूर्वरूप नाशकाग्निसंयोगमात्रस्योत्तररूपहेतुत्वमित्यभिप्रायेण पुनरभ्यस्मादग्निसंयोगादिति भाष्यानुरोधेन चोक्तम् । वस्तुतो रकतारतम्यस्य पूर्वरूपविशेषध्वंसकृतत्वाद्भाष्यस्य द्वयणुकनाशकाग्निसंयोगापेक्षयान्य. परत्वादुत्पादकविनाशकयोराग्निसंयोगयोरेकरवानेकत्वेऽनियम एवेति ध्येयम् ॥ परमाण्वन्तर इति । घणु- कनाशकक्रियावत्परमाणुभिन्नव्यणुकान्तरारम्भकपरमाणा वित्यर्थः ॥ कर्मचिन्तनादिति ॥ घणुकारम्भ-