पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ६८५ प्रभा. मणो नाशः ४ ततोऽदृष्ट्वदात्मसंयोगाहव्यारम्भानुगुणा क्रिया ५ ततो विभागः ६ त. तश्च पूर्वसंयोगनाशः ७ तत आरम्भकसंयोगः ८ ततो द्व-यणुकोत्पत्तिः ९ ततो रक्तोत्प- त्तिः १० ॥ अथैकादशक्षणा वह्निसंयोगात् परमाणौ कर्म । ततो विभागः । ततो द्रव्यारम्भकसं- योगनाशः। ततो द्वयणुकनाशः १ ततो द्वयणुकनाशविशिष्टं कालमपेक्ष्य विभागजविभाग- श्यामनाशौ २ ततः पूर्वसंयोगनाशरक्तोत्पत्ती ३ तत उत्तरदेशसंयोगः ४ ततो वह्नि- नोदनजन्यः परमाणौ कर्मणो नाशः५ ततोऽदृष्टवदात्मसंयोगाहव्यारम्भानुगुणा क्रिया ६ ततो विभागः ७ ततः पूर्वसंयोगनाशः ८ ततो द्रव्यारम्भकोत्तरसंयोगः ९ ततो द्वयणुकोत्प- त्तिः १० ततो रक्ताद्युत्पत्ति: ११ ॥ मध्यमशब्दवदेकस्मादग्निसंयोगान्न रूपनाशोत्पादौ ता- परमाण्वाकाशसंयोगनाशाधीनपरमाण्वकाशसंयोगान्तरं चेत्यर्थः ॥ वह्निनोदनजन्यपरमाणुकर्मणो नाश इति ॥ कर्मणः स्वजन्योत्तरसंयोगनाश्यत्वादिति भावः । अत्र वहिपरमाणुसंयोगस्य नोदनत्वकथनं परमाणुक्रियायाः तादृशसंयोगजन्यत्वकथनं च स्वरूपकीर्तनमात्रमिति ध्येयम् ॥ अदृष्टचदात्मसंयोगा- दिति । तादृशसंयोगसहकृतपरमात्रग्निसंयोगात् अदृष्टसहकृतपरमाण्वग्नि संयोगाद्वेत्यर्थः । द्रव्यारम्भानु- गुणक्रियेति ॥ द्वघशुकासमबायिकारणपरमाणुद्वयसंयोगासमवायिकारणक्रियेत्यर्थः ॥ एकादशक्षणेति॥ द्वयणुकनाशक्षणप्रभृत्युत्पत्स्यमानद्वयणुकस्य एकादशक्षणे र कादिमत्त्वोपपादनमित्यर्थः । क्रियते तथाहीति शेषः।। द्वयणुकनाशविशिष्टं कालमपेक्ष्येति ॥ द्वयणुकनाशोत्पत्त्यधिकरणक्षणाव्यवहितोत्तरक्षण इत्यर्थः ॥ वि. भागजविभागश्यामनाशाविति॥परमाणुद्वयविभागजन्यपरमावाकाशविभागः श्यामादिनाशश्वेत्यर्थः । तथाच द्रव्यनाशद्वारैव कारणमात्रविभागस्य कारणाकारणविभागं प्रति हेतृत्वमिति नवीन कदेशिमते द्वयणुकना- शानन्तरमेव परमावाकाशविभागसंभवात् द्वयणुकनाशक्षण एव परमाण्वोरवयाविनावष्टब्धत्वेन तदैव तत्र वि- जातीयतेजस्संयोगोत्पत्या तदुत्तरक्षण एवं तत्र श्यामादिनाशसंभवादिति भावः ॥ पूर्वसंयोगनाशर- तोत्पत्ती इति ॥ रक्तायुत्पत्ती इत्यर्थः । पूर्व परमात्राकाशसंयोगनाशकपरमाण्वाकाशविभागस्य रक्ताद्यु. स्पत्तौ प्रतिबन्धकाभावविधया कारणीभूतश्यामाद्यभावस्य च सत्त्वादिति भावः ॥ उत्तरदेशसंयोग इ. ति ॥ पुनराकाशादिना परमाणुसंयोग इत्यर्थः । पूर्वक्षणे सयोगप्रतिबन्धक संयोगस्य नाशादिति भावः ॥ कर्मणो नाश इति ॥ कर्मणः स्वप्रयोज्योत्तरसंयोगनाश्यत्वादिति भावः । अत्र द्वयणुकनाशकाग्निसंयोगस्यैव श्यामादिनाशकत्वं रक्ताद्युत्पादकत्वं चास्त्विति शङ्का श्यामादिनाशकाग्निसंयोगस्य रक्काद्युत्पादकत्वमप्यस्त्विति शङ्कां च क्रमेण निरस्यति ॥ मध्यमशब्दवदिति ॥ यद्यपि मध्यमशब्दस्य स्वजनकशब्दनाशकत्वं स्वस जाती- यशब्दोत्पादकत्वं च साधारणधर्मः अग्निसंयोगस्य नैतादृशसाधारणधर्मस्तिष्ठतीति मध्य मशब्दवादति दृष्टान्तक- धनमसङ्गतं तथापि केवलोत्पादकत्वनाशकत्वोभयवत्त्वरूपासाधारणधर्ममादायैव प्रथमशङ्कास्थले स्वनाशकत्व. स्वसजातीयोत्पादकत्वोभयवस्वरूपासाधारणधर्ममादाय द्वितीयशङ्कास्थले च मध्यमशब्दस्य दृष्टान्तत्वोपन्यास इति हृदयम् ॥ एकस्मादग्निसंयोगादिति ॥ द्वथणुकनाशकाग्निसंयोगाच्छ्यामादिनाशकाग्निसंयोगाचेत्य- र्थः ॥ रूपनाशोत्पादाविति ॥ श्यामादिनाशर काग्रुत्पादावित्यर्थः । श्यामनाशः रक्ताद्युत्पत्तिश्चेति या- बत् । नेति पूर्वेणान्वयः । व्यतिरेकदृष्टान्तः तथाच मध्यमशब्दस्य यथा नाशकत्वमुत्पादकत्वं च संभव- ति तथा एकस्यैव तेजसंयोगस्य द्वयणुकनाशकत्वं श्यामादिनिवृत्तिपूर्वकरक्ताद्युत्पादकत्वं च न संभवति ए. दिनकरीयम् . क्रियानुत्पत्तिरिति भावः । एत्रमप्रेऽपि । अत्र य एवामिसंयोगो घणुकनाशकः स एव श्यामनाशे रौत्पादे च हेतुरिति केषाश्चिन्मतं पुनरग्न्यन्तरसंयोगादिति भाष्यविरुद्धं नादरणीयामित्यभिप्रेत्याह ॥ मध्यमशब्द- वदिति ॥ एकस्मादिति ॥ द्वथणुकनाशकादेकस्मादित्यर्थः । यथा मध्यमशब्दात पूर्वशब्दनाशोत्तरश-