पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । पूर्वसंयोगनाश: ६ तत आरम्भकसंयोग: ७ ततो द्वयणुकोत्पत्तिः ८ ततो रूपागुत्पत्तिः ९ इति नवक्षणा । ननु श्यामादिनाशक्षणे रक्तोत्पत्तिक्षणे वा परमाणो द्रव्याग्म्भानुगुणा क्रियास्त्वि- ति चेन्न अग्निसंयुक्ते परमाणौ यत्कर्म तद्विनाशमन्तरेण गुणोत्पत्तिमन्तरेण च तत्र परमाणौ क्रियान्तराभावात् कर्मवति कर्मान्तरानुत्पत्तेः निर्गुणे द्रव्ये द्रव्यारम्भानुगुणक्रियानुत्पत्तेश्च प्रभा. ति तादात्म्य संवन्धेन रूपादिचतुष्टयान्यतमविशिष्टस्य स्पर्शविशिष्टस्य वा कारणतया परमाणौ रक्ताद्युत्पत्त्यनन्तरं तादृशसमवाथिकारणसत्वादेति भावः। नन्वारम्भक संयोगनाशक्षणे प्रतिबन्धकस्य विनश्यवस्थापन कर्मणस्स- स्वात् तदानी परमाणो क्रियान्तरोत्पत्त्यसंभवेऽपि श्यामादिनाशक्षणे कर्मणो वर्तमानत या प्रतिबन्धकाभावेन त- दानी तल कोत्पत्तौ बाधकामात्र इत्याशयेनाक्षिपति।नन्वित्यादिनाअग्निसंयुक्त इति ॥अग्न्यन्तर संयुक्त इत्यर्थः । एतेन श्यामादिनाशकर काद्युत्पादकविजातीयतेजस्संयोगसत्त्वमाविष्कृतस् । तद्विनाशमन्तरेणेति गुकानाशोत्पत्तिक्षणोत्पत्तिकोत्तरसंयोगासमनायिकारणाकयानाशं विनेत्यर्थः । तथाच श्यामादिनाशक्षण एवं कर्मणी नाशसंभवेन तत्पूर्वक्षणावच्छेदेन परमाणौ क्रियात्वावच्छिन्न प्रतियोगिताकामावस्यासत्त्वात् कारणस्य का.' यपूर्ववृत्तित्वनियमान श्यामादिनाशक्षणे तत्र क्रियान्तरोत्पत्तिसंभव इति भावः । ररकाद्यत्पत्तिक्षणे क्रियान्तरोत्पत्ति वारयति ॥ गुणोत्पत्तिमन्तरेण चेति ॥ रूपादिचतुष्टयान्यतमोत्पत्ति विना चेत्यर्थः । चकारस्तु उक्तस- मुञ्चायकः ॥ तत्र परमाणाविति ॥ विजातीयाग्निसंयोगविशिष्टपरमाणावित्यर्थः ॥ क्रियान्तराभावा. दिति ॥ घणु कारम्भानुगुणांकयोत्पत्त्यसंभवादित्यर्थः । ननु यामादिनाशपूर्वक्षणावच्छेदेन परमाणौ तादृश- क्रियामावस्यासत्येऽपि क्रियान्तरोत्पत्तौ कि बाधकमतो बाधकमाह ॥ कर्मवतीति ॥ तथाच समवायेन कियां प्रति कियावावच्छिन्नाभावस्य समवायेन हेतुतया श्यामादिनाशक्षणपूर्वक्षणे परमाणौ क्रियासत्त्वेन कर्मणो दैशिकव्याप्यवृत्तितया तादृशकियात्वावच्छिन्नाभावरूप कारणाभावान्न श्यामादिनाशक्षणे तादृशान्यो- स्पत्त्यापत्तिरिति भावः । ननु श्यामादिनाशक्षणे एरमाणोः रूपादिचतुष्टयान्य तमाभावविशिष्टरवेऽपि तन र का- द्युत्पत्तिक्षणे द्रव्यारम्भानुगुणकियोत्पत्तौ कि बाधकमतो वाधकमाह ॥ निर्गुणे द्रव्य इति ॥ रूपादिचतुष्ट. यान्यतमाभावविशिष्टे द्रव्य इत्यर्थः । यथाश्रुने परमाणौ श्यामा दिनाशक्षणेऽप्येकत्वादिगुणसत्त्वादसाङ्गल्यापत्तेः ।। दव्यारम्भानुगुणक्रियानुत्पत्तेश्चेति ।। ड्यणुकासमवायिकारणसंयोगास मवायि कारण कियोत्पत्त्यसंभवा. दित्यर्थः । चकारश्वोक्त समुच्चायकः । तथाच पृथिव्यादि चतुष्टयपरमाणुष्वेव तादशक्रियोत्पत्त्या मनसि ता. दृशकियानुत्पत्त्या च अन्वय व्यतिरकाभ्यां तादृश क्रियां प्रति रूपादिवतुष्टयान्यतमविशिष्टद्रव्यस्य तादात्म्य - संबन्धेन हेतुत्वमावश्य कमिति न रक्तायुत्पत्तिकाले तादशक्रियोत्पत्त्यापत्तिरिति भावः । अत्र क्रियाविशेष प्रति निरुतान्यतमविशिष्टस्य तादात्म्येन हेतुत्वेऽपि घटादिरूपचरमावयविनि तादृशक्रियानुत्पत्या समवा- येन तादृशक्रियां प्रति व्यानारम्भकद्रव्यस्थ प्रतिबन्धकत्वावश्यकतया तेनैव मनस्यपि तादृश क्रियोत्पत्त्याप- तिवारणे निरुक्तकार्यकारणभावे मानाभावात् । रक्काद्युत्पत्तिक्षणे तत्र तादृशक्रियोत्पत्तौ बाधकाभावेन का- दिनकरीयम्. परमाणुगतरूपनाशं प्रति घणुकात्मकद्रव्यस्य प्रतिबन्धकतया तत्पूर्व श्यामनाशासम्भवादिति भावः ॥ द्र- व्यारम्भकेति ॥ घणुकारम्भकेत्यर्थः ॥ आरम्भकेति ॥ घणुकारम्भकेत्यर्थः । तद्विनाशमन्तरेणे. ति ॥ ध्यणुकनाशोत्पत्तिक्षणोत्पत्तिकोत्तरसंयोगन श्यामनाशक्षण एवं पूर्व क्रियानाश इति भावः ॥ परमाणों क्रियान्तराभावादिति ॥ तस्मिन् पराणी क्रियान्तराभावादित्यर्थः । अन्न हेतुगाह ॥ कवति ॥ कर्मवति कर्मान्तरानुदयेन कोत्पत्तौ कर्मणः प्रतिबन्धकस्यकल्पनादिति वा । गुणोत्पत्तिमन्तरण को- नुत्पत्ती हेतुमाह ॥ निर्गुण इति ॥ कारणमात्रविसमस्य कारणाकारणार,भाजनकलाभावपक्ष एवं परमा. वन्तरे कर्मचिन्तनं विनैव प्रन्थान्तरेऽष्टक्षमा क्रियोक्ता सा च निर्गुणे द्रव्यारम्भानुगुणक्रियायत्तौ पाधकाभावेन रक्कोत्पत्तिक्षण एव द्रव्यारम्भानुगुणक्रियोत्पत्तिः सम्भवतीत्यभिप्रायेण समर्थनीया ॥ -