पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [ गुणखण्डः कति हि वैशेषिकसूत्र स्वोत्तरोत्पन्नभावानपेक्षत्वं तस्यार्थः अन्यथा कर्मणाप्युत्तरसंयोगो-- त्पत्तौ पूर्वमयोगनाशापेक्षणादव्याप्तिः स्यात् नत्र यदि द्रव्याम्भक संयोगविनाशविशिष्टं का- लमपेक्ष्य विभागजविभागः स्यात् तदा दशक्षणा । अथ द्रव्यनाशविशिष्टं कालमपेक्ष्य वि- भागजविभागः स्य त् तदेकादशक्षणा। तथा हि अव नवक्षणा । अग्निसंयोगात् परमाणौ कर्म। ततः परमाण्वन्तरेण विभागः। तत आरम्भकसंयोगनाशः। ततो द्वधणुकनाशः १ ततः परमाणी श्यानादिनाशः २ ततो रक्ता द्युत्पत्ति: ३ ततो द्रव्यारम्भानुगुणा क्रिया ४ ततो विभाग: ५ ततः - प्रभा. स्वं परित्यज्य गुरुभूततादृशजनकताद्वयघटित कलक्षणपरत्ववर्णनं एकैकतादृशजनकरवरूपलक्षणद्वयस्य दुष्टस्वप्रकारकस्वीयभ्रान्तिमूलकमेवेति प्रतिभाति ॥ तत्रेति ॥ किचिसापक्षविभागस्य विभाग- जनकत्वपक्ष इत्यर्थः ॥ द्रव्यारम्भकसंयोगनाश विशिष्टकालमपेक्ष्येति ॥ परमाणुद्वयसंयोगना- शोत्पत्त्यधिकरणक्षणाव्यवहितो तरक्षण इत्यर्थः ॥ विभागजविभागः स्यादिति ॥परमात्राकाशविभा- गो यदि स्वीक्रियत इत्यर्थः । इदन्तु कन्दळ कारमतमाश्रित्य तन्मते कारणाकारणविभागं प्रति आरम्भक- संयोगस्य प्रतिबन्धकत या कारणमात्र विभागस्यारम्भकसंयोगनाशद्वारैव हेतुत्वादिति भावः । द्रव्यना- शविशिष्ट कालमपेक्ष्येति ॥ घणुकनाशोत्पत्त्यधिकरणक्षणाव्यवहितोत्तरक्षण इत्यर्थः । एतस्य विभाग. जविभागस्स्यादित्यनुपशेणान्वयः । इदंच नानकदेशिमतमाश्रित्य तन्मते कारणाकारणविभाग प्रति द्रव्य- स्य प्रतिबन्धकतया तदभावस्य हेतुत्वेन परमाणुद्वयविभागस्य अणुकनाशद्वारैव परमाण्वाकाशविभागं प्रति हेतुत्वादिति भावः । इदानी यणकनाशोत्पत्तिक्षणप्रभात नवदशैकादशक्षणेपु अव्यवहितपूर्वक्षणोत्पन्नध्यणुके रूपादिमत्त्वं क्रमेणोपपादयति ॥ तथाहीत्यादिना ॥ अग्निसंयोगादिति ॥ अग्निप्रतियोगिकपरमाणु. समतेतविजातीय तेजःसंयोगादित्यर्थः ॥ परमाणो कर्मेति ॥ द्वषणु कारम्भक परमाणुसमवेतपरमाणुदयवि- भागोपधायकक्रियेत्यर्थः । परमाणु समवेतविलक्षणाकयां प्रात विजानीयतेजस्योगस्य हेतुत्वादिति भावः ॥ परमाण्वन्तरेऐति ॥ द्वयणुकारम्भकपरमाण्वन्तरेणेत्यर्थः । व्यणुकारम्भकपरमाणुद्वयसमवेतविभाग इति यावत् ॥ आरम्भकसंयोगनाश इति ॥ द्यणुकासमवायि कारणसंयोगनाश इत्यर्थः ।। दुशणुकनाश इति असमवायि कार.णनाशस्य द्रव्य नाशे हेतुत्वदिति भावः ॥ परमाणी यामादिनाश इति । अग्न्यन्तर संयोग- जन्य परमाणुसमवेतश्यामादिनाश इत्यर्थः । द्वयणुकनाशकाग्निसंयोग र द्वयणुकनाशसमय एव नाशादिति भावः एतत्तत्वं एकस्मादक्षिसंयोगान्न रूपनाशोत्पादावित्तिग्रन्शव्याभ्यानाच सरे स्फुटतरमुण पादयिष्यामः । नचारम्भ कसंयोगनाशकाले द्वथणुकनाशकाले वा परमाणौ श्यामादिनाशोऽस्तु द्रवणुकनाशपूर्व पूर्वग्निसंयोगसत्त्वादिति वाच्य द्वयणुकेनावष्टब्धत्वेन रूपादिनाशासंभवादिति भाव : ॥ रक्कोत्पत्तिरिति । श्यामादिनाशकाग्निसंयोगा- दन्यस्मादग्निसंयोगाद्वा रक्ताद्युत्पत्तिरित्यर्थः । ततो द्रव्यारम्भानुगुणक्रियेति॥ द्रव्यारम्भानुगुणक्रिया प्र दिनकरीयम्. तत् पूर्वदेशविभागस्तु नोत्तरदेशसंयोगे कारएं व्यवहाराभावेनान्यथासिद्धेः संयोगस्य विभागं प्रति कार- णत्वाभावादेव नासमवाचिकारणत्वमिति न तत्रातिव्याप्तिः इत्थं च कारणमात्रविभागस्य पूर्वसंयोगनाशं द्र. व्यनारं वानपेक्ष्य कारणाकारणविभागजनकत्वेऽपि नातिव्याप्तिः तस्य विभाग जनकत्वेऽपि संयोगविभागो. भयजनकत्वाभावादिति ध्येयम् ॥ द्रव्यारम्भकसंयोगविनाशविशिष्टं कालमपेक्ष्येति ॥ द्रव्यार- म्भकर्मयोगनाशोत्पत्यधिकरणक्षणोत्तरक्षण इत्यर्थः । कारणता तु द्रव्यारम्भकसंयोगनाशत्वेनैव लाघवादिति ध्येयम् । एवमग्रेऽपि नवदशैका दशक्षणाः प्रक्रिया: क्रमेणोपपादयति ॥ तथा हील्यादिना ॥ परमाणी कर्म द्वयणुकारम्भकपरमाण्बोर्मध्ये एकस्मिन् परमाणौ कर्म ॥ परमाण्वन्तरेण द्वयणुकारम्भकप.. रमाण्वन्तरेण । आरम्भकेति ॥ द्वयणुकारम्भकेत्यर्थः ॥ ततः परमाणी श्यामादिनाश इति ॥