पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड न तावन्नीरूपोऽप्रत्यक्षत्वप्रसङ्गान् । नापि व्याप्यवृत्तिनीलादिरूपमुत्पदाते पीतावच्छेदेनापि नीलोपलब्धिप्रसङ्गात् । नाप्यव्याप्यवृत्तिनीलादिकमुत्पद्यते व्याप्यवृत्तिजातीयगुणानामव्याप्य. वृत्तित्वे विरोधात् | तस्मान्नानाजातीय रूपैरवयविनि विजातीयं चित्रं रूपमारभ्यते । अत एवै- कं चित्ररूपमित्यनुभवोऽपि नानारूपकल्पने गौरवात् । इत्थं च नीलादीनां पीता बारम्भे प्रति- प्रभा. शुक्राचन्यतमभिन्नं कथमित्यर्थः ॥ अव्याप्यवृत्तिनीलादिसमुदायस्यैव नवीनमते कर्बुरशब्दवाच्यत्वादिति भावः ॥ इत्थमिति ।। वक्ष्यमाणप्रकारेणातिरिकं भवतीत्यर्थः । अतिरिक्तत्वसाधकप्रमाण माह ।। नीलपी. तादीति ॥ नीलपीतरक्ततन्त्वाधारब्धपटादिरित्यर्थः ॥ न तावनीरूप इनि | तावदिति वाक्याल कारे । न रूपवद्भिन इत्यर्थः ॥ अप्रत्यक्षत्वप्रसंगादिति ॥ द्रव्यवृत्तिलौकिकविषयतासंबन्धेन चाक्षु प्रति समवायेन उद्धृतरूपस्य हेतुत्वादिति भावः ॥ व्यापयत्तिनीलादिरूपमिति ॥ तन्तुषु यावन्ति रूपाणि तत्तद्रूयासमवायिकार गकतत्तद्रूपस जातीयव्याप्यवृत्तिनीलादिसमुदाय उत्पद्यत इत्यर्थः ॥ पी. तावच्छेदनापीति ॥ अपिना हरिताद्यवच्छेदेनापि समुत्रायते । तथाच यावदवयवावच्छेदेनेत्यर्थलाभः । यावदवयवाचच्छेद्यतां व्याप्य वृतित्वमेवेति भावः ॥ नीलोपलब्धिप्रसङ्गादिति ॥ नीलाद्येकैकात्यैवोपल- ब्धिप्रसङ्गादित्यर्थः । तथाच नीलादाप्यवृत्तितया नानारूपयदव पवारबपटे एकरूपव्य फेरेबोत्पत्तिसंभवन एकरूपस्यैव प्रत्यक्षं स्यात् नान्यरूपस्थति त्वत्पक्षे परस्परांविधेिनानुभवविरोधः । व्याप्यवृत्तित्वपक्षे परस्प- रविरोधेन नीलादीनामुत्पत्तरेवासंभवन चित्रः पट इति प्रत्यक्षानुपपत्तिश्चेति भावः ॥ अव्याप्यवृत्तिनी. लादिकमिति ॥ दैशिकाव्याप्यवृत्तिनीलादिकमित्यर्थः । तथाचैतपक्षेऽवयवेषु यावन्ति रूपाणि तत्तद्रूपा. समाथि कारणकत तयाणां अवयविनि विरोधाभावेन उत्पत्तिसंभवात् न प्रत्यक्षत्वानुपपत्तिरिति भावः । व्याप्यवृत्तिसजातीयति ॥ व्याप्यवृत्तिवृत्तिसविषयावृत्ति जातिमतामित्यर्थः । गुणत्वमपि न निवेशनी. यं प्रयोजनाभावात् । जातौ सविषयावृत्तिवाविशेषणात् तादृशेश्वरज्ञानादिखजातीयास्मदादिज्ञानादेव्या- प्यत्तित्वेऽपि न क्षतिः ॥ विगंधादिति ॥ एकत्र वर्तमान त्यासंभवादित्यर्थः । तथाच परमाणुसमवे. तनीलादिव्यक्ताप्यवृत्तितया पटादिसमवेतनीलादेः तत्सजातीयत्वेन न तेषामव्याप्यवृत्तित्वं तयोविरो- धादिति भावः ॥ तस्मादिति ॥ अव्याप्यवृत्तिनीलादरेकत्रै कदा वृत्तित्वासंभवात् नीलादीनामव्याप्यवृत्ति स्वासंभवाचत्यर्थः ॥ नानाजातीयरूपैरिति || अवयवसमवेतनीलादिरूपरित्यर्थः ॥ विजातीयगि- ति ॥ नवीन मतसिद्धरूपविभाजकधमान्यतमभिन्नरूपविभाजकजात्यवच्छिन्नमित्यर्थः ॥ आरभ्यत इति ॥ उत्पद्यत इत्यर्थः ॥ अत एवेति ॥ उभयमतसिद्धनीलाद्यपक्षया अतिरिक्तरूपस्वीकारादेवत्यर्थः ॥ अनु- भव इति ॥ उपपद्यत इति शेषः । अतिरिक्तरूपानगीकारे नीलादीनां बहुत्वात् एकत्व प्रकारकानुभवों न स्यादिति भावः । ननु वृक्षाणां बहुत्वेऽपि समुदायगतमेकत्वमादाय एक वनामिति प्रतीतिवत् नीलादीनां बहुत्वेऽपि एक चित्रमिति प्रतीतौ न किमपि वाधकमित्यत आह ॥ नानारूपेति ॥ नीलादिरूपेष्वनेकेषु चित्रमिति प्रतीतिविषयतास्वीकारे गौरवादित्यर्थः । नन्वेवं सति समवायेन नीलादिकं प्रति समवायघधि- तसामानाधिकरण्यसंबन्धन नीलादेः कारणत्वस्योभयसिद्धतथा तहलानानारूपच दवयवारब्धावय विन्यपि नीलाशुत्पत्तिवारणाय एतन्मते समवायेन नीलादिकं प्रति समवायघटितसामानाधिकरण्यसंबन्धेन नीलान्य- दिनकरीयम् . पिरसस्पर्शलक्षणेऽप्येषा रीतिर्वोध्येत्यर्थः । अप्रत्यक्षत्वप्रसङ्गादिति ॥ द्रव्यचाक्षुषं प्रति समवायसम्बन्धे. नोद्भूतरूपस्य हेतुत्वादिति भावः ॥ व्याप्यवृत्तिजातीयेति ॥ व्याप्यवृत्तिवृत्तिमातिश्च सविषयावृत्ति - ध्या तेन व्याप्यवृत्तीश्वरज्ञानजातीयस्यास्मदादिक्षानस्याव्या मतित्वेऽपि न क्षतिः । ननु वृक्षाणां यहुत्वेऽ. प्येकं वनमितिवद्वपसमुदायगतमेकत्वमादायक चित्रमित्यनुभवोपपत्तिरत आह ॥ नानेति ॥ गौरवादि. ति ॥ चित्रीमति प्रतीतिविषयतया अनेकत्र कल्पने गौरवादित्यर्थः । ननु चित्ररूपाधिकरणे घटादौ स्वा.