पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली प्रभा-दिनकरीयसमन्विता । पगुण इत्यर्थः। एक्मग्रेऽपि ।। द्रव्यादेरिति । उपलम्भकं उपलब्धिकारणम् । इदमेव विवृणो- ति ॥ चक्षुष इति ।। द्रव्यगुणकर्मसामान्यानां चाक्षुषप्रत्यक्षं प्रति उद्धृतरूपं कारणम् ।। शुक्लादिकमनेकधेति ॥ रूपं शुक्लनीलपीतरक्तकर्बुरादिभेदादनेकप्रकारकं भवति । ननु कथं कवुरमतिरिक्तं रूपं भवति । इत्थम् । नीलपीताद्यवयवारब्धोऽवयवी प्रभा. वच्छिन्न कारणताकज्ञाननिरूपितलौकिकविषय ताशून्यत्वरूपत्वं वाच्यम् । एवंव चक्षुह्यत्वस्व चक्षुर्जन्यज्ञा नविषयत्वरूपत्वे शब्दत्वस्यापि कालोपाधिविधया चक्षुर्जन्यश्रावणविषयत्वात् ज्ञानलक्षणया इयं वीणा सम्य. क् शब्दायतीति चाक्षुषविषयत्वाचातिव्याप्तिधारणाय चक्षुष्ट्वावच्छिन्नकारणताकज्ञाननिरूपितलौकिकविषयता- वत्त्वरूपत्वं वाच्यम् । एवंच स्पार्शनचाक्षुषयोः निरुक्तज्ञानत्वेर निवेशे गौरवात् स्पार्शनत्वचाक्षुषत्वाभ्यां नि वेशः कार्यः । तथाच स्पार्शनत्वावच्छिन्ननिरूपितलौकिकविषयताशून्य चाक्षुषत्वावच्छिन्ननिरूपितलौकिकवि षयताश्रयगुणवृत्तिजातिमत्त्वरूपलघुलक्षणं पर्यवसितं अतो न कश्चिद्दोष इति व्याचक्रः । अत्र चक्षुहामिति सावधारणयथाश्रुतमूलाच्चक्षुर्भिन्नाग्राह्यत्वचक्षुह्यत्वयोरेव लाभेन रूपत्वस्यापि चक्षुभिन्नभनसा ग्राह्यत्वात् अ. संभववारणाय निरुक्त दोषवारणाय च लाघवाय चाक्षुषत्वावच्छिन्नानिरूपितलौकिकदिषयताशून्यलौकिकविषय- ताश्रयगुणवृत्तिजातिमत्त्वं लघुलक्षुणं कार्य अतो न कोऽपि दोष इति प्रतिभाति ॥ एवमग्रेऽपीति ॥ स्पर्शलक्षणेऽपि रूपलक्षणोक्तरीत्या दोषप्रदर्शन तारणकारः लघुलक्षणपरिष्कारश्च ज्ञेय इत्यर्थः । द्रव्यादे- रुपलम्भकमिति मूलं रूपस्य प्रयोजनप्रदर्शनपरत या सङ्गमागितुं उपलम्भकपदार्थमाह ॥ उपलब्धिकारणमि. ति ॥ सहकारिकारणमित्यर्थः । रूपे उपलब्धिकरणत्याभावादिति भावः । ननु उपलब्धिकारणत्वं न जन्य- • ज्ञानसामान्य कारणत्वरूप अनुमित्यादावस्याकारणत्वात् । नापि जन्यप्रत्यक्षकारणत्वं तत् मानसे तस्याहेतु. स्वात् । नवा मानसत्वावच्छिन्नानिरूपितहव्यत्तिलौकिकविषयताशा लप्रायक्षकारणत्वरूप तत् प्राचा मते रूप तत्संभवेऽपि नवीनमते तदसंभवात् इत्याशङ्कां तस्य नवीनमतसिद्धचाक्षुषकारणत्वप्रदर्शनेन परिहतु चक्षुषः सहकारी स्यादिति मूलात्तलाभाय तन्मूलमवतारयति ॥ इदमेवेति ॥ नवीनमतसिद्ध चाक्षुषकारणत्वमेवेत्य - त्यर्थः ॥ विवृणोतीति ॥ स्पष्टं बोधयतीत्यर्थः । चक्षुनस्सहकारी स्यादिति मूलेन चक्षुःकरणकज्ञानमात्रे रूप कारणमिति लभ्यते तत्र चक्षुःकरणकं ज्ञानं किंविषयकं किंधावच्छिन्नमिति शिष्याजिज्ञासानिवृत्त्यर्थ फलिता- र्थमाह ॥ द्रव्यगुणेत्यादि ॥ चाक्षुषप्रत्यक्षं प्रतीति ॥ चाक्षुषत्वादच्छिन्नं प्रतीत्यर्थः । चाक्षुषत्वं प्रत्य- क्षत्वव्याप्यमिति स्फुटप्रतिपत्त्यर्थ चाक्षुषप्रत्यक्षं प्रतीत्युक्तं नतु प्रत्यक्षत्वस्यापि कार्यतावच्छेदककोटिप्रवे. शस्तदनुमतः व्यर्थत्वात् ॥ उद्धृतरूपमिति ॥ रूपमात्रस्य हेतुत्वे चक्षुरादेः चाक्षुषापत्तेः अत उद्भूतत्व- विशेषणम् । अव प्राचीनमते चित्रमादाय रूपस्य सप्तविधत्वात् चित्ररूपानीकर्तृनवी नमते रूपस्य षड्वि- धत्वात् पक्षद्वयाभिमतविभायनोधनाग्राह ॥ मूले शुक्लादिकमिति ॥ अनेकधेति ॥ प्राचीनमते सप्तविधमिरार्थः । नवीनमते षड्डियमित्यर्थः । अनेकति मूलात् तन्मूलकर्तुः मतद्वयसिद्धविभागबोधना. भिप्राय उन्नीयते । अन्यथा भिन्नं शुक्लादि सप्तधेति मूलापत्तः । अत्र चित्ररूपस्य प्राचीनमानमताभिमत- त्वात् तत्साधनाय तम्मतसिद्धविभागमनुवदति । मुक्तावळ्यां तद्रूपमिति । उक्तलक्षणलक्षितरूपमि. त्यर्थः ॥ कर्बुरादिभेदादिति ॥ कर्बुरहरितकपिशभेदादित्यर्थः ॥ अनेकप्रकारकमिति ॥ सप्तप्र. कारान्यतमविशिष्टमित्यर्थः ॥ करमिति ॥ कर्बुरशब्दवाच्यमित्यर्थः ॥ कथमतिरिक्तमिति ॥ कृप्त- दिनकरीयम् . रुक्त्यम् ॥ विशेषगुण इति ॥ विलक्षणगुण इत्यर्थः । वैलक्षण्यं च चक्षुभिन्नाग्राह्यत्वम् । नच तथापि प्रभाभित्तिसंयोगेऽतिव्याप्तिरिति वाच्यं चक्षुर्मा ग्राह्यत्वस्य चक्षुर्मात्रगृहीतस्नेह विशेषेऽतिव्याप्त्यापत्या चक्षुर्मात्रग्राह्यत्वस्य जातिविशेषणत्वं स्वीकृत्य चक्षुर्मात्रग्राह्यजातिमगुणत्वविवक्षणत्यावश्यकतया तेनैव प्रभाभित्तिसंयोगेऽतिव्याप्तिवारणादिति । प्रभावमादाय प्रभायामतिव्याप्तिवारणाय गुणपदम् ॥ पवमग्रेड- -