पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकाक्ली जन्यत इति कल्यते । एवं सादृश्यमप्यतिरिक्त पदार्थः, तद्धि न पटसु भावप्वन्तर्भवति प्रभा. चकारो वार्थः। तथा च नाशकतावच्छेदकशक्त्यवच्छिन्नाभावेन वदी दाहजनकतावच्छेदिका शक्तिर्जन्यत इति भावः । अत्र उत्तेजनानां मण्यादिनिधनाशकतावच्छेदकशक्तिनाशकत्वं केन रूपेणेति विचारस्तु अप्रकृततथा अन्धविस्तरभिया च उपेक्ष्यत इति हृदयम् । नन्वेवं गत्या शक्तिसिद्धावपि तस्या: अतिरिक्तपदार्थविभाजक धर्मबस्वेऽपि किं मानमिति नेदित्यम् । शक्ति द्रव्यत्वादित्रिकान्यतमशुन्या गुणवृसिन्वात् गुणत्ववत । नच स्वरूपासिद्धिः, गुणस्यापि तन्मते शक्तिमत्वेनैव हेतुत्वात् । एवं शक्तिः सामान्यत्वादित्रिकान्यतमशून्या जन्यत्वात् घटादिवत् इत्युक्तानुमानद्वयेन द्रव्यत्वादिममवायत्वान्तपदाश्रीवभाजकषटकान्यतमशुन्यत्वसिद्धा शक्तिः कुप्तपदार्थविभाजकान्यतमभिन्नपदार्थविभाजकधर्मवती तादशपदार्धविभाजकान्यत्तमशून्यत्त्वे सति ज्ञेय- स्वात् यत्नेवन्तनै यथा द्रव्यम् इत्यादिपरिशेषानुमानेन शक्तेरतिरिक्तविभाजकधर्मवत्वे सिद्धे तादृशधमः भाच्छक्तित्वमेव भवतीनि भावः । तन्मते भावातिरिक्ताभावानजीकारात् अभावत्वस्य पदार्थविभाजकधर्म- त्वमेयः बाधितं । यदि परमते तादृशस्याभावस्यापि सिद्धत्वात्तच्छ्न्यत्वमपि माधनीयमित्युच्यते, तदा सामा. न्यत्वाद्यभावत्वान्तान्यनमशन्यत्वसाधकमेव जन्यत्वे सनि विनाशित्यादित्यनुमानं द्वितीय, तद्रीत्यैव परिशेषानु- मानमिति हृदयम् । उक्तरीत्या शक्ति नस्या: अतिरिक्तत्वञ्च प्रसाध्य साददयस्य पर्वमतमिद्धत्वात्तस्यातिरिक्त त्वमालं साधयति । एवमित्यादिना । अतिरिक्तः पदार्थ इनि ॥ द्रध्यत्वाच्यभावत्वान्तपदार्थविभाजक- मञ्जूषा. एवं शक्तरतिरिक्तपदार्थत्वमुक्त्वा सादृश्यत्याह-एवमिति ॥ न शाक्तिवत्सादृश्येऽप्यनुमानापेक्षा तस्य प्रत्यक्षसिद्धतात् । किं तु तस्यातिरिक्तपदार्थत्वेऽतस्तदेव साध्यतया निर्दिशनि-अतिरिक्त पदार्थ इति ॥ दिनकरीयम्. कल्प्यते इखनेनान्चयः । तथा च चह्निनिष्टशक्तित्वावच्छिन्नं प्रति मणिवेन नाशकत्वस्वीकारेण मण्यादि. सत्त्वदायां शरभाचादेव न दाह इति भावः । ननु मण्यादेयदि शक्तिनाशकत्वं तदा उत्तेजकविशिष्टे मण्या- दावपसारित वा दाहानापत्तिरियतआह । उत्तेजकेनेति ॥ मण्याचपसारणेन चेत्यत्र चकारो याकारार्थे । न च दाई प्रति मण्यभावत्वेन हेतुत्वकल्पनान्न मणिसमयधानकाले दाहापत्तिरिति वाच्यं, मण्यभाव-वेन रूपेण स्वतन्त्रतुताकल्पने गौरवात् विलक्षणाशक्तिमत्वेन वहे; कारणत्वकल्पनस्यैवोचितत्वादियभिमानात् । नन्वेवं शक्तिशिद्धावपि तस्या अतिरिक्तवासिद्धिरिति चेन्न उक्तपदाधवनन्तभूतत्वात् । तथाहि न तावत् द्रव्यात्मिक शक्तिः, गुणादिवृत्तित्वात् । अत एव न गुणात्मिका कात्मिका या । न च सामान्याद्यन्यतमरूपा, उत्पत्तिमत्त्वे सति विनाशित्वादिति ! एवमतिरिक्तां शक्ति प्रसाध्य सादृश्यस्याध्यतिरिक्तपदार्थतां व्यवस्थाप- यति । एवमित्यादिना ॥ अतिरिक्त इति ॥ क्लुप्तसप्तपदार्थातिरिक्त इत्यर्थः । पडभावानन्तर्भूतत्वे रामरुद्रीयम् . शक्तित्वेन वह्निनिष्टशक्तित्वेन वा शक्तेश्च दाई प्रति कारणत्वे गौरवाच्छक्तिविशिष्टवह्नित्वेनैव कारणत्वौचित्यात शक्तेः कारणत्वाभावादिति भावः । वस्तुतो मीमांसघटादिकं प्रति तत्तत्कारणेषु घटाद्यनुकूलां शक्ति कल्प. यित्वा तादृशविलक्षणशक्तिमत्त्वेनैव कारणत्वस्याङ्गीकाराद्दण्डचक्रादिभेदेनापि न कारणताबाहुल्यमियपि लाघ. वमेतन्मत इति मन्तव्यम् । वाकारार्थ इति ॥ उत्तेजकमण्यपसारणयोरेकसत्त्वेऽपि दाहोत्पत्त्या समुच्चितयो- दाहकार णत्वासंभवादिति भावः । न मणिसमवधानकाल इति ॥ मण्यभावस्य हेतुतयैव मणिसमवधा- नकाले दाहवारणसंभवानानन्तशक्त्यादिपदार्थकल्पनं युक्तमिति भावः । अभिमानादिति ॥ वस्तुतस्त्वनन्त- शतितत्प्रागभावध्वंसानो कल्पनामपेक्ष्य मण्यभावत्वेन कारणत्वान्तरकल्पन मेवोचितं करप्यस्यैकत्वेन लाघवा- दिति सूचयितुमुक्तमभिमानादिति। कृप्तपदार्थानन्तर्भूतत्वे मूलोक्तस्य षड्भावानन्तर्भूतत्वस्य न हेतुता संभवति अमावे व्यभिचारात् । नापि नाप्यभाव इत्यनेनोक्तस्याभावानान्तर्भूतत्वस्य, भावपदार्थ व्यभिचारादतो हेल- -