पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विती। ६५५ प्रभा. ति ॥ मूर्तेषु न वर्तन्त इत्यर्थः ।। उभयेषामिति ॥ मूर्तामूर्तगुणा इत्यर्थः ।। ८६ ।। ८७ ।। ८८ ।। संयोगश्च विभागश्च सङ्ख्या द्वित्वादिकास्तथा । द्विपृथक्त्वादयस्तद्वदेतेऽनेकाश्रिता गुणाः ॥ ८९ ॥ अनेकाश्रिता इति ॥ संयोगविभागद्वित्वादीनि द्विवृत्तीनि त्रिचतुष्ट्वादिकं त्रि- चतुरादिवृत्तीति बोध्यम् ।। ८९ ॥ गुणत्वं लक्षणे अतो नोक्कातिव्याप्तिरिति विभाव्यते तदा गौरवं अतो व्याचष्टे ॥ मुक्तावळ्यां मूर्तेषु न वर्तन्त इति ॥ तथाच अमूर्नगुणा इति मूलस्य सावधारणत्वस्वीकारात् उक्तार्थलाभ इति भावः । मूर्ता. वृत्तिगुणत्वं च मूर्तत्वसमानाधिकरणमहत्वान्यतरावृत्तिगुणवृत्तिजातिमत्त्वं स्वसमानाधिकरणमहत्त्वान्यतरस. मवेतत्वसंबन्धेन मूर्तत्वविशिष्टान्यगुणवृत्तिजातिमत्त्वं वा तेन गगनादिगतैकत्वादौ नातिव्याप्तिः । ननु सङ्ख्यादिश्च विभागान्त उभयेषां गुणो मत इति मूलेन सङ्ख्यादिपञ्चकान्यतमत्वावच्छिन्नस्योभय वृत्तिगुणत्वं लक्षणमिति लभ्यते तच्च न संभवति घटादिगतैकत्वादावव्याप्तेः । यदिचोभयवृत्तितावच्छेदकगुणविभाजक. धर्मवत्वमेवोभयवृत्तिगुणत्वमित्युच्यत इति विभाव्यते तदा रूपादीनां तादृशत्वेन तत्रातिव्याप्तिः अतः उभयपदार्थमाह ॥ मुक्तावळ्यां मूतामूर्तगुणा इत्यर्थ इति ॥ मूर्तामूर्तगुणत्वं च स्वसमाना. धिकरणसमवेतत्वस्वाभावसमानाधिकरणसमवेतत्वोभयसंबन्धेन मूतत्वविशिष्टवेगावृत्तिजातिमत्त्वं खवृत्ति- समवेतत्वसंवन्धेन कालविशिष्टरूपावृत्तिजातिमत्त्वं वा । तेन घटादिगतैकत्वादी गगनादिगतैकत्वादौ च नाव्याप्तिः ॥८६॥ ८७॥४८॥ मूले द्विपृथक्त्वादयस्तद्वदिति ॥ द्विस्वादय इव द्विपृथक्त्वादयोऽप्यनेकाश्रिता इत्यर्थः । नन्वेतेऽनेकाश्रिता गुणा इति मूलेन संयोगविभागद्वित्वद्विपृथक्त्वाद्यन्यतमत्वावच्छिन्नस्यानेकाश्रितत्वं लक्षण. मिति लभ्यते तदनुपपन्नमनेकपदस्य बहुत्वविशिष्टार्थकतया संयोगादेस्तद्वृत्तित्वाभावात् अव्याप्त्यापत्तेरतः अनेकाश्रितशब्दार्थमाह ।। मुक्कावळ्यां संयोगेति ॥ द्विवृत्तीनीति ॥ पदार्थद्वयवृत्तीनीत्यर्थः ॥ त्रि- चतुष्टादिकमिति ॥ त्रित्वचतुष्ट्वादिकमित्यर्थः ॥ त्रिचतुरादिवृत्तीति ॥ पदार्थत्रयादिवृत्तीत्यर्थः । बोध्यमिति ॥ अत इत्यादिः । केषांचित पदार्थद्वयवृत्तित्वात् केषांचित्पदार्थत्रयादिवृत्तित्वात् सर्वेषामने- काश्रितत्वलाभाय मूलस्थानेकपदस्यकत्वान्यसङ्खयावत्परत्वं वाच्यमित्यर्थः । तथाच नोक्ताव्याप्तिरिति भावः । दिनकरीयम्. मूलेनैतेषाममूर्तवृत्तिगुणत्वं साधयमुक्तम् तत्सङ्ख्यादायतिव्याप्तमत आह ॥ मूतविति ॥ मूर्ता. वृत्तिगुणस्वमेव तेषां साधयामेत्यर्थः । नच तथाप्यमूर्त मात्रवृत्तिसङ्ख्यादावतिव्याप्तिरिति वाच्यं मूर्तगुणव- तिसंस्कारवान्यगुणत्वव्याप्यजातिशून्यगुणत्वस्य मूर्तत्वाभावव्याप्यतावच्छेदकपरिमाणावृत्तिजातिमत्त्वस्य वा विवक्षितत्वात् । आये शून्यान्तेन सङ्ख्यादिरूपादिव्युदासः सत्तामादायासम्भववारणाय गुणत्वव्याप्यति । कर्मण्यतिव्याप्तिवारणाय विशेष्यीभूतगुणत्वस्य निवेशः । द्वितीये परममहत्त्वत्वजातिमादायातिव्याप्तिवारणाय परिमाणावृत्तीति । ननूभयेषां गुणा इति मूलेन सङ्ख्यादिपञ्चानामुभयवृत्तिगुणत्वं साधर्म्यमुक्तं तच्च रूपा- दावतिव्याप्तमत उभयपदं मूर्तामूर्तपरतथा व्याचष्टे ॥ मूर्तामूर्तेति ॥ नच मूर्तमात्रवृत्तिसङ्ख्यादावव्या- प्तमिति वाच्यं कालवृत्तिवृत्तिगुणत्वव्याप्यजातिमत्त्वस्य द्रव्यत्वसमव्यापकतावच्छेदकजातिमत्त्वस्य वा वि. वक्षितत्वात् ॥८६॥ ८७ ॥ ८ ॥ नन्वनेकाश्रितत्वं संयोगादावब्याप्तमनेकपदस्य बहुत्वविशिष्टे शतवादत आह ॥ संयोगेति ॥ तथा चैकत्व भिन्नसङ्खयाविशिष्टवाचकत्वमनेकपदस्येति न तत्राब्याप्तिरिति भावः । स्वाश्रयप्रतियोगिकान्यो- न्याभावसमानाधिकरणगुणत्वस्य विवक्षितत्वान्न तत्राव्याप्तिरित्यपि केचित् ॥ ८ ॥