पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४४ कारिकावली [शब्दखण्ड नच तात्पर्यग्राहकाणां प्रकरणादीनां शाब्दबोधे कारणत्वमस्त्विति वाच्यम् । तेषा- मननुगमात् । तात्पर्यज्ञानजनकत्वेन तेषामनुगमे तु तात्पर्यज्ञानमेव लाघवात् कारणमस्तु । इत्थञ्च वेदस्थलेऽपि तात्पर्य ज्ञानार्थमीश्वरः कल्प्यते । नच तत्राध्यापकतात्पर्यज्ञानं कारण- प्रभा. वादित्यर्थ केन तत्र तयोरप्रतिबन्धकत्वादिति अन्थेन मणिकृतैव तादृशनियमे मानाभावमुक्त्वा अनुमितेा. प्तिनिश्चयत्वेन हेतुत्वं निराकृत्य व्याप्तिज्ञानत्वेन हेतुत्वस्य व्यवस्थापितत्वादिति ॥ तात्पर्य ग्राहकप्रकर- णादीनामिति ॥ आदिना संयोगवियोगसाहचर्यादीनां परिग्रहः । तात्पर्य ग्रहजनकप्रकरणादीनामेवेत्यर्थः ।। कारणत्वमस्त्विति ॥ तथाच तात्पर्यप्रहजनकत्वेन कप्तानां तेषां शाब्दबोधनियतत्यपूर्वपत्तित्वावश्यक तया शाब्दबोधनिरूपितानन्यथासिद्धत्वमात्रकल्पनेन दृशतात्पर्यज्ञानस्य पृथक् हेतुत्वाकल्पनेन च लाघवादि- ति भावः ॥ तेषामिति ॥ प्रकरणादीनामित्यर्थः ॥ अननुगमादिति ॥ सर्वसाधारणानुगतानति प्रसक्त- धर्माभावादित्यर्थः । तथाच तात्पर्य ग्राहकेषु सर्ववनतिप्रस कैकधर्माभावात्प्रातिस्विकरूपेण व्यभिचारित्वाच तेषां न शाब्दहेतुतासंभव इति भावः ॥ तात्पर्यज्ञानजनकत्वेनेति ॥ तात्पर्यज्ञानजनकत्वरूपानुगतानतिप्र- सकधर्मेणेत्यर्थः ।। तथा चानुगमे स्विति ॥ प्रकरणादीनां कारणत्वे अभिमते सतीत्यर्थः । तुशब्दस्य अभिमतबोधकत्वादिति भावः । यद्यपि तात्पर्यज्ञानजनकत्वस्य व्यक्तिभेदेन भिन्नतया इदमपि न सर्वानुम- तं तथापि जनकतासंबन्धेन तात्पर्य ज्ञानत्वावच्छिन्नवावं सर्वानुगत प्रसिद्धमित्याशयेन तथोकमिति ध्ययम् || तात्पर्यज्ञानमेव । तात्पर्यज्ञानत्वावच्छिन्नमेव ॥ लाघवादिति ॥ तात्पर्यज्ञानत्वावच्छिन्नरूपगुरुधः मेण प्रकरणादीनां बहूनां कारणत्वापेक्षया तात्पर्यज्ञानत्वरूपलघुधर्मेण एकस्य कारणत्वे लाघवादित्यर्थः ।। कारणमस्त्विति ॥ उक्कलघुधर्मपुरस्कारेण कारणत्वं संभवतीत्यर्थः ॥ इत्थं चेति । उक्तलाघवबलेन शाब्दसामान्य प्रति तात्पर्यज्ञान सामान्यस्य हेतुत्वासिद्धी चेत्यर्थः तद्बोधस्यापि कार्यतावच्छेदका- कान्तत्वादिति ॥ तात्पर्यज्ञानार्थमिति ॥ तात्पर्यज्ञानरवरूपकारणतावच्छेदकावच्छिन्न- सम्पत्त्यर्थमपीयर्थः ॥ कल्प्यत इति । अनुमीयत इत्यर्थः । तथाच वेदवाक्याघीनशाब्दबोध. स्तात्पर्यज्ञानजन्यः शाब्दत्वात् सैन्धवमानयेत्यादिवाक्यानिशाब्दवत् इत्यनुमानात्तात्पर्यज्ञानसिद्धौ इतरेषा बाधात्तादृशज्ञानविषयतात्पर्याश्रयतया ईश्वरसिद्धिरिति भावः । उकानुमानसिद्धतात्पर्याश्रयो नेश्वर इत्याशङ्क' दिनकरीयम्. नियमो न स्यादित्यर्थः । इदमुपलक्षणम् । तात्पर्य संशये व्यतिरे कनिश्चये वा शाब्दबोधानुदयाच्छाब्दबोधे तात्पर्यज्ञानं कारणं यत्संशय इति व्याप्तेरित्यपि बोध्यम् ।। प्रकरणेति ॥ आदिना संयोगवियोगसाहचर्या- दीनां परिग्रहः । प्रकरणादीनां क्लुप्तनियतपूर्ववर्तिता कत्वेन अनन्यथासिद्धत्वमालकल्पने लाघवादिति भाः वः ॥ अननुगमादिति ॥ तथा च परस्परजन्यशाब्दबोधे परस्परव्यभिचारेण न हेतुत्वसम्भव इति भा. वः ॥ इत्थं चेति ॥ शाब्दबोधत्वावच्छिन्नं प्रति तात्पर्यज्ञानस्य हेतुत्वे चेत्यर्थः । एवमग्रेऽपि ॥ प्रलय- रामरुद्रीयम् . ति नियमानभ्युपगमेनोक अन्यथा सैन्धवपदश्यावृत्त्यभिप्रायेण इदमुक्तामेति मन्तव्यम् ॥ यत्संशये- ति ॥ यत्संशयव्यतिरेकनिश्चयो यदुत्पत्तिप्रतिबन्धको तन्निश्चय स्तद्धतुरनुमितो व्याप्तिरिवेति चिन्तामणायुक्त. स्वादिति भावः । संयोगस्सान्निध्यं विप्रयोगो दूरत्वं साहवयं एकदेशवृत्तित्वम् । घटोऽपंसारणीय इति समीपस्थे घटे तात्पर्य ग्रहस्सामीप्यात् । घटमत्रानयेत्यादी घटपदस्य दूरस्थे घटे तात्पर्य ग्रहो दूरत्वात् । घर्ट पटञ्चानयेत्यादौ घटपदपटपदयोरेकदेशत्तिघटपटयोस्तात्पर्य ग्रहः साहचर्यात् । आदिना आभिमुख्यादि. परिग्रहः ॥ क्लप्तनियतपूर्ववृत्तिताकत्वेनेति ॥ तात्पर्यज्ञानहेतुतावादिनापि तात्पर्यज्ञानार्थमेव शाब्दबो.. धोत्पत्तेः पूर्व प्रकरणादीनामवश्यं स्वीकरणीयत्वादिति भावः ॥ न हेतुतासम्भव इति ॥ तत्तदव्यवहितो- तरत्वस्य तत्तत्कार्यतावच्छेदककोटौ निवेशन व्यभिचारवारणे तु अतिगुरुभूतानेककार्यकारणभावापत्तिरिति 1 भाव: 1 -