पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । कचित् संशयरूपस्य कचिनिश्चयरूपस्य सोग्यताज्ञानस्य संभवात । नव्यास्तु योग्यताज्ञान न शाब्दवोधे कारणम् । वह्निना सिथतीत्यादौ सेके वह्निकरणकत्वामावरूपायोग्यतानिश्चयन प्रतिबन्धान शाब्दबोधः। तदभावनिश्चयस्य लौकिकसन्निकर्पाजन्यदोपविशेषाजन्यतदानमात्रे प्रभा. र्थस्येति ॥ निरुतयोग्यत्वरूपवाक्यार्थस्येत्यर्थः ॥ अपूर्वत्वादिति ॥ तत्तच्छाब्दबोधात्पूर्व तत्तच्छाब्दा धिकरणेषु सर्वेषु निश्चयाङ्गीकारासंभवादित्यर्थः । तथाच शाब्दबोधात्पूर्व सर्वत्र तादृशनिश्चयस्वीकारे तत्तद्वा- क्यजन्यशाब्दबोधस्य प्रमाणान्तरेण निर्णीतार्थविषयकत्वात् पृथक् प्रमात्वानुपपत्तिः तत्तद्वाक्यानां च गृहीता. र्थकत्वेन पृथक् प्रमाणत्वानुपपत्तिश्चागृहीतार्थगन्तृ प्रमाणमित्यनुशासनादिति भावः ॥ तसत्पदार्थस्मरणे सतीति ॥ प्रकृतवाक्यघटकतत्तत्पदविषयकवृत्तिज्ञानसहकृतज्ञानजन्यतत्तदर्थविषयकस्मरणे सतीत्यर्थः । निरुक्तयोग्यतासंशायकविशेषादर्शनसहकृतकोरिद्वयोपस्थितेः सत्वमाविष्कृतम् ॥ क्वचिदिति ॥ तदुत्तर- मित्यादिः । निरुक्तयोग्यतायाः प्रत्यक्षादिनिर्णयजनकसामग्रीशून्याधिकरण इत्यर्थः ॥ संशयरूपस्येति । त. थाच संशयसामग्रीसत्त्वेन आकालादिज्ञानादेरेव निरुक्तयोग्यतासंशय रूपत्वंसंभवादिति भावः ॥ क्वचिदिति ।। निरुक्तयोग्यतानिर्णायकप्रत्यक्षादिसामग्यधिकरण इत्यर्थः ॥ निश्चयरूपस्येति ॥ आकाङ्क्षादिज्ञानादेः निरु. कयोग्यतानिधयरूपत्वसंभवादिति भावः ॥ संभवादिति ॥ तथाच तत्तद्वाक्यजन्यशाब्दसामान्य प्रति संशयनिश्चयसाधारणनिरुक्तयोग्यताज्ञानत्वेनैव हेतुत्वप्राप्त्या तादृशशाब्दवोधात् पूर्व सर्वत्र तदधिकरणे शा- ब्दबोधसमानप्रकारकनिश्चयस्यानिष्पन्नत्वात् तत्तद्वाक्यजन्यशाब्दबोधस्य प्रमाणान्तरेण प्रमितार्थविषयकवा. भावेन पृथकप्रमात्वं तत्करगतया च तत्तद्वाक्यज्ञानस्य पृथकप्रमाणत्वं च नानुपपन्न मिति भावः । योग्यता- ज्ञानस्य शाब्दबोधहेतुतावादिना प्राचा मते दोषं प्रकाशयन् मणिकारमतमाह ॥ नव्यास्त्विति ॥ योग्यता- ज्ञानमिति ॥ निरुक्तयोग्य ताज्ञानत्वावच्छिन्नमित्यर्थः । न शाब्दबोधे कारणमिति ।। तत्तद्वाक्यजन्य- शाब्दबोधसामान्यनिरूपित कारणत्वावच्छिन्नमित्यर्थः । अत्र तादृशकारणताग्राहकप्रमाणाभावादिति हेतुः पू. रणीयः । ननु निरुतयोग्यताज्ञानस्य हेतुत्वानहीकारे वह्निना सिञ्चतीत्ययोग्यवाक्यात् वह्निकरणकसे कानु। कूलकृतिमानिति शाब्दबोधाभावः किनिबन्धन इत्यत आह ॥ वह्निनेति ॥ इत्यादाविति ॥ इत्याद्ययो- ग्यवाक्यश्रवणे सतीत्यर्थः । एतस्य न शाब्दवोध इत्यनेनान्वयः ॥ सेक इप्ति ॥ सेकविशेष्यक्रवह्निकरणक. स्वाभावप्रकारकनिश्चयेनेत्यर्थः तृतीयार्थों निरूपितत्वं तस्य प्रतिवन्धे अन्वयः ॥ प्रतिवन्धादिति ॥ प्रतियः ध्यताश्रयत्वादित्यर्थः ॥ न शाब्दबोध इति ॥ न निरुक्तशाब्दयोधसंभव इत्यर्थः । ननु अयोग्यतानिश्चय- त्वावच्छिन्नप्रतियोगिताकाभावत्वेन हेतुत्वकल्पनापेक्षया निरुक्तयोग्यताज्ञानत्वेन हेतुत्वकल्पन एव लाघवं तावताप्युक्तस्थले शाब्दबोधवारणसंभवादत आह ॥ तदभावनिश्चयस्येति ॥ तद्धर्मावच्छिन्नविशेष्यता- निरूपिततत्संबन्धावच्छिन्नतद्धर्मावच्छिन्न प्रतियोगिताकाभावत्वावच्छिन्नप्रकारताशाल्यनाहार्याप्रामाण्यज्ञाना--- नास्कन्दितनिश्चयस्येत्यर्थः । तज्ज्ञानमात्र इति । तद्धमावच्छिन्नविशेध्यतानिरूपिततत्संवन्धावच्छिन्नतद्ध. दिनकरीयम् . बोधात् पूर्वमनिश्चितत्वादित्यर्थः ॥ क्वचित् संशयस्थति ॥ संशयनिश्चयसाधारणयोग्यताज्ञानत्वेन हेतु- स्वादिति भावः । अत एव निश्चयमपि दर्शयति ॥ क्वचिदिति ॥ भूतले घट इति प्रात्यक्षिकनिश्चयोत्तर. भाविनि शाब्दयोध इत्यर्थः ॥ नब्यास्त्विति ॥ ननु अयोग्यतानिश्चयस्य प्रतिबन्धकत्वे तदभावत्वेन हे. तुत्वं वाच्यम् । तदपेक्षया लाघवेन योग्यताज्ञान हेतुत्वस्यैवोचितत्वादत आह ॥ तदभावनिश्चयस्ये- ति ॥ बाधनिश्चयकालेऽपि लौकिकसन्निकर्षजन्य तद्विशिष्टयुद्धेरुदयादत आह ॥ लौकिकसन्निकपीजन्ये- रामरुद्रीय . नं विना वाक्यप्रयोगासम्भवेन वाक्यप्रयोगमूलभूतं ज्ञानं प्रत्यक्षादिरूपमेव वाच्यम् । तस्यापि शाब्दत्वे अनवस्थाप्रसङ्गात् । तथाच यादृशविषये शाब्दादिकमेव जात नानुमित्यादिकमित्य सङ्गतमेव । एवं यद्विशेषयोरि- 80