पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-1 -दिनकरीय-रामरुद्रीयसमान्विता । प्रभा. धर्माणां पदार्थविभाजकत्वस्वीकारादेवेत्यर्थः । सप्तपदार्थभिन्नतयेति ॥ द्रव्यत्वादिसप्तान्यतमप्रतियोगि- दिनकरीयम्. प्रयुक्तशब्दस्यार्थान्तरं परिकल्प्य दूषणाभिधानरूपस्य छलस्य गुणे, असदुत्तररूपजातेगुणे, पराजयहेतुस्वरूप- निप्रहस्थानानां यथायथं दव्यादिष्वन्तभावः । निग्रहस्थानानि----प्रतिज्ञाहानिः, प्रतिज्ञान्तरं, प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो, हेत्वन्तरमर्थान्तरं, निरर्थकमविज्ञातार्थकमपार्थकमप्राप्तकालं, न्यूनमधिकं, पुनरुक्तमननुभाषणम- ज्ञानमप्रतिभा, विक्षेपो, मतानुज्ञा, पर्यनुयोज्योपेक्षणं,निरनुयोज्यानुयोगोऽपसिद्धान्तो, हेत्वाभासाश्च । अत्र चका- रोऽनुक्त समुच्चयार्थस्तेन दृष्टान्ते साधनवैकल्यादीनां परिग्रहः। तत्र विशिष्यप्रतिज्ञातस्य पक्षादेः परित्यागरूप- प्रतिज्ञाहानेरभावे, परोक्तदोषोद्दिधीर्षया पूर्वानुक्तविशेषणविशिष्टतया प्रतिज्ञातार्थकथनरूपस्य प्रतिज्ञान्तरस्य गुणे, स्वोक्तसाध्यादिविरुद्धहेत्वादिकथनरूपप्रतिज्ञाविरोधस्य गुणे, स्वोक्तसाध्यादेः परेण दृषणे कृते तत्साध्याप- लापरूपस्य प्रतिज्ञासंन्यासस्याभावे, परोक्तदूषणोद्दिधीर्षया पूर्वोक्तहेतुतावच्छेदकातिरिक्तहेतुतावच्छेदकविशिष्ट. हेतुकथनरूपस्य हेत्वन्तरस्य गुणे, प्रकृत्तानाकाङ्किताभिधानरूपार्थान्तरस्य गुणे, अवाचकपदप्रयोगरूपनिरर्थकस्य गुणे, अवाचकवाक्यप्रयोगरूपाविज्ञातार्थस्य गुणे, अभिमतवाक्यार्थबोधानुकूलाकाहाशून्यपदप्रयोगरूपस्यापार्थ कस्य गुणे, समयनिबन्धनविषयीभूतकथाक्रमविपरीतक्रमेणाभिधानरूपस्याप्राप्तकालस्य गुणे, यत्किंचिदवराव- शून्यावयवाभिधानरूपस्थ न्यूनस्य गुणे, अधिकहेत्वाद्यभिधानरूपस्याधिकस्य गुणे, पुनरभिधानरूपस्य पुन. रुक्तस्य गुणे, परिषदा निरभिहितस्याप्य प्रत्युच्चारणरूपस्याननुभाषणस्याभावे, परिषदा विज्ञातार्थस्य वादिना त्रिरभिहितस्याप्यविज्ञानरूपस्याज्ञानस्याभावे, उत्तराई, परोक्तं बुद्ध्वाऽप्युत्तरस्याप्रतिपत्तिरूपाया अप्रतिभायाः अभावे, असम्भवत्कालान्तरकार्यव्यासङ्गमुद्भाव्य कथाविच्छेदरूपस्य विक्षेपस्याभावे, स्वपक्षे दोषमनुद्धृत्य पर- पक्ष दोषाभिधानरूपमतानुज्ञाया गुणे, निग्रहस्थान प्राप्तवतो निग्रहस्थानानुद्भावनरूपस्य पर्यनुयोज्योपेक्ष- शस्याभावे, निग्रहस्थानानवसरे तन्निग्रहस्थामाभिधानरूपस्य निरनुयोज्यानुयोगस्य गुणे, कथायां स्वीकृत- रामरुद्रीयम्. तजन्यपापध्वंसव्यक्ती तत्वज्ञानजन्यथासम्भवेऽपि तत्वज्ञानाव्यवहितोत्तरपापध्वंसव्यक्ती तत्वज्ञानजन्यत्वे बाध- काभावादिति भावः । यद्यध्येवं सति तत्त्वज्ञानानुत्तरदुःखव्यक्तिनाशे तत्त्वज्ञानजन्यत्वासम्भवेऽपि तत्त्वज्ञानोत्तर- तद्वयक्तौ तज्जन्यत्वसम्भवेन प्राचीनमतेऽपि न दोषस्तथाप्येतदस्वरसेनैवाहुरित्युक्तम् । तथा च दुःखध्वंसस्य मुक्तित्वेऽप्युक्तरीत्याऽनुपपत्त्यभायात् दुःखपदस्य दुरितलक्षणाकल्पनं नव्यानां कुकल्पनमेवेत्यस्वरस आहुरिस्यनेन सूचितो प्रन्थकृतेति नानुपपत्तिरिति ध्येयम् । अथ 'ज्ञानाग्निः सर्वक्रमाणि भस्मसात्कुरुतेऽर्जुन'इति स्मृत्या दुरि- तस्य ज्ञाननाश्यत्वबोधनात् पापनाशरूममुक्तो तत्वज्ञानसाध्यत्वाजीकारः सम्भवत्येव, दुःखध्वंसस्य तत्वज्ञान- जन्यताबोधकमानाभावेन न तथात्वसम्भव इति चेदिहापि तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽ- यनाय'इति श्रुतेरेव प्रमाणत्वसम्भवादात्यन्तिकदुःखनिवृत्तेरेवातिमृत्युशब्दार्थत्वात् ,तत्त्वज्ञानोत्तरदुःखव्य से स्वसा- क्षात्कारेण नाश्यत्वस्येव तत्त्वज्ञानोत्तरं प्रारब्धदुरितव्यक्तीनां भोगनादयताया एव स्वीकरणीयत्वेन विशेषा- भावात् श्रुतिबलादेव विशिष्टदुःखध्वंसे तत्त्वज्ञानसाध्यताया व्यवस्थापनसम्भवात् । किं च कर्ममात्रनाशस्यैव तत्त्वज्ञानजन्यत्वेन स्मृतिबोधिततया स्वसमानाधिकरणपुण्यासमानकालीनपुण्यध्वंसस्यापि मुक्तित्वापत्तिः । न चेष्टापत्तिः, सुखदुःखाभावतज्जनकाभावानात्मकत्वेनापुरुषार्थत्वादित्यलं पलवितेन । परित्यागरूपेति ॥ पक्षादेः परित्यागः पक्षस्य पक्षत्वेन प्रतिपादनाभाव एवेति तस्याभावरूपतति भावः । प्रतिज्ञातार्थेति ॥ सा. ध्येत्यर्थः । साध्यापलापेति ॥ साध्यस्यापलापः साध्यत्वेनानुक्तिरेवेति भावः । अवाचकेति ॥ हुंफडा- दीत्यर्थः । अवाचकवाक्येति ॥ अत्र वाचकत्वं बाधजनकत्वमेव । न तु शक्तिः । वाक्ये तदभावात् । तादृशं वाक्य भूस्तनं हिमभेषजवदित्यादिकमप्रसिद्धार्थकपदघटितम् । अपार्थकस्यति । पर्वतो वहिरधि. करणमित्यादेरपार्थकस्येत्यर्थः । असंभवत्कालान्तरेति ॥ सुतदारादिपरिरक्षणरूपेत्यर्थः । कथाविच्छेदः॥