पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०४ कारिकावली [शब्दखण्ड: नीलो घट इत्यादौ नामार्थयोरभेदसम्बन्धेनान्वया देनेति । न च राजपुरुष इत्यादी लुम- विभक्ते : स्मरणं कल्प्यमिति वाच्यम ! अमृतविभकोरपि ततो बोधोदयात् । तस्मात् रा. जपुरुष इत्यादौ राजसम्बन्धिनि लक्षणा । तस्य च पुरुपेण सहाभेदान्वयः । द्वन्द्वे तु धवखदिरौ प्रभा. राजपुरुष इत्यादौ प्रकारान्तरेण शाब्दबोधनिर्वाहार राजपदस्य लक्षणा नाङ्गीकार्येत्याशयेन शङ्कते ॥ नचेति ॥ राजपुरुष इत्यादाविति ॥ इत्यादिसमासवाक्य इत्यर्थः । राजपदोत्तरमिति शेषः । घट- कत्वं सप्तम्यर्थः तस्याध्याहत्तराजपदे अन्वयः ॥ लुप्तविभक्तरिति ॥ समासत्वाल्छुप्तषष्टीविभक्तरित्व • र्थः ॥ स्मरणं कलप्यतामिति ॥ राजपद समभिव्याहृतत्वेनानुसन्धीयतामित्यर्थः । तथाच अनुसन्धीय- मानविभक्त्यर्धस्वत्वद्वारा राजपदार्थपुरुषपदार्थयोरन्वयबोधानोक्तनियनभाः नवा पूर्वपदलक्षणेति भावः ॥ अस्मृतविभक्तेरपीति ।। षष्ठीलोप म जानतः पुरुषस्यापीत्यर्थः ॥ ततो बोधोदयादिति ॥ तादृश- वाक्यचवणाधीनशाब्दबोधोत्पत्तेरित्यर्थः । तस्मादिति ॥ राजप दशक्यार्थस्य पुरुषपदार्थेन सह साक्षा- द्वेदसंबन्धनान्वयासंभवादित्यर्थः । राजपुरुष इत्यादाविति ।। राज पदस्थति शेषः ॥ राजसंवन्धि नीति । राजस्वत्वविशिष्ट इत्यर्थः ।। लक्षणेति ॥ निस्टलक्षणेत्यर्थः ॥ आवश्यकीति शेषः ॥ तस्येति ।। राजपदलक्ष्यार्थराजसंवन्धिन इत्यर्थः ॥ अन्वय इति ॥ स्वीकार्य इति शेषः । तथाच राज पुरुष इत्या. दो राजपदस्य राजसंवन्धिनि लक्षणाज्ञानाधानार्थीपस्थित्या अभेदसंबन्धेन राजसंबन्धिप्रकारकः पुरुषः दिनकरीयम् . स्मरण कल्प्यमिति ।। तथा चानापि प्रत्ययार्थद्वारैव राज पुरुषशोरवयानोक्तव्युत्पत्तिविरोध इति भावः ॥ परे तु राजपुरुष इत्यादितत्पुरुषे न लक्षणा । व्युत्पत्तिवैचित्र्येण स्वत्वादिसंसर्गणैव राज्ञः पुरुषादाव- रामरुद्रीयम्. भूतलस्यापि घटे प्रकारत्वोपगमोऽनुचितः पदार्थस्य संसर्गविधया भानान शीक रात् । तथापि भूतले घट इति वाक्यजन्यज्ञानानन्तरं घटो भूतलीयो न वेति संशयानुत्पादस्याप्यनुभवसिद्धतया आधेयता भूतलाभाववान् घटः प्रमेय इति विशिष्टवैशिष्ट्यावगाहिप्रत्यक्षं प्रति तादृशशाब्दसामन्याः प्रतिवन्धकत्वाकल्पनाप्रयुक्तला- घवेन विभक्त्यर्थस्य संसर्गविषयापि भानमादतम् । तादृशवाक्यजन्यबोधस्य घटो भूतलीय हत्याकारकत्वे घटे आधेवतया भूतलाभावज्ञानमपि वाधज्ञानमेवेति तदभावावगाहिंघटित शाब्दबोधसामग्रीसत्त्वे विशेष्य- तावच्छेदकप्रकारकनिर्णयौटतोक्त प्रत्यक्षसामायव न तिप्रतीत्य तादृशप्रत्यक्षे तादृशशाब्दसामन्याः प्रतिब- धकत्वं न कल्पनीयामिति लाघवमिति भावः । घटः पटो नेत्यतात्यन्ताभावो मजा न बोधयितुं शक्यते नमोऽत्यन्ताभावबोधेऽनुयोगिवाचकपदोत्तरं सप्तम्यपेक्षशादतो नजर्थोऽन्योन्याभाव एवत्याह ॥ नजति ॥ प्रत्ययार्थद्वारैवेति ॥ षष्टीस्मारितस्वत्वसम्बन्धेनवत्यर्थः । अथवा स्वत्व राजपदार्थान्वयः स्वत्वस्यैव पुरु- घऽन्वयो न तु राजपुरुषयोरित्यर्थः । उभयत्रापि षष्टीविषयकस्मरणकल्पनमावश्यकमिति भावः ॥ मूले अ- स्मृतविभक्तरपीति ॥ यद्यपि तत्पुरुषे पूर्वपदस्य स्वार्थविशेपितविग्रहवाक्यार्थविभक्त्यर्थविशिष्टे निरूढल- क्षणोपगर्भन तत्तद्विभक्त्यस्मरण पूर्वपदस्य तत्तदई निरूढलक्षणानिर्णय एव न सम्भवतीति लक्षणारूपवृत्तिज्ञाना- भावादेव पदजन्य पदार्थम्मरणाभावेन शाब्दबोधो न सम्भवत्येवेति अस्मृतविभः शाब्दबोधोपपादनं दुर्व- चम् । तथापि विभक्तिस्मरणं विना निरूढलक्षणार्थस्यानिर्णयेऽपि सामान्य लक्षणाज्ञानं तदधानपदार्थस्मरणं च न सम्भवत्येव । निरूढलक्षणाज्ञानादेव पदार्थस्मरणमिति न नियमः। तथा सति गङ्गायां घोष इत्यादी गङ्गापदातीरस्मरणानुपपत्तेः । एवञ्च तत्तस्थलेपु नानाविभक्तिस्मरणकल्पनमपेक्ष्य लक्षणया राजपदादाज- सम्बन्ध्युपस्थिति कल्पयित्वाभेदशाब्दबोधोपगम एवोचितो लाघवात् । राजपुरुप इति कर्मधारये त्वन्वया- नुपपत्त्यादिलक्षणाबीजाभावेन राजाभिन्नः पुरुष इति शक्याभेदवोध एव स्वीकियत इति भावः ॥ मतान्तरमाह ॥ परे त्विति ॥ व्युत्पत्तिवैचित्र्येणेति ॥ पुरुषविशेष्यकस्वत्वसंसर्गकराजप्रकार-