पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. पाक इत्येव स्यात् नतु स्तोकः पाक इत्याक्षिप्य पाकस्य कृदन्तसमुदायार्थत्वविवक्षायां कृ. त्प्रत्ययघटितसमुदायस्य धातुत्वाभावात् स्तोकः पाक इति प्रयोगोपपत्तिः पाकस्य पधातुमात्रा- र्थकत्वविवक्षायां स्तोकं पाक इति प्रयोगोऽपि स्यादेवेति गदाधरभट्टाचार्योक्तिरपि सङ्गच्छते । य- चोक्तं सप्तम्यन्तसमुदायस्य गभीरनदीतीरवृत्तित्वविशिष्टे" लाक्षणिकत्वमङ्गीकृत्य तस्याभेदसंबन्धेन घो. षादावन्वयपक्षे अभेदान्वयबोधे समान विभक्तिकत्वस्य तन्त्रत्वात् सप्तम्यन्त समुदायस्य समानविभ- त्यन्तस्वाभावात् नाभेदान्वयबोधसंभव इति दूपणं तदपि न नील घट इति समासवाक्यस्थले अभेदेनान्व • यधोधोपपत्तये समानविभाक्तकत्वस्य तन्त्रत्वं परित्यज्य विरुद्धविभक्तिराहित्यस्यैवाभेदान्वयनियामकता- यास्सिद्धान्तसिद्धतया प्रकृते सप्तम्यन्त समुदायस्य समानविभातिमत्त्वाभावेऽपि विरुद्धविभक्तिराहित्यरूपा. भेदान्वयबोधनियामकस्य सत्त्वात् नाभेदेनान्वयबोधानुपपत्तिरिति दिक् । एतावता वाक्य सामान्यस्य शक्त्यभावेन शक्तिप्रमासहकृतनद्यादिपदवृत्तिविषयताशालिज्ञानजन्य ज्ञानविषयरूपस्वयोध्याप्रसिद्धथा तत्सं- बन्धरूपलक्षणायाः अप्रसिद्धत्वेन वाक्यसामान्यलक्षणाया असंभवमुपपाद्य समस्त वाक्यस्थले पदलक्षणया अभिमतशाब्दबोधोपपत्तिः कृता । इदानी बहुव्रीह्यादिसमस्तवाक्यानामपि क्रमेण पदलक्षणया अभिमतशा. दिनकरीयम्. बन्धेनापि तीरस्य घोषादावन्वयासम्भवात् । गभीरायां नदीति सप्तमीशून्यस्य तारे लक्षकत्वे सप्तम्यर्था- धेयत्वादौ तादृशतीरादेरनन्वयापत्तिः । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेः । गभीरायां नदी ति भागस्य सप्तमीप्रकृतिस्वाभावात् । न च गभीरायां नद्यामिति सप्तम्यन्तम्य गभीरनदीतीरवृत्तिवे ल- क्षणास्त्विति शक्यम् । तादृशतीरवृत्तित्वस्य घोषादावन्वयानुपपत्तेः । नामार्थयोर्भेदसम्बन्धेनान्वयस्याव्यु. त्पन्नत्वात् । सप्तम्यन्तभागस्य तादृशतीरवृत्तो लक्षणामुपगम्य तस्याभेदेन घोषादावन्बय इत्यपि न । अभेदे. नान्वयबोधे समानविभक्तिकत्वस्य तन्त्रत्वादित्यास्तां विस्तरः । एवमवयवलक्षणैव न तु वाक्ये लक्षणे. रामरुद्भीयम्. स्य पदसमूहरूपतया समूहस्य प्रत्येकानतिरिक्ततया वाक्यजन्यस्मरणस्यापि नामजन्यत्वमक्षतमेवेत्युच्यते तदा तत्र प्रत्यय जन्यत्वस्याप्यवर्जनीयतया गभीरनदीतीरस्य प्रत्ययार्थत्वसम्भवेन प्रत्ययार्थस्य नामार्थे भे- देनान्वयोपगमात् नानपपत्तिरिति वाच्यम् । तथा सति गभीरनदीतीरीयर जनेति बोधतात्पर्येण गभीरायां नदी रजनेति प्रयोगापत्तेः वाक्यलक्षणावादिभिरपि गभीरायां रजनेत्यत एव तादृशबोधोपगमे इष्टापत्तेरयो- गादिति भावः ॥ सप्तमोप्रकृतित्वाभावादिति ॥ प्रातिपदिकेत्य त एव सुब्विभक्तोर्विधानात् । प्रत्यय. विध्युद्देश्यस्यैव प्रकृतित्वादर्थवदधातुरित्यनेन प्रत्ययधातुभिन्नशकस्यैव प्रातिपदिकसंज्ञाविधानेन गभीरायां न. दीत्यस्य किञ्चिदर्थाशक्तत्वेन सप्तमीप्रकृतित्वाभावादिति भावः । न चैवं नीलोत्पलं पाचकमित्यादौ पाचक- नीलोत्पल समुदायादेर्वाक्यतया किञ्चिदर्थाशक्तत्वेन तेषां विभक्तिप्रकृतित्वं न स्यादिति वाच्यम् । कृत्तद्धि- तसमासाश्चेति सूत्रान्तरेण तेषामपि प्रातिपदिकत्वविधानेन कृत्तद्धितान्तसमासानां विभक्तिप्रकृतित्वसम्भ- वात् । वस्तुतः प्रकृत्यर्थत्वं वृत्त्या प्रकृतिजन्यबोधविषयत्वमेव । तच्च प्रकृतिघटितसमुदायजन्य वोधविषये गभीरनदीतीरेऽध्यक्षतम् । समुदायस्य प्रत्येकानतिरिक्ततया प्रकृतिघटितसमुदायजन्यस्य प्रकृतिजन्यतान- पायात् । प्रकृतिमात्रजन्यत्वनिवेशे प्रयोजनविरहात् । चैत्रस्य मामानयेत्यादौ चैत्रसम्बन्धिगोः प्रलयार्थक- मत्वेऽम्चयदर्शनेन तन्निवेशासम्भवाच्च वृत्तौ प्रकृतिनिरूपितत्वमपि न शक्यते विवक्षितम् । वाक्यलक्षणा- जीकर्तुमते नीलोत्पलादिप्रकृतिनिरूपिताप्रसिद्धरित्यापाततो रमणीयमेतल्लक्षणमिति प्रतिभाति ॥ समानवि. भक्तिकेति ॥ गभीरायां नद्यामिति समुदायस्य किञ्चिद्विभक्तरप्य प्रकृत्तित्वादिति भावः । अथ राजपुरुष इत्यादौ राजपदस्याविभक्तिकत्वेऽपि पुरुषपदाव्यवहितपूर्वराजपदार्थभ्य राजसम्बन्धिनि पुरुषेऽभेदेनान्वय- दर्शनात् प्रकृतेऽपि सप्तम्यन्तवाक्यस्य घोषपदाव्यवहितपूर्वतया तदर्थस्य गभीरनदीतीरवृत्ते?षेऽभेदान्वये वाधकाभावादिदमसङ्गतम् । न चाव्यवहितपूर्ववृत्तिनः शक्तत्वरूपपदत्वमपि तादृशान्वयबोधे प्रयोजकम् । 76