पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरूद्रीयसमन्विता । प्रभा. पादितमित्यर्थः । अन्तभावन सुधीभिरूयः पन्थावस्तर भिया नास्माभिर्विविच्यते । भाष्यकारसम्मतिमुक्त्वा दिनकरीयम् . सामान्यविशेषसमवायाभावाः सप्तव पदार्थाः षोडशानामत्रवान्तभावादिति प्रतिपादितमित्यर्थः । कथमन्त- भाव इति चदित्य, प्रमाणस्येन्द्रियादेः द्रव्ये, व्याप्तिज्ञानादेगुणे, प्रमेयस्यात्मशरीरेन्द्रियस्वरूपस्य द्रव्य, अर्थस्य गन्धर सरूपस्पशशब्दस्वरूपस्य गुण, बुद्धगुण, मनसो द्रव्ये, प्रवृत्तगुण, दोशणामिच्छाद्वेषमिव्या- ज्ञानस्वरूपाणां रागद्वेष मोहपदप्रतिपाद्यानां गुणे, प्रेत्य मृत्वा, भायो जननमिति व्युत्पत्त्या मरणो- तरजन्मत्वं प्रत्यभावपदप्रवृत्तिनिमित्तं, चरमप्राणशरीरसंयोगध्वंसो मरणं, आद्यशरारप्राणसंयोगो जन्म, तथा च मरणानन्तरं तादृशसंयोगरूपस्य तस्य गुणे, सुखदुःखसंवदनस्वरूपस्य मुख्यफलस्य गुण, गौणमुख्य साधारणजन्यमानस्वरूपफलस्यापि द्रव्यादिए, पीडालक्षणस्य दुःखस्य गुणे अन्तभावः । अपवर्गस्तु आत्यन्तिक। दुःखनिवृत्तिः--दुःखानि, शरारं षडिन्द्रियाणि पविषयाः पड्वुद्धयः सुखं दुःख चेयकविंशतिः । तत्र दुःखत्वजातिशून्ये शरीरादौ दुःखसम्बन्धितया गौणं दुःखत्वं, स्वादिसुखस्यापि तन्नाशझानेन दुःमसम्ब नित्वमव्याहतमेव । नचैकाविंशतिदुःखान्तर्गतयोमनःश्रवणयोनित्यत्वात् कथं तबाश इति वाच्यम् । यद्यप- विशिरस्य श्रवणस्य ज्ञानद्वारा दुःखहेतुतथा दुःखत्वं, तपस्य कर्णशकुल्या नाशे तद्विशिष्टनवणेन्द्रियरूपनुःखना- शात । एवमात्मसंयोगरूपव्यापारविशिष्टस्यैव मनसो ज्ञानद्वारा दुःखहेतुतया,दुःखत्वं, व्यापारमाशेन तदिशिष्टमनो. रूपदुःखनाशसंभवादिति । दुःखनिवृत्तावात्यन्तिकत्वं च स्व समानाधिकरणदुःखासमानकालीनत्वम् । नन्वेतादश- दुःखध्वंसस्य मुक्तित्वे कथं तत्त्वज्ञानसाध्यता तस्येति चेत् , इत्थं, तत्त्वज्ञानेन मिथ्याज्ञानवासनानासः, वास. नानाशे च दोषस्य वासनाविशिष्टरागादेरभावः विशेषणाभावे विशिष्टाभावात् , तादृशरागादिरूपहेत्वभाव च प्रवृत्तधर्माधर्मरूपाया अभावोऽनुत्पत्तिः, तदनुत्पाद प्रारब्धकमांधीनदेहान्यदह सम्बन्धल्पजन्माभावः, भोग- तत्त्वज्ञानाभ्यां प्रारब्धतद्भिन्नक्रमनियुत्तिरिति । जन्माभावे दुःखानुत्पादः, तथा च स्वसमानाधिकरणदुःखास- मानकालीनत्वरूपविशेषणांशे तत्त्वज्ञानस्य प्रयोजकत्वान्मुक्तेस्तत्त्वज्ञानसाध्यत्वं, तथा च सूत्रं 'दुःखजन्म- प्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः' इति, अस्यार्थः-पटितेषु जन्मादिषु मध्ये रामरुद्रायम् . भावः । चरमति ॥ प्राणशरीरसंयोग चरमत्वञ्च स्वसजातीयशरीर वृत्तिप्राणसंयोगमागभावानाधिकरण- त्वम् , एवमाद्यत्वमपि तथाविधप्राणसंयोगध्वंसानधिकरणत्यमिति बोध्यम् । गौणमिति ॥ लाक्ष- णिकमित्यर्थः । दुःखत्वम् ॥ दुःखपदप्रतिपाद्यत्वं । दुःखसंवन्धस्तु जनकत्वादिरूप इति भावः । ननु दुःखसंबन्धित्वादुःखत्वं सुखे न संभवति, तस्य दुःखासंबन्धित्वात् । न च मुखस्थापि दुःखसमानाधिकरणत्वा- तत्त्वमक्षतमिति वाच्यम् । तथासल्यात्यंतिकदुःखनिवृत्तेरपि पूर्वतनदुःखसमानाधिकरणत्वेन दुःखत्वापत्तेः । न च स्वसमानाधिकरणदुःखासमानकालीनत्वादिरूपो दुःखसंवन्धो नोक्तनिवृत्तौ, अस्मदादिमुखे च तादृश- दुःखसमानकालीनत्वात्तदक्षतमेवेति वाच्यम् । तथापि स्वगीय मुखे ‘यन्न दुःखेन सभिन्नम् ' इत्यादिश्रुतिविरोधेन तधात्वस्य स्त्रीकर्तुमशक्यतया तस्य दुःखत्वं न संभवत्येवेल्याशङ्कामपनेतुमाह-स्वर्गादिसुखस्येति ॥ तथा च अन्न दुःखेनेत्यादिश्रुतौ दुःखपदं स्वर्गनाशज्ञानजन्यदुःस्वातिरिक्तदुःखपरमिति न विरोध इति भावः । व्यापारनाशेनेति ॥ मनःक्रियया मनःसंयोगरूपव्यापारनासेनेत्यर्थः । यद्यपि भाविमुक्तिदशायामपि मनःसंयोगान्तरं वर्तत एव तथापि तस्य न व्यापारत्वं, पुरीतभिन्नदेशावच्छिन्नमनःसंयोगस्यैव ज्ञानसाधनत्वन तथात्वान्मुक्तो च शरीराभावादिति भावः । स्वसमानाधिकरणेति ॥ शुकादिमुक्तावव्याप्तिवारणाय, दुःखे स्वसामानाधिकरध्यनिवेशः । इदानींतनास्मदादिदुःखध्वसऽतिव्याप्तिवारणायासमानकालीनत्वांतनिवेशः। नन्वतावता चरमदुःखध्वंसा मुक्तिरिलायातं, चरमदुःखस्यापि योग्यविभुविशेषगुणत्वेन स्वोत्तरोत्पन्नविशेष. गुणमात्रेणेच नाशसम्भवान्मुक्तयर्थ तत्त्वज्ञानापेक्षा न स्यादित्याशते । नन्वित्यादिना ॥ सूत्रार्थ माह- अस्यार्थ इति ॥ नन्वनन्तरपदस्योत्तरार्थकतया दुःखाभावे जन्माभावस्य प्रयोजकत्वं न स्थात् , दुःख जन्मेत्या-