पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । लक्षणा तत्प्रकारकवोधस्य तत्र लक्षणां विनाप्युपपत्तेः । परं त्वेवक्रमेण शक्यतावच्छेद- प्रभा. ण स्मृतिकारणत्वं परित्यज्य लक्ष्यतावच्छेदकविशेषघटितरूपण कारणत्वाङ्गीकारेण परिहरति ॥ इदंतु वो- ध्यमित्यादिना ॥ शक्यार्थसंबन्ध इति ॥ लक्षणेत्यर्थः ॥ यदीति ॥ यदेयर्थः ॥ तीरत्वेनेति ।। तीरत्वावच्छिन्नविशेष्यतानिरूपितज्ञानीयप्रकारतावानित्यर्थः। तीरत्वावच्छिन्नविशेष्यक गङ्गापदनिरूपितलक्ष- णाप्रकारकप्रहो यदेत्यर्थः ॥ तदेति ॥ तदव्यवहितोत्तरक्षण इत्यर्थः ॥ तीरत्वेन रूपेण तीरवोध इ- ति ॥ तीरत्वप्रकारकतीराविशेष्यकस्मृत्यनन्तरमित्यादिः । तीरत्वप्रकारकतीरविशेष्यकशाब्दयोधः इत्यर्थः ॥ यदि स्विति ॥ यदेत्यर्थः । अवधारणार्थकतुशब्दः रूपेणेत्युतरं योज्यः ।। गङ्गातीरत्वेनेत्यादि । ग- जातीरत्वावच्छिन्नविशेष्यतानिरूपितज्ञानीय प्रकारताश्रय इत्यर्थः । एतस्य शक्यसंवन्ध इति पूर्वेणान्वयः । गङ्गापदनिरूपितलक्षणाप्रकारकगङ्गातीरत्वपर्याप्तावच्छेदकताकग्रही यदेति फलितोऽर्थः ॥ तदेति ॥ ता- दृशग्रहाव्यवाहितोत्सरक्षण इत्यर्थः । तेनैव रूपेण बोध इति ॥ गङ्गातीरत्यप्रकारकस्मरणोत्तरमित्यादिः । मनातीरत्वप्रकारक एवं तीरविशेष्यकशाब्दबोध इत्यर्थः । तथाच तद्धर्मावच्छिन्नविशेष्यकलक्षणाज्ञानस्य त- द्धर्मप्रकारकस्मृत्यादिकं प्रत्येव हेतुतया गङ्गातीरत्वावच्छिन्नविशेष्यकलक्षणाज्ञानात् न शुद्धतीरत्वप्रकारकस्मरणा- द्यापत्तिरिति भावः । ननु गङ्गातीरत्वस्यापि गङ्गापदलक्ष्यतावच्छेदकरवे तद्धर्मावच्छिन्नविशेष्यकलक्षणाज्ञाना- त् तद्धर्मप्रकारकस्मरणशाब्दबोधयोरुत्पत्त्या तस्याः जहत्वार्थत्वानुपपत्तिः । शश्यार्थाविषयकशाब्दबोधन- योजकलक्षणाया एव जहत्स्वार्थलक्षणा पदार्थत्वादिति चेदत्र प्राञ्चः शुद्धतीरत्वावच्छिन्नलक्षणाया एव जह- रस्वार्थत्वस्वीकारात् गङ्गातीरत्वावच्छिन्नलक्षणाया जहत्स्वार्थत्वाभावेऽपि न क्षतिरिति व्याचकुः । नव्यास्तु लक्ष्यनिष्ठविषयत्वानिरूपितशक्यनिष्ठाविषयत्वानिरूपकशाब्दबोधप्रयोजकलक्षणाया एव जहत्स्वार्थलक्षणापदा- र्थत्वात प्रकृते शुद्धतीरत्वावच्छिन्नलक्षणायाः गङ्गातीरत्वावच्छिनलक्षणायाश्च तादृशशाब्दबोधनयोजकलक्षणा- त्वात् उभयोरपि जहत्स्वार्थत्वोपपत्तिरिति प्राहुः । अस्मद्गुरुचरणास्तु समभिन्याहृतपदार्थनिष्ठविषय तानिरूपि- तशक्यार्थनिष्टविषयतानिरूपकशाब्दयोधप्रयोजकलक्षणात्वमेव जहत्स्वार्थत्वं प्रकृते गङ्गातीरत्वावच्छिन्नलक्षणा- ज्ञानाधीनशाब्दयोधीयगजानिष्ठविषयतायाः समभिव्याहृतसप्तमीपदार्थाधेयत्वविषयतानिरूपितत्वाभावेन ग- जातीरत्वावच्छिन्नलक्षणाया अपि निरुक्कलक्षणाकान्ततया जहत्स्वार्थत्वोपपत्तिरिति व्याचक्रुः । वस्तुतस्तु शक्य- साधारणधीनवच्छिन्नविषयताप्रयोजकलक्षणात्वं शक्यसाधारणधर्मानवच्छिन्नलक्षणात्वं वाजत्स्वार्थत्वमि- ति गङ्गातीरत्वावच्छिन्नलक्षणाया अपि ईदृशलक्षणानयत्वेन जहत्स्वार्थत्वं निराबाधभेवेति प्रतिभाति । यत्तु श . क्यावृत्तिलक्षणात्वं जहत्स्वार्थत्वमिति तन्न काकेभ्यो दधि रक्ष्यतामिति वाक्यघटककाकपदनिरूपित्तदध्युपधा- तकमाननिष्ठाजलक्षणायामतिव्याप्तेः काकवृत्तिदध्युपघातकत्वसजातीयदध्युपधातकत्वरूपलक्षणायाः का. कबिडालादिभेदेन भिन्नतया बिडालादिवृत्तिदध्युपघातकत्वरूपलक्षणायाः शक्यावृत्तिलक्षणारूपत्वादिति । एवं च यष्टी प्रवेशय मञ्चाः कोशन्तीत्यादौ यष्टिंधरत्वमञ्चस्थपुरुषत्वादिना बोधेऽपि यष्टिपदनिरूपितयष्टिधरस्वा- वच्छिन्नलक्षणायाः मञ्चादिपदनिरूपितमञ्चस्थपुरुषत्वाद्यवच्छिन्नलक्षणायाश्च शक्यसाधारणधर्मानवच्छि- नलक्षणात्वेन जहत्त्वार्थत्वमव्याहतमेवेति हृदयम् ॥ अत एवेति ॥ वृत्तिज्ञानस्मरणशाब्दवोधानां समान- प्रकारकत्वेन कार्यकारणभावस्वीकारादेवेत्यर्थ: ।। लक्ष्यतावच्छेदकेऽपीति ॥ लक्ष्यतावच्छेदकतारत्वा- दावपीत्यर्थः ॥ न लक्षणेति ॥ गङ्गापदशक्यप्रवाहसंयुक्तसमवायरूपलक्षणा न स्वीकियत इत्यर्थः । तीर- स्ववृत्तितादृशसमवायस्य प्रयोजनविरहेण लक्षणात्यानुपगमादिति भावः । ननु कथं सहि शाब्दबोधे तीरत्वा- दिरूपलक्ष्यतावच्छेदकभानमत आह ॥ तत्प्रकारकबोधस्येति ॥ तीरत्यप्रकारकशाब्दबोधस्येत्यर्थः । लक्षणां विनापीति ।। लक्ष्यतावच्छेदक इत्यादिः । तीरत्यादिवृत्तिप्रवाहसंयुक्त समवायस्य लक्षणात्वान- भ्युपगमेश्रीत्यर्थः । उपपत्तेरिति ॥ तीरत्वादिप्रकारकशाब्दबोधनिर्वाहादित्यर्थः । तथाच तारे आश्रयता. संबन्धेन गङ्गापदलक्षणासत्यात् यथा तीरस्मरणशाब्दबोधयोरुपपत्तिः तथा तीरत्वेऽग्यवच्छेदकतासंबन्धेन साइशलक्षणासत्त्वात् तत्प्रकारकस्मरणशाब्दबोधयोरपि नानुपपत्तिरिति भावः । नच अपदार्थतीरत्वादेः शा. 75