पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९२ कारिकावली [शब्दखण्डः - तु बोध्यम् । शक्यार्थसम्बन्धो यदि तीरत्वेन रूपेण गृहीतस्तदा तारत्वेन तीरबोधः यदि तु गङ्गातीरत्वेन रूपेण गृहीतस्तदा तेनैव रूपेग स्मरणम् । अत एव लक्ष्यतावच्छेदके न प्रभा. स्वादिल्यर्थः ॥ क्वचिदिति ॥ तीरवृत्तिर्घोष इति बोधतात्पर्येण उच्चरितगङ्गायांघोषइतिवाक्य इत्यर्थः । सप्तम्यर्थो घटकत्वं तस्य च गङ्गापदेऽन्वयः ॥ गङ्गापदस्येति ॥ गङ्गापदस्यैवेत्यर्थः ॥ तारे लक्षणेति योज- ना ॥ कचिदिति ॥ मत्स्यत्तात्पर्येण उच्चरितगङ्गायां घोषइतिवाक्य इत्यर्थः । अत्रापि सप्तम्यर्थी घटकत्वं तस्य घोषपदे अन्वयः ॥ घोपपदस्येति ॥ घोषपदस्यैवेत्यर्थः ॥ मत्स्यादाविति ॥ मत्स्यत्वावच्छिन्नकच्छपत्वाव. च्छिन्न इत्यर्थः ॥ इति नियम इति ॥ इति व्यवस्थेत्यर्थः । तथाचान्वयानुपपत्तिप्रतिसन्धानस्यैव गङ्गायां घोष इति वाक्यघटकगङ्गापदस्य घोषपदस्य वा तीरमत्स्यादी लक्षणाप्राहकरवे तीरबोधतात्पर्येणाचरिततादृशवाक्ये मत्स्यादिवोधतात्पर्येणोचरिततादृशवाक्ये च गङ्गापदलक्षणयैर घोषपदलक्षणयेच वान्वयानुपपत्तिप्रति- सन्धाननिवृत्तेः संभवात् निरुक्त व्यवस्थानुपपन्नास्यात् तात्पर्यानुपपत्तिप्रतिसन्धानस्य लक्षणाग्राहकत्वे तु तीरबो. धताणोचरिततादृशवाक्ये घोषपदस्य मत्स्यादौ लक्षणाज्ञानेन मत्स्यादिवोधतात्पर्येणोच्चारिततादशवाक्ये ग- हादिप्य तारे लक्षणाज्ञानेन च तत्ततात्पर्यविषयशाब्दबोधानिष्पत्त्या निरुक्ततात्पर्यानुपपत्तिप्रतिसन्धानानिवृत्तेः तनिवृत्यर्थं तारबोधतात्पर्यणाचरिततादृशवाक्ये गङ्गापदस्व तीरे मत्स्यादिवोधतात्सर्येणोचरिततादृशवाक्ये घो पपदव मत्स्यादी लक्षणेति व्यवस्था आवश्यकीति । एवंच तत्तल्लक्षणाज्ञानत्वेन तत्तदर्थविषय कशाब्दवोधोत्पत्ती निरुक्ततात्पर्यानुपपत्तिप्रतिसन्धाननि वृत्तेः संभवान्नोक्तंदोष इति भावः । ननु लक्षणाज्ञानस्य कथं स्मारकत्वं न ता. वत्तत्पदलक्ष्यतावच्छेदकप्रकारकस्मृति प्रति तत्तत्पदलक्ष्यतावच्छेदकावच्छिन्नविशेष्यकतत्तत्पदनिरूपित्तलक्ष णाप्रकारकज्ञानत्वेन हेतु तथा सति तीरत्ववत् गङ्गातीरत्वस्यापि गङ्गापदलक्ष्यतावच्छेदकतया गङ्गापदलक्ष्य- तावच्छेदकगडातीरत्वावच्छिन्नविशेष्य कगङ्गापदनिरूपितलक्षणाज्ञानात् केवलतीरत्वप्रकारकस्मरणापत्तेः तादृश. स्मृतितः तत्प्रकारकशाब्दवोधापत्ते न च तुल्ययुक्त या शक्तिज्ञानस्यापि स्मारकत्वानुपपत्ति: हयादिपदस्य नानाश- क्यतावच्छेदककत्वेन हरिपदशक्यतावच्छेदकयमत्वावच्छिनविशेष्यकहरिपदनिरूपितशविज्ञानात् अनिलवा. दिप्रकारका प्रत्याद्यापत्त्या व्यभिचार इति वाच्यम् तनिष्टतत्पदशक्यतावच्छेदकावच्छिन्नविशेष्यकतत्पदनिरूपि. तशक्तिज्ञानस्य तनिष्टतत्पदशक्यतावच्छेदकप्रकारकस्मृति प्रत्येव हेतुत्व स्वीकारेण यमनिष्टहरिपदशक्यतावच्छे. दकयमत्वावच्छिन्नविशेष्यकहरिपदनिरूपित शक्तिज्ञानात् अनिलत्वादिप्रकारकम्मरणाद्यापत्तेरभावात् अनिल- स्वस्य यमावृत्तित्वात् एकथर्मिणि एकपदनिरूपितरूटि शक्यतावच्छेदकद्वयानभ्युपगमात् लक्षणास्थले गङ्गातीरे तीरत्व गङ्गातीरत्वरूपलक्ष्यतावच्छेदकद्वयसत्वेन गङ्गापदलक्ष्यतावच्छेद कगङ्गातीरत्वावच्छिन्न गङ्गापदलक्ष्यनि. विशेष्यताशालिगतापदनिरूपितलक्षणाज्ञानात् शुद्धतीरत्वप्रकारकस्मरणाद्यापत्तेर्वारत्त्वादित्याशकां हयादि. पदस्थले उक्तदोषवारणाय शक्तिज्ञानस्य व्यक्तिविशेषघटितरूपेण स्मृति कारणत्वं गौरवात् परित्यज्य शक्य- तावच्छेदकविशेषघटितरूपेणैव कारणत्वस्य वाच्यतया तुल्यन्यायेन लक्षणाग्रहत्यापि व्यक्तिविशेषघटितरूपे. दिनकरीयम् . तस्यादौ तात्पर्य प्रहस्थले । तेनैव रूपेणेति ॥ न च गजायामित्यादौ गजातीरत्वेन बोधे जहत्स्वार्थत्व हानिरिति वाच्यम् । तीरत्वेन लक्षणायामेव जहत्स्वार्थत्वस्य सर्वसम्मतत्वात् । गङ्गातीरत्वेन भाने त्वजइत्स्वाथैव लक्षणे - ति। एवं पूर्वोक्तस्थले यष्टी: प्रवेशय मञ्चाः क्रोशन्तीत्यादावपि यष्टिधरत्वमञ्चस्थत्वादिना बोधे अजहत्स्वार्थव लक्षणेति ध्येयम् ॥ अत एव तद्धर्मविशिष्ट लक्षणाग्रहस्य तेन रूपेणोपस्थितिशाब्दबोधौ प्रति हेतुत्वादेव । एवञ्च रामरूद्रीयम. शक्यार्थस्य विशेषणतया भानेऽपि नाजस्वार्थताभङ्गः । यादशलक्षणया शक्यार्थस्य कथञ्चिदपि न बोधः । तस्या एव जहत्स्वार्थत्वात् । अत एव गङ्गापदस्य यत्र गङ्गात्तीरत्वेन लक्षणा साजहत्स्वार्था । यत्र तु ती-1 रत्वेन लक्षणा तत्रैव जहत्स्वाति न्यायमतेऽपि छत्रीत्यादौ अजहरस्वार्थलक्षणोपपादनमिति ध्येयम् ॥ ती- रत्वेनेति ॥ इदमपि पूर्वोक्तिविरुद्वमेव छविघटित समुदायलक्षकच्छत्रपदस्य विशेषणतया छत्रबोधकत्वेन ।