पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् । समवायस्तथाऽभावः पदार्थाः सप्त कीर्तिताः ॥ २ ॥ पदार्थान्विमजते । व्यमिति ॥ अन्न सप्तमस्याभावत्वकथनादेव षण्णा भावत्वं प्राप्त प्रभा. प्रयत्नजन्यः धृतित्वात् , प्रपञ्चनाशः प्रयत्नजन्यः नाशत्यात् , घटपदं घटे पुरुषविशेषसङ्केतितं पदत्वात् नदीवृद्धयादिपदवत् , वेदवाक्यजन्यप्रमा यथार्थतात्पर्यशागजन्या शाब्दप्रमात्वात् , वेदः अशरीरिपुरुष- प्रणीतः वेदत्वात् , बेदः पुरुषकतकः वाक्यत्वात् , द्वयणकपरिमाण जानिका संख्या अपेक्षाबुद्धिजन्या एक- त्वान्यसंख्यात्वात् इति नवानुमानानीश्वरसाधकानि आचार्योक्तानीति चेदितव्यानि । इदानी संसारमहीमहस्येत्यत्र संसारशब्देन जननमरणप्रवाहविशिष्टपदार्थमात्रस्योपस्थितौ विशेष्यतया पदार्थत्वेन पदार्थमात्रस्योपस्थितत्वात प्रसङ्गसङ्गत्या मूले पदार्थाग्निरूपयति-द्रव्यं गुण इति ॥ यत इत्यादिः । पदार्थ इत्यस्य विपरिणामेन द्रव्यादिषु प्रत्येकमन्वयः । तेन यतः द्रव्यादिक पदार्थः अतः पदार्थास्सप्रेत्यन्वयो लभ्यते । न च विशेषराहि- तसामान्यस्यैव सामान्य सविशेषकमित्यनेन लाभात् कथं पदार्थानां सप्तत्वलाभ इति वाच्यम् । घट बकपालं द्रव्यमित्यादौ कपाले अन्वितस्य द्रव्यत्वस्य बाधकाभावेन विशेषणे घटेऽपि यथा अन्वयः, तथा विशेषसहितसामान्ये अन्वितस्य पदार्थत्वस्य बाधकामाचेन विशेषणभूते विशेषेऽप्यन्वयसंभवात् । अथ वा द्रव्यादीनां सर्वेषां प्रत्यक्षसिद्धतया तेषु पदार्थत्वान्ययेऽपि विशेषस्याळीकतया तत्र कथं पदार्थस्यान्वय इत्यत्त आह-सविशेषकमिति ॥ विशेषेण सहितं सविशेष प्रविशेषमेव सविशेषकमिति विग्रहेण परमाणूनां परस्परभेदसाधकत्वरूपविशेषविशिष्टो विशेष इत्यर्थों लभ्यते, तथा च विशेषपदार्थांनङ्गीकारे परमाणूनां परस्परभेदसिद्धिरेव न भवतीति ताटशभेदसिद्ध्यर्थं विशेषपदार्थोऽनीकर्तव्य इति भावः । एवञ्च विशेषस्य प्रत्यक्षसिद्धत्वाभावेऽप्यनुमानप्रमाणसिद्धतया तत्र पदार्थत्वान्वये वाधकाभावेन पदार्थानां सप्तत्वलाभो भव- तीति मूलाभिप्रायः । विभागात्मकमेव कर्म न तु विभाग जनकमिति भूषणमतं नियुक्तिकमिति सूचयितुं तथेत्युक्तं । यथा गुणः अतिरिक्तपदार्थः तथा कर्मापीति भावः । अभावस्य भावात्मकत्वमेवेति मीमांसक. मतमपि नियुक्तिकमिति सूचयितुं तथेत्युक्त, अथा समवायः अतिरिक्तः तथा अभावोऽपीति भावः । युक्तिश्च तत्तनिरूपणावसरे प्रदश्यते । यद्यप्यत्र विभागवाक्यादेव पदार्थविभाजकधर्माणां सप्तत्वं लभ्यते तथापि उत्पन्न ज्ञाने अप्रामाण्यज्ञानानुत्पत्त्यर्थ सप्तेति संख्यावाचकादं प्रयुक्तं, तथाहि ब्राह्मणमानयेत्यत्र एकवचनेन ब्राह्मणस्य एकत्वबोधनेऽपि द्वितीयस्यानयननिषेधालाभेन द्वितीय आनीयतान्न वेति सन्देहः जायते, एकब्राह्मणमानयेत्यत्र नु सङ्ख्यावाचकादिपदानां इतरनिषेधबोधकतया द्वितीयस्य यथा आनयननिषेधलाभः तथा विभागवाक्यात् विभाजकधर्मेषु सप्तत्वलाभेऽपि अष्टत्वादिसंग्यानिषेधालाभेन तादशधर्मेषु अष्टत्वसंख्यासंशयसम्भवेन उत्पन्न. सप्तत्वज्ञाने अप्रामाण्यसंशयसंभवात् तादशसख्यानिरासाय सप्तपदं प्रयुक्तमिति। अन्ये विभाजकधर्माः कुतो नोक्ता इत्यत आह-कीर्तिता इति । तथाच पदार्थविभाजकधर्मेषु द्रव्यत्वाद्यभावत्वान्तपदार्थवि- भाजकधर्मान्यतमभिन्नत्वन्नास्त्येव कणादेन महर्षिणा तन्मतानुयायिगङ्गे शोपाध्यायेन चाप्रतिपादनादिति भावः । दिनकरीयम् . मूले शिष्यावधानाय-प्रतिजानीते---द्रव्यं गुण इति ॥ निरू यन्त इति शेषः । संयोगापेक्षया कर्मणोऽतिरिक्तत्वं नास्ति इति भूषणकारमतं निराकर्तुं तथेत्युक्तं । यथा गुणः पृथक् पदार्थः तथा कर्मापी. त्यर्थः । अभावोऽधिकरणात्मक इति प्राभाकरमतं दूषयितुं पुनस्तयेत्युक्तं, युक्तिश्चाने वक्ष्यते । यद्यपि वि. भागवाक्यस्य न्यूनाधिकसंख्याव्यवच्छेदकतयैव सप्तसङ्खगा लब्धा तथापि सप्ताहणं स्पष्टार्थम् । नन्वन्ये रामरुद्रीयम् . प्रतिजानीत इति। स्वकर्तव्यत्वेन निर्देशः प्रतिज्ञा। द्रव्यं गुण इत्यादिकारिकायां द्रव्यादिनिरूपणे स्वकर्त- व्यत्वाप्रतिपादनात प्रतिजानीत इत्यसङ्गतमतः शेषं पुरयति-निरूप्यन्त इतीति। न्यूनाधिकसङ्ख्येति ॥ 7