पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुफावली-प्रभा-दिनकरीय-रामहद्रीयसमन्विता । ५७१ तिप्रतिसन्धान विनापि व्यक्तिबोधात् । न च व्यक्तिशक्तावानन्यम् । सकलव्यक्तावेक- स्या एव शक्तः स्वीकारात् । न चाननुगमः । गोत्वादेरेवानुगमकत्वात् । किंच गौः शक्येति प्रभा, णिकत्वाञ्च । ननु गवादिपदानां न व्यक्ती शक्तिः किन्तु लक्षणैव तावतैव वृत्तिज्ञान सहकृत- पदज्ञानजन्यव्यक्तिस्मरणसंभवेन व्यक्तेशाब्दबोधविषयत्वसंभवादिति मतं दूषयति ॥ नचेति ॥ नहीत्यर्थः ॥ व्यक्तो लक्षणेति ॥ व्यक्ती स्वारसिकलक्षणेत्यर्थः । निरूढलक्षणायां वक्ष्यमाणदो- षासमतेः ॥ अनुपपत्तिप्रतिसन्धान विनापीति ॥ गामानयेत्यादी गोत्वादेरानयनकर्मत्वान्वयानुपप- त्तिप्रतिसन्धानात् गोपदस्य गवि लक्षणास्वीकारेऽपि गौरस्ति तां पश्येत्यादौ गोत्वादेरस्तित्वदर्शनकमत्वान्व - यानुपपत्तिप्रतिसन्धानरूपलक्षणानियामकस्याभावेन तत्र लक्षणायाः स्वीकर्तुमशक्यत्वादिति भावः। यत्तु गवा- दिपदानां न व्यक्तौ लक्षणा युगपद्भुत्तिद्वयावरोधात सकृदुश्चरितइशब्दः सकृदेवार्थ गमयतीति न्यायादत एव गङ्गायां घोष इत्यादौ गङ्गापदात् शक्त्या प्रवाहोपस्थिति लक्षणया तीरोपस्थितिं च संपाद्य प्रवाहस्य घोषान्व - यानुपपत्तिप्रतिसन्धानात् शाब्दबोधविषयत्वासंभवेऽपि बाधकामावालक्ष्यार्थस्य शाब्दबोधविषयत्वमित्याक्षि. प्य युगपत्तिद्वयविरोधेन शक्तिज्ञानलक्षणाज्ञानोभयसहकृतैकपदज्ञानाधीनशक्यार्थलक्ष्यार्थोभयविषयकस्मृतेः शाब्दबोधहेतुत्वं निराकृत्य तादृशवाक्यघटकगङ्गापदश्रवणाच्छक्तिज्ञानसहकृतात् प्रवाहोपस्थिती तन सम- भिव्याहतपदार्थान्वयानुपपत्तिप्रतिसन्धानानन्तरं पुनः स्मृतगङ्गापदालक्षणाज्ञानसहकृताज्जायमानतीरस्मरणे नैव तीरविषयकशाब्दबोध इति लक्षणावादे मधुरानाथतकंवागीशभट्टाचार्यलेखनमपि सङ्गच्छत इति तन्न । सति तात्पर्य गङ्गायां मत्स्यघोषौ स्त इति वाक्यघटकगङ्गापदभ्रवणात् शक्तिज्ञानलक्षणाज्ञानसहकृताच्छक्यार्थप्रया. हलक्ष्यार्थतीरोभयविषयकस्मृत्या प्रवाहतीरोभयविषयकशाब्दबोधस्य सर्वानुभवसिद्धत्वेन सर्वत युगपत्तिद्व- यविरोधे मानाभावात् सकृदुच्चरित इत्यायुक्तन्यायस्यापि तात्पर्याभावस्थल एव प्रवृत्तिस्वीकारात् । गङ्गायां घोष इत्यादौ शक्यार्थलक्ष्यार्थोभयबोधे तात्पर्याभावेन युगपत्तिद्वयविरोधप्रसक्त्या तादृशशक्यलक्ष्योभयस्मृ- तेदशाब्दबोधहेतुत्वासंभवात् गङ्गापदस्मरणं पुनः परिकल्प्य लक्षशाज्ञानसहकृततादृशस्मरणजन्यतीरोपस्थित्या दिनकरीयम्. ताक्तैव वृत्त्या पदजन्यपदार्थोपस्थितेर्निर्वाहादिति भावः ॥ अनुपपत्तिप्रतिसन्धानं विनापीति ॥ गामानयेत्यादौ मोत्वज्ञातेरानयनान्वयानुपपत्त्या गोपदस्य गवि लक्षणास्वीकारेऽपि गौरस्तोलादौ गोत्वजाते. रस्तित्वाद्यन्वयानुपपत्तेर्लक्षणाबीजस्याभावेन लक्षणाया; स्वीकर्तुमशक्यत्वादिति भावः । स्वमते पूर्वोक्त- दोषमाशङ्कय वारयति ॥ न चेत्यादिना ॥ एकस्या इति ॥ ईश्वरेच्छारूपायास्तस्या एकत्वादित्यर्थः ॥ न चाननुगम इति ॥ गोव्यक्तीनामननुगततया विषयतासम्बन्धेन शक्तिज्ञानकार णतायामवच्छेदक- स्वासम्भव इत्यर्थः ॥ गात्वादेरेवेति । तथाच गोशाब्दबोधे गोत्वविशिष्टविषयकशकिज्ञानत्वेन हेतुत्वा- रामरुद्रीयम् . दरूपैकसम्बन्धिज्ञानाजातिख्यसम्बन्ध्यन्तरस्यैव स्मरणं भवति न तु व्यवेरिति पदजन्य व्यक्तिस्मरणाभावेन व्यक्तिशाब्दबोधानिर्वाहात व्यक्तौ शक्तिरावश्यको ति भावः । ननु व्यक्तौ पदस्य लक्षणास्वीकारेऽपि शक्त्या पदजन्यव्यक्तिस्मरणाभावेन कथं व्यक्तिविषयकशाब्दवोध इत्याशङ्कायामाह ॥ तावतैवेति ॥ निर्वाहा. दिति ॥ शक्तिलक्षणयोर्द्वयोरपि वृत्तित्वादिति भावः ॥ पूर्वोक्तेति ॥ शक्त्यानन्त्यप्रसङ्गरूपेत्यर्थः ॥ अननुग. ततयेति ॥ अननुगतानतिप्रसक्तधर्मावच्छिन्नतयेत्यर्थः ॥ अवच्छेदकत्वासम्भव' इति ॥ व्यक्ति षु तथाविधैकधर्मसत्त्वे तदवाच्छिन्नविषयकशाब्दं प्रति तदवच्छिन्नविशेष्यकशक्तिज्ञानत्वेन हेतुतासम्भवाच्छक्ति. ज्ञाननिष्ठकारणतायां विषयविधया शक्तरेवावच्छेदकत्वं सम्भवति न तादृशधाभाव इत्यर्थः । न च तद्विष. यकशाब्दबोधं प्रति तद्विषयकशक्तिज्ञानं हेतुरस्त्विति वाच्यम् । तथा सति शक्विज्ञानाविषयस्य पूर्वाननुभू. तगवादेःशाब्दबोधामुपपत्तेरिति भावः । व्यक्तीनां मोत्वेनानुगमे व्यक्तर्यथा शक्तिज्ञाननिष्ठकारणतायामवच्छे- दकत्वसम्भवस्तथोपपादयति ॥ तथाचेति ॥ गोशाब्दबोधे ॥ गोस्वावच्छिन्नविषयकशाब्दबोधे इत्य