पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्डम् मिति केचित् । तन्न । शक्तिं विना व्यक्तिभानानुपपत्तेः । न च व्यक्तौ लक्षणा । अनुपप. प्रमा. विषयत्वरूपशक्तीनां भिनत्वेन तदाननत्यादित्यर्थः । तथाचानन्तशक्तिकल्पनायां गौरवाद्यक्तौ शक्तिर्न स्वीका- येति भावः । नन्वेवं सति शब्दयोधे व्यक्तिमानानुपपत्तिरत आह ॥ व्यक्ति विनेति । व्यक्किमविषयीकृत्ये. स्यर्थः । जातिभानस्येति || स्वरूपतो जातिविषयत्वस्येत्यर्थः ।। असंभवादिति ॥ व्यक्तयविषयक- स्वरूपतोजातिनिष्टविषयताशालिवोधौपथिकसामय्यभावादिति भावः ॥ व्यक्तरपि भानमिति । अन्यथानु- पपत्त्या व्यक्तरपिं विषयत्वमित्यर्थः । तथाच स्वरूपती जातिप्रका(कव्यक्तिविशेष्यकशाब्दबोध प्रति जातिशक्ति- ज्ञानत्वेन हेतुत्वातादृशकारणवलात् शाब्दबोधे जातेरिव व्यक्तेरपि विषयत्वमावश्यकामिति भावः । अत्र यद्यपि व्यक्तावेव शक्ति परिकल्प्य निरुक्तशाब्दबोधं प्रति व्यक्ति शक्तिज्ञानत्वेन हेतुत्वं शक्यते वक्तुं तथाप्यनन्तशक्ति. कल्पनागौरवमिया व्यक्तिशक्तिस्वीकारासंभवात तज्ज्ञानस्य हेतुस्वमुपेक्षितमिति हृदयम् ॥ शक्ति विने- ति ।। व्यक्तौ शक्त्यस्वीकार इत्यर्थः । व्यक्तिभानानुपपत्तेरिद्धि ॥ व्यक्तेश्शाब्दबोधविषयत्वानुपपत्ते. रित्यर्थः । वृत्तिज्ञानसहकृतपदज्ञानजन्यपदाथोंपाथितयशाब्दबोधहेतुत्वात् । अन्यथा गामानयति वाक्यज्ञाना- धीनशाब्दबोधे घटादेपि विषयत्वापत्तेः । शक्यत्वाविशेषादिति भावः । कुब्जशक्तिवादिनस्तु गवादिपदा- नां गोत्वे गवि च शक्तिः परन्तु जाती शक्तिआता सत्युपयुज्यते व्यको शक्तिः कुजा सत्यपयुज्यते ।जा- तिशक्तेतित्वं च शाब्दबोधनकस्मृतिनिरूपितशविज्ञाननिष्ट कारणतानिरूपितविषयतासंबन्धावच्छिन्नश- क्तिनिष्टावच्छेदकता जातिविषयकत्वावच्छिन्नत्वमेव । तादृशावच्छेदकतायां व्यक्तिविषयत्वानवच्छिनत्व- मेव शक्तेाक्त्यंशे कुजत्वं । तादृशशक्तिमहस्य गोपदनिरूपितगोत्वविषयक शक्तिमती रित्येवाकारः । एता- दृशशक्तिज्ञाने गोत्वविषयकत्वेन शक्तविघयत्वात् गोत्वांशे शातत्वं । गोविषय कत्वेन शकेरविषयत्वात् तदंशे कुजत्वम् । तथाच गोविशेष्यक गोपदनिरूपितगोत्वविषयकशक्तिप्रकारकज्ञानसहकृत गोपदज्ञानात् कारणताव- च्छेदककोटौ गोविषयकत्वनिवेशेन गोत्वस्येव गोरपि स्मृतिसंभवात् गोपदान्न गोविषयकशाब्दवोधानुपपत्तिःत- च्छाब्दबोधं प्रति तच्छतपदज्ञानत्वेन हेतुत्वात् शक्तिज्ञानसहकृतगोपदज्ञानात् घटादिविषयकशाब्दबोधाप- त्तिने त्याहुः तन्न गोत्वे यदि शक्तिरित्यादिप्रन्थेन जातिशक्तिपक्षस्य मूलकृतैव दूषणीयत्वात् गोत्व- प्रकारकगोविशष्यकस्मृती गोत्वावच्छिन्नविशेष्यतानिरूपित गोत्वविषयकत्वादच्छिन्नंगोपदनिरूपितशक्ति- निष्टप्रकारताशालिज्ञानत्वेन न हेतुत्वं कारणतावच्छेदककोटौ गोत्वविषयकत्वानिवेशे गौरवात् प्रयोज- नाभावाच । किंतु गोर्गोपदशक्येत्या कारकगोत्वावच्छिन्नविशेष्यतानिरूपितगोपदनिरूपित शक्तिनिष्ठप्रका- रताशालिज्ञानत्वेनैव हेतुत्वं लाधवात् तावतच गोत्वप्रकारकगोविशेष्य कस्मृतिसंभवाच । एवंच शक्ति- निष्ठनिस्तावच्छेदकतायां जातिविषयकत्वावच्छिन्नत्वे प्रमाणाभावेन शक्तनिरुक्तज्ञातत्वकुब्जत्वयोरप्रामा- दिनकरीयम्. मप्रथा एव व्यक्तिभासकवादिति भावः । इदमेव कथमिति चेत् व्यक्तिविशेष्यक जातिप्रकारकशाब्दबोधे जातिविषयक शक्तिज्ञानत्वेन हेतुत्वात् । न च तादृशवोधे व्यक्तिशक्ति ज्ञानत्वेन हेतुत्वमुपगम्य व्यक्तावेव शक्तिः किं नाङ्गीक्रियत इति वाच्यम् । तथा सति उक्तानन्त्यादिदोषप्रसङ्गादिति ॥ शक्ति चिनेति ॥ पदजन्यपदार्थोपस्थितः शाब्दबोधं प्रति हेतुतया व्याक्तिशक्ति विना तद्भानानिर्वाहादिति भावः ।। लक्षणेति ॥ रामरुद्रीयम् . सकलव्यक्तिषु शक्तिम्वीकारे व्यक्तीनामानन्त्येन शक्तीनामानन्त्यमिति द्वितीयदूषणसतिरिति भावः । मूले व्यक्ती शक्त्यभाचे शाब्दबोधे व्यक्तिमानासम्भव इत्याशङ्कायां व्यक्ति विना जातिभानासम्भवात् व्य- क्तिभानमित्युक्तम् । तन्न सङ्गच्छते । यत्र गोत्वमुख्यविशेष्यकस्मरणं तत्र व्यक्ति विनापि जातिभानात् एवं व्यक्तिभासकधामग्रीमन्तरेण शाब्दबोधे व्यक्तिभानासम्भवाच्चेत्यतस्तद्गन्धं व्याचष्टे ॥ जातीति ॥ हेतुत्वा- दिति ॥ तथाच जातिविशेष्यकशक्तिज्ञानं शाब्दबोधे जातिभासकम् । तदेव व्यक्तिभासकमपीति भावः ॥ प. दजन्येति ॥ तद्विषयकशाब्दबोधं प्रति तावषयकपदजन्योपस्थितेहेतुतया जातिपदयोरेव सम्बन्धग्रहेण प.