पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरूद्रीयसमन्विता । प्रभा. लादिकत्यभाव घटाद्यनुत्पत्तिरित्यन्वयव्यतिरेकाभ्यां घटत्वाचवच्छिन्न प्रति कुलालादिकृतित्वंन हेतुता मिला न तु कार्यत्वावच्छिन्नं प्रति कृतित्वेनापि हेतुता, तथा अन्वयव्यतिरेकयोग्दर्शनात् । तथापि यद्विशेष गोरिति न्यायेन वाघज्ञानाभावे सति विशेषरूपंणान्वयव्यतिरंकवलादेव सामान्यरूपेणापि कारणत्वस्वीकारे बाधका. भावात् । न च ताशन्याये मानाभाव इति वाच्यम् । तथासति कार्यत्वावनिछन्नाभावे तत्तत्कृतित्वावच्छि- नाभावकूटस्य प्रयोजकत्वापत्त्या गौरवापत्तः । कृति वन हेतुत्वस्वीकार कार्याभावे कृतित्वावच्छिन्नाभावस्यैकस्य प्रयोजकत्वस्वीकारेण लाववादिनि । नवनिमतानुयायिनस्तु तादशसामान्य कार्यकारणभावाभावेऽपि घटत्वाधव च्छिन्नं प्रति कुलालादिकृतित्वेन हेतुत्वस्य कृप्ततया, सर्गाद्यकालीनघटध्यक्ति खण्डवटव्यक्ति वा पक्षाकृत्य घटत्वहेतुना सकर्तृकत्वसाधने सर्गाद्यकाल कुलालाभावानत्कुलालस्य खण्डघटानुकलगनाभावाच तदाश्रयतया ईश्वरसिद्धिरित्याहुः । तदसत् , साधकाले घटोत्पत्तो मानाभावात् । इश्वरस्य चिकीर्षावशात आदी परमाणु द्रव्यारम्भानुगुणक्रियाया एव उत्पत्तिः, ततः दूधणुकादिक्रमेण महापृथिव्यादिभूतचतुष्टयोत्पत्त्यनन्तरं ब्रह्मण- दिनकरीयम् - कुलालादिकृतित्वेनैव हेतुत्वादेतादश कार्यकारणभावे मानाभाव इति वाच्यम् । घटत्वपटत्यादिभेदेनानन्तकार्य- कारणभाव कल्पनापेक्षया कार्यत्वावच्छिन्नं प्रति कृतित्वेनकहेतुताकल्पनस्यैवाचितत्वात् । यद्विशेषयोरिति न्यायेन कार्थत्वकृतित्वाभ्यां सामान्य कार्यकारणभावस्यावश्यकत्वाच्च । नचैतादृशन्यायो निष्प्रमाणक इति वाच्य, कार्यत्वावच्छिन्नाभावे तत्तत्कृत्यभावकूटस्य प्रयोजकत्वकल्पने गौरवात् , कृतित्वावच्छिन्नाभावस्यैक्रस्य रामरूद्रीयम् . जन्यत्वापेक्षया शरीरजन्यत्वत्वस्य गुरुत्वेन तदवन्छिन्न प्रतियोगिताकाभावस्य तन्मतेऽप्रसिद्धया न तस्य हेतुतासंभव इति यावन्ति शरीरजन्यन्वानि तावत्प्रतियोगिकाभावत्वेनैव हेतुता वाच्या । तथा च तदपेक्षया लघुभूतेन कृतिजन्यन्वत्वावच्छिन्न प्रतियोगिताकाभावत्वेनैव तस्य हेतुता युक्ता । तन्मत शरीराजन्यकृतिजन्य पदार्थस्यानभ्युपगमेन तादृशाभावे कृतिजन्यत्वत्वावच्छिन्न प्रतियोगिताकत्वस्यैव तैरभ्यु- पगमसंभवादिति दूषणं सारमिति। अन्वयव्यतिरेकाभ्यामिति ॥ कुलालकृतिसत्वे घटसत्त्वं तदभाव तद- भाव इत्यन्वयव्यतिरेकाभ्यामित्यर्थः । कुलालादिकृतित्वेनैवेति । यद्पावच्छिन्नयोरन्वयव्यतिरेकग्रह- स्तद्रूपावच्छिन्नयोरेब कार्यकारणभावनियमादिति भावः । एतादृशकार्यकारणभावे -कृतित्वावच्छिन्न- कारणत्वकार्यत्वावच्छिन्नजन्यत्वस्वरूपे । मानाभाव इति ॥ अन्यथा घटत्वदण्डत्वादिना अन्वयव्यतिरेक- प्रहादेव दव्यत्व-समवेतद्रव्यत्वाभ्यामेककार्यकारणभावकल्पनस्यैव युक्ततया, बटादिकं प्रति दण्डत्वादिना का- रणताविलयप्रसंगात । न चोक्तान्वयव्यतिरेकाभ्यां विशिष्य हेतुतासिद्धावपि, कृतिसत्त्व कार्यसत्त्वं कृत्य भाव कार्याभाव इत्यन्वयव्यतिरेकाभ्यां, कार्यत्वकृतित्वाभ्यामपि कार्यकारणभावोऽवयं इति वाच्यम् । सृष्टिकाले कृतिसामान्याभावस्य जन्य सामान्याभावस्य च काप्यनिश्चयेन, प्रलये चास्म दादीनामभावन तादृशान्वयध्य- तिरेकग्रहस्य बासिद्धेः। यद्धर्मावच्छिन्नयोरन्वयव्यतिरेकसहचारग्रहस्तद्धर्मावच्छिन्न योरेच कार्यकारणभावग्रह इत्या- त्सर्गिको नियमः इत्यभिप्रेत्याह-एकहेतुत्वकल्पनस्यैवेति । प्रकृते घटत्वपटत्वकुलालकृतित्वतन्नुवायकृति- त्वाद्यवच्छिन्नानन्तकार्यकारणगावे गौरवनिश्रयम्पबाधकसत्त्वात् , कार्यत्वकृतित्वाभ्यामेक एव कार्यकारणभावः कलाप्यत इति भावः । ननु तन्तुवायकृतिसत्त्वे घटोत्पत्तिवारणाय विशेषतोऽन्वयव्यतिरेकाभ्यां घटत्वकुलालकृति - वादिना विशेषकार्यकारणभावानामावश्यकत्वन, तादशान्वयव्यतरंकग्रहः कार्यत्वकृतिन्वाभ्यां सामान्य कार्य- कारणभावकल्पनेऽपि तादृशगौरवस्याङ्गीकरणीयत्वादियतस्तत्साधक हेत्वंतरमाह-यद्विशेषयोरिति । 'अद्वि- शेषयोः कार्यकारणभावोऽसति बाधके तत्सामान्योरपि ' इति न्याबः । मीमांसकमत चाचर्य प्रति रूपं, स्पा- शनं प्रति स्पर्शः, कारणं । बहिरिन्द्रियजन्यप्रत्यक्षसामान्य न रूप न वा स्पर्शः कारणं, प्रभावाथ्योः प्रत्यक्ष व्यभिचारात् । नापि गुणः कारणमतिप्रसंगात् । नापि रूपस्पशान्यतरत्कारणमन्यतरत्वस्थापि गुरुत्वात् , विनि- गमनाविरहेण गुरुतरकारणताद्वयप्रसंगाचेत्येतो न्याये असत्ति बाधक इत्युक्तम् । आवश्यकत्वाच्चेति ॥