पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२६ कारिकावली [अनुमानखण्डम धस्तु पक्षे साथ्याभावादिः एतस्य त्वनुमितिप्रतिवन्धः फलम् तद्धर्मिकतदभावनिश्चयो लौ- किकसन्निकर्पाजन्यदोषविशेषाजन्यतद्धर्मिकतज्ज्ञानमाले विरोधीति न तु संशयसाधारणं पक्षे प्रभा. द्धेस्सुतरामभावेन हीलधूमादिहेतोर्न दोपचत्त्वम् किंतु पर्वते नीलधूमेन वह्निस्त्ववा साध्य इति समयबन्ध. स्थलेऽधिकोत्या पुरुषस्य निग्रहस्थानाभावेऽपि तच्छ्न्यस्थले नीलधूमहेतुप्रयोग पुरुषस्यैवाधिकोक्तिरूपनि हस्थानरूपदोषवत्वमित्याहुरेतदभिप्रायेणैव वदन्तीत्युक्तमिति ध्येयम् ॥ साध्याभावादिरिति ॥ आदि. पदात्साध्यवदन्यत्वपार प्रहः ॥ तद्धर्मिकेत्यादि । अनाहार्याप्रामाण्यज्ञानानास्कन्दिततधर्मावच्छिन्नविशेष्यता- निरूपिततद्धर्मावच्छिन्न प्रतियोगिताकाभावनिर्णय इत्यर्थः ।। लौकिकसन्निकर्पत्यादि ॥ तद्धर्मिकसाक्षात्कार- स्वव्यञ्जकविषयतान्या तदभाव निष्ठावच्छेदकत्वानिरूपिता या तनिष्ठप्रकारता तच्छालिज्ञानत्वावच्छिन्न इत्यर्थः । यथाश्रुतार्थकरणे उक्तगौरवादिदोषापत्तेः । अत्र केचित् शङ्कांसे अनुभूयमानस्य पीतव्यस्य पीतिम्न एव पित्तदोषसहकृतच संयुक्तसमवायसन्निकर्षात् शङ्ख पीत इति पतिरूपनिष्ठलौकिकविषयताशाल्यारोपस्वीका- दिनकरीयम्. वगाहिज्ञानादनुमिलापत्तिवारणाय हेतुतावच्छेदकावच्छेदन व्याप्तिज्ञानस्यैव कारणतया तद्विरोधितया निरुक्त व्याप्यत्वासिद्धिर्हत्वाभास इति वाच्यम् । तावताप्यनतिरिक्तवृत्तिल्यावच्छेदकत्वज्ञानस्य कारणत्वेन किं. चिट्ठाधकम् । तत्र स्वरूपसम्बन्धरूपावच्छेदकरवाभावग्रहस्य ग्राह्याभावानवगाहितयाऽविरोधित्वात् तस्माध्य- र्थविशेषणस्थलें न व्याप्य त्वासिद्धिः हेत्वाभासः पुरषस्त्वधिकेन निगृह्यत इति ॥ साध्याभावादिरियादिना साध्यवदन्यत्वस्य पक्षावृत्तिसाध्यादेश्व परिग्रहः ॥ तद्धर्मिकतभावनिश्चयः अनाहार्याप्रामाण्यज्ञा- नानास्कन्दिततद्धर्मिकतदभावनिश्चयः । बाथबुद्ध-युत्तरक्षणे लौकिकसन्निकर्षजन्यविशिष्टयुद्धरानुभविकत्वादाह ॥ लौकिकसन्निकर्षाजन्येति ॥ नन्वेवं तदिन्द्रियजन्यलौकिकबाधनिश्चयोत्तरं तदिन्द्रियजन्यलौकिक- तद्विशिष्टयुद्धयापत्तिरिति चेन । अलौकिकत्वं प्रतिबध्यतावच्छेदककोटावनिवेदय तदिन्द्रिय जन्यतद्विशिष्टवुद्धौ तदिन्द्रिय जन्यलौकिकतदभावनिश्चयत्वेन प्रतिबन्धकत्वोपगमात् तदिन्द्रियजन्योपनीतभानात्मकबाधनिश्च- योत्तरं तदिन्द्रियंजन्य लौकिकतद्विशिष्टबुद्ध युदयात प्रतिबन्धकतावच्छेदककोटौ लौकिकत्वनिवेशः । नच लौ- किकतदिन्द्रिय जन्याभावप्रमास्थले तदधिकरणे प्रतियोगिनोऽसत्त्वादेव न तद्विशिष्टलौकिकप्रत्यक्षापत्तिरित्य. लं तथाविधप्रतिबध्यप्रतिबन्धकभावेनेति वाच्यम् । यत्र प्रतियोग्यधिकरण एव सन्निकृष्टाधिकरणान्तरवृत्तेर- भावस्य लौकिकप्रत्यक्षात्मकारोपो दोषेण जनितस्तदुत्तरं तदधिकरणे प्रतियोगिनो लौकिकप्रत्यक्षापादनात् तत्रामावलौकिकप्रत्यक्षजनकदोषस्य प्रतिबन्धकत्वादेव नेयमापत्तिरन्यथाऽभावारोपोत्पत्तिक्षणे प्रतियोगिता त्यक्षापत्तिरिति तु न यत्र विनश्यदवस्थदोषेणाभावलौकिकप्रत्यक्षात्मकारोपस्तदुत्तरं प्रतियोगिप्रत्यक्षापादनात रामरुद्रीयम् . हिव्याप्य इति ज्ञानान्तरतोऽनुमिति न्यथेति भावः ॥ तावतापि । उक्तस्थलेऽनुमितिवारणानुरोधेनापि । उपसंहरति ॥ तस्मादिति ॥ गुरुधर्मस्य हेतुतावच्छेदकत्वस्थले सर्वस प्राचीनाप्यत्वासिद्धिनाङ्गीक्रियते । अपितु स्वसमानाधिकरणब्याप्यतावच्छेदकधर्मान्तरघटितस्य तथात्व एवेत्यभिप्रायेणाह ॥ व्यर्थघि. शेषणस्थल इति ॥ अधिकेनेति ॥ अधिको तेनिग्रहस्थानत्वेन निदित्युक्त्यैव सामजस्ये नीलपदप्रयो. मस्याधिकन्वादिति भावः । साध्यादेश्वेत्यादिना साध्याभायवपक्षसाध्यवयपक्षयोः परिग्रहः । प्रतिबध्य- सावच्छेदककोटी लौकिकसविकर्षाज यन्वनिवेशस्य फलमाह ॥ याक्युद्धथुत्तरक्षण इति ॥ एवं प्रति- बध्यतावच्छेदककोसावलौकिकत्वनिवेशे । तद्विशिष्टयुद्धद्यापत्तिरिति ॥ गुमानेन्द्रिय जन्यवाधबुद्धयुक्त- रलौकिकसन्निकर्षेणापि तद्विशिष्टबुद्धेरनुपगमानानेष्टापत्तिरपि संभवतीति भावः ॥ अलौकिकत्वं लौकिकस- भिक(जन्यत्वम् । ननु लौकिकाभावप्रमायो सत्यां प्रतियोगिनि लौकिकसन्निकर्षासंभवादेव न लौकिकतद्व- ताद्धयापत्तिरिति किं समानेन्द्रियस्थले प्रतिबध्यप्रतिबन्धकभावान्तरेणेति शकते ॥ नचेति ॥प्रतियोगि. प्रत्यक्षापादनात तस्प्रत्यक्षापादनसंभवात् । लौकिकाभावभ्रमस्थले प्रयोजनमुपपाद्य प्रमास्थले तदाह ॥ . -