पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा-दिनकरीय-रामस्द्रीयसमन्विता । ५२५ शिष्टहेतुज्ञानाभावात् तद्धेतुकव्याप्तिज्ञानादेरभावः फलम् । एवं वह्निमान् नीलधूमादित्या. दौ गुरुतया नीलधूमत्वस्य हेतुतानवच्छेदकत्वमपि व्याप्यत्वासिद्धिरित्यपि वदन्ति । बा- प्रभा. साध्याप्रसिद्धिसाधनाप्रसिद्धयोः परिग्रहः ॥ व्याप्यत्वासिद्धिरिति ॥ अत्र नीलधूमत्वस्य गुरुतया व्या. प्यतानिरूपितस्वरूपसंवन्धरूपावच्छेदकत्वाभावेन व्याप्तौ तदवाच्छन्नत्वाभावेन हेतौ व्याप्य नवच्छेदकनी. लधूमत्वावच्छेदेन व्याप्त्यभावस्थापि सत्त्वमावश्यकम् । नच नीलधूमे निरुक्ताव्याप्यत्वासिद्धिसत्त्वेऽपि तज्ज्ञा- बस्य व्याप्तिज्ञानाविरोधित्वेन हेत्वाभासत्वं न संभवतीति वाच्यम् प्राचीनमते नीलधूमत्वाश्रययावन्निष्ठनीलधू- मत्वावच्छिन्नविशेष्यताशालिव्याप्तिज्ञानरूपनीलधूमत्वावच्छेदेन व्याप्तिप्रकार कज्ञानस्यैवानुमितिकार णतया त- ज्ज्ञानं प्रति निरुकनीलधूमत्वावच्छेदेन व्याप्त्यभाववत्ताज्ञानरूपव्याप्यत्वासिद्धिज्ञानस्य ग्राह्याभावावगाहित- या प्रतिबन्धकत्वेन तस्य हेत्वाभासत्वं संभवतीति प्राचीनानामाशयः । एतदभिप्रायेणैव व्याप्यत्वासिर त्वं उक्तमिति ध्येयम् । नव्यास्तु नीलधूमत्वस्य लघुघूमत्वघाटितत्वेन गुरुतया व्याप्यतानिरूपितम्वरूपसंबन्ध. रूपावच्छेदकत्वासंभवेऽपि अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वमेव लक्षणघटकं वाच्यं अन्यथा इयं पृथिवी घ्राणग्राह्यगुणादित्यादौ गन्धत्वसमनियतस्य घ्राणप्राह्मगुणत्वस्य गुरुतया स्वरूपसंबन्धरूपावच्छेदकलाभावेन तत्रापि व्याप्यत्वासिद्धपापत्तेः । नच प्राणग्राह्यगुणत्वस्य गन्धत्वसमनिय तत्वेऽपि नीलधूमत्वादिवत् लघुधर्म- घटितत्वाभावात् तस्य तादृशावच्छेदकत्वे बाधकाभाव इति वाच्यम् अवच्छेदकत्वस्यानेकपदार्थस्वरूपसंब. न्धरूपत्वकल्पनागौरवस्थ लधुधर्मघटितत्वे तदघटितत्वे वा तुल्यतया तद्घटितत्वस्य तादृशावच्छेदकत्वानि- यामकत्वात् धूमप्रागभावनिष्टश्याप्यतायां तु धूमप्रागभावत्वसनियतलघुधर्मान्तराभावेन तस्य स्वरूपसंब- न्धरूपावच्छेदकत्वसंभवेऽपि उक्तस्थले तदसंभवेन लक्षणे स्वरूपसंवन्धरूपाचच्छेदकत्वनिवेशासंभवात् । एवंच नीलधूमत्वस्यानतिरिक्तवृत्तित्वरूपव्याप्यतावच्छेदकत्वसत्त्वेन तद्वच्छेदेन व्याप्त्यभावरूपव्याप्यत्वासि- दिनकरीयम् . केषांचिन्मतमाह ॥ एवं वह्निमानित्यादिना ॥ वदन्तीत्यने नास्वरसस्तद्वीजं तु नीलधूमे व्याप्तिसत्त्वात् कथं व्याप्यत्वासिद्धिः । नच तत्र व्याप्तिसत्त्वेऽपि नीलधूमत्वस्यानवच्छेदकतया तदवच्छेदेन व्याप्यत्वासि- द्धिरेवेति वाच्यम् । अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वस्य नीलधूमत्वेऽपि सरचात् । स्वरूपसम्बन्धरूपावच्छे- दकत्वाभावाद्वयाप्यत्वाप्रसिद्धिरित्यपि न । तथा सति पशुमान् सानादिमत इत्यादावपि व्याप्यत्वासिद्धयापत्तेः । सास्नाद्यपेक्षया गोत्वादिजातेलधुत्वेन सास्नादेः स्वरूपसंवन्धरूपावच्छेदकत्वाभावात् । अस्तु वा नीलधूमत्वादेः स्वरूपसम्बन्धरूपावच्छेदकत्वाभावात्तदवच्छेदेन व्याप्तयमांवरूपव्याप्यत्वासिद्धिर्न तु हेत्वाभारात्वं अनुमिति- तत्कारणीभूतव्याप्तिज्ञानाविरोधित्वात् । नच वह्निमदन्यावृत्तिप्रमेयवानिति प्रमेयत्वसामानाधिकरण्येन व्याप्त्य- रामरुद्रीयम्. धसत्प्रतिपक्षयोरिव व्यभिचारासिद्धयोर्मुनिना पृथगुपदेशेन हेत्वाभासान्तरतासम्भवात् ॥ अस्थरस इति ॥ सूचित इति शेषः ॥ सस्वादिति ।। नीलधूमय धूमानतिरिक्तातया धूमव्याप्तिविरहादिति भावः । अनव- च्छेदकतयेत्यस्य व्याप्तरित्यादिः ॥ तदबच्छेदेनेति ॥ यो धर्मा यस्थागवच्छेदकस्तदवच्छदेन तदभावः मूलावच्छेदेन वृक्षे कपिसंयोगाभाववदिति भावः । अचच्छेदकत्वाभावादिति ॥ तन्मूलस्य पक्षवृत्ति कपिसंयोगानतिरिक्तवृत्तित्वेऽपि स्वरूपसम्बन्धरूपायच्छेदकत्वाभावदेिव मूलावच्छेदेन वृक्षे कपिसं योगाभावो- पगमादिति भावः ॥ व्याप्यत्वासिझ्यापत्तेरिति ॥ स्वरूपसम्बन्धरूपावच्छेदकत्वं यस्य नास्ति तद. वच्छेदेन व्याप्यत्वाभावोधगमे व्यर्थविशेषणत्वाभावेऽपि मुरुधर्मेण हेतुतायां सर्वत्र व्याप्यवासिद्धिप्रसङ्गादि- ति भावः । ननु गुरुधर्मेण हेतुतायो सर्वत्र व्याप्यवासिद्धिरिष्टवेयत आह ॥ अस्तु वेति । अधिरोधि- त्वादिति ॥ हेतुतावच्छेदकोश व्याप्त्यवच्छेदकतानवगाहिनोऽपि व्याप्तिप्रकारकपक्षधर्मताज्ञानस्यानुमिति. हेतुत्वोपगमादत एव व्याप्यंशे निर्धर्मितावच्छेदकादपि वह्निव्याप्यवानिति शाब्दपरामर्शादप्यनुमितिरजी- क्रियत इति भावः । मीमांसकमतानुयायी शङ्कते ॥ नचेति ॥ तथा चोक्तपरामर्शस्थलेऽपि वहिव्याप्यो व.