पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [ अनुमानखण्डम् रामरुद्रीयम् . रूपितविषयितानिरूपितत्वस्वाभिन्नत्वोमयसम्वन्धन यद्रूपावच्छिन्नविषयिताविशिष्टयद्रूपावाच्छन्नविषयितात्व तादृशाभावप्रतियोगितावच्छेदकं तद्रूपावच्छिन्नविषयिताविशिष्टतद्रूपावच्छिन्नविषयिताशून्यज्ञानीयत्वेन ल. क्षणतावच्छेदकीभूतय द्रूपावच्छिन्नविषयिता विशेषणीया वह्नयभावत्वावच्छिन्नप्रकारलानिरूपितविशेष्यता. निरूपिताभावत्वावच्छिन्नप्रकारताशालिवादेवाभाववान् वयभाववानिति ज्ञानवारणमवसेयं वह्नयभावत्वाच- च्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितस्वात्मकाभावत्वावच्छिन्न प्रकारताया वह्नयभाववान् हद इति ज्ञानेऽपि सत्वेन तद्रूपावच्छिन्नविषयिताविशिष्टतद्रूपावच्छिन्नविषयितात्वस्याभाव प्रतियोगितावच्छेदकत्वोपपत्तये स्व. भिन्नत्वप्रवेश इति निपुणतरमूहनीयम् । यद्यप्यवं सति अनतिरिक्तवृत्तित्वानुधावनमफलं संसर्गत्वावच्छिन्नप्रका. रतानिरूपितसंसर्गविषाय तानिरूपितसंयोगत्वावच्छिन्नविशेष्यताशालिवादेवोक्कभ्रमवारणसम्भवेनोक्तप्रयोज. नासम्भवात् तथापि पाषाण मया न वालमानिति ज्ञानकालीनस्य पर्वतः पाषाणमय इति ज्ञानस्याप्यवच्छेदक. धर्मदर्शनावधयाऽनामतिप्रतिबन्धकत्वेन ताद्वषये पाषाणमयपर्वतेऽतिव्यातिः अनतिरिकवृत्तित्वनिवेशे तु पाषाणमयो न वाहमानिति ज्ञानशून्यकालीनतादृशज्ञानस्याप्रतिबन्धकत्वान्नातिव्याप्तिः ॥ ताशनिश्चय- निष्ठमिति । तथा च ज्ञानस्येत्यत्र षष्ठयों निष्ठत्वं तस्य च यांद्वषयकत्वेऽन्वयः तथा च बढ्यभावव- दविषयकत्वस्यानुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वेऽपि तादृशनिश्चयवृत्तित्वविशिष्टस्य तस्यानतिरिक्तवृत्ति त्यान्नासम्भव इति भावः । यद्यपि विशेष्याभूतवयभाववद्ध्दविषयकत्वस्य प्रतिबन्धकतातिरिक्तवृत्तित्वात् विशिष्टऽपि तस्मिन्ननतिरिक्त वृत्तित्वं दुर्घटं विशिष्टस्य शुद्धानतिरिक्ततया गुणान्यत्वविशिष्टसत्तायामपि गुण- वृत्तित्वाभ्युपगमात् । नच तादृशनिश्चयवृत्तित्वविशिष्टयद्रूपावच्छिन्नविषयितात्वमनुमितिप्रतिबन्धकताशून्य. निरूपिताधेयतानबच्छेदकमिति विवक्षणीयमिति वाच्यम् । तादृशावशिष्टविषयितात्वस्य वैशिष्टयविषयिता- स्वोभयरूपतया तयोः प्रत्येकं प्रतिबन्धकताशून्यवृत्तितावच्छेदकतयोभयस्मितादृशवृत्तितानवच्छेदकत्व- स्योपपादायितुमशक्यत्वात्तथापि स्वव्यापकतत्कत्वमेवानतिरिक्तवृत्तित्वं तथाच तादृशनिश्चयवृत्तित्वविशिष्टयदू- पावच्छिन्नविषायताव्यापकमनुमतिप्रतिबन्धकत्वं तद्रूपावच्छिन्नो दोष इत्यर्थपर्यवसानाद्वयापकताशरीरे च विशिष्टाधिकरणताप्रवेशान्नोक्तदोषावकाशः तादृशनिश्चय वृत्तित्वविशिष्टय पावच्छिन्नविषयितात्वावच्छिन्नाधि- करणतायां वा प्रातेबन्धकताशून्यावृत्तित्वं विवक्षणीयमिति ध्येयम् । अत्रेदमवधेयम् । जलवत्त्वावच्छेदेन व. ह-यभाववत्त्वरितस्य वह्नयभावव जलवद्वृत्तिजलवदस्य बाधादावनन्तर्भूतत्वेन असंभव लक्ष्यभावस्यावच्छे- दकधर्मदर्शनविधया अनुमितिप्रतिवन्धकतानतिरिक्तवृत्तिविषयिताकतया तनातिव्याप्तिः । न च पक्षे सा- ध्यप्रहप्रतिबन्धकतावच्छेद कतया सत्प्रतिपक्षभिन्नतया च बाध एव तदन्तर्भावोऽस्त्विति वाच्यम् । तथासति यो यत्र यादृशोऽपि हेत्वाभासस्तन तथाप्योऽपि तत्रैवान्तर्भवतीत्यत्र तदवच्छेदकस्यासि तदन्तर्भावानुक्त्या न्यूनताप्रसङ्गात् तस्मादवच्छेदकधर्मदर्शनविधया प्रतिबन्धकता न हेत्वाभासलक्षणघटिकेत्येव अन्धकृतां ता- स्पमित्यङ्गीकरणीयत्वात् । नच ज्ञानवैशिष्टयानवच्छिन्नत्वेन प्रतिवन्धकता विशेषणीया अवच्छेदकधर्मदर्श- नस्य ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकतया नोक्तविशिष्टेऽतिव्याप्तिरिति वाच्यम् । तथासति जलव्या- पको बधभावो जलवान हूद इति शानद्वयकालेऽपि हृदो बहिमानित्यनुमिलनुपादेन सत्प्रतिपक्षवि- षयकज्ञानस्यापि ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकताया वक्तव्यतया तत्राव्याप्तिप्रसङ्गात् । न च व्यापकसा- मानाधिकरण्यरूपव्याप्तिघटितस्य सत्प्रतिपक्षता न स्वीक्रियते किन्तु वह्निमदत्तिमत्पक्षस्यैव सत्प्रतिपक्षता भन्यथा जलव्यापकवह्नयभावकालीनजलवद्धदादावतिप्रसङ्गापातादिति वाच्यम् । एवमपि साध्यव्यापकी- भूताभावप्रतियोगिहेतुरूपविरोधाव्याप्तेरपरिहारात्तस्यापि पक्षधर्मताज्ञानकालीनप्रतिबन्धकज्ञान एव विषय- त्वात् । न चैवं तद्विषयकत्वस्य प्रतिबन्धकतातिरिक्तवृत्तित्वात्कथं सामान्यलक्षणाकान्तता पक्षयत्तित्वविशिष्ट स्य तादृशहेतोरेव विरोधत्तोपगमे पर्वतो वह्निमान् जलादित्यादौ वह्निव्यापकीभूताभावप्रतियोगिजलादेविरो- भत्वानुपपत्तेः पक्षावृत्तित्वादिति वाच्यम् । यद्रूपावच्छिन्नविषयकनिश्चयसामान्येऽनुमित्यप्रतिबन्धकत्व- पक्षधर्मतामहकालीनत्वोभयाभावः तद्रूषावच्छिन्नो दोष इत्येवोक्कलक्षणपर्यवसितार्थ इत्युपगमादिति । तत्राति.. -