पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. समचैषं महत्पुण्यं तत्फलं पुष्कलं मया। समर्पितमथैरेन प्रीयतां परमेश्वरः ॥” इति । एत एव वाचस्प- तिमिश्राः गृहस्थाश्रमे मण्डनमिश्र इाने ख्यातस्य तुरीयाश्रमे सुरेश्वर इति ख्यातस्य अप- रावतारभूता इति कथा जागर्ति । एषः अर्वाचीनः श्रीमानुदयनाचार्यः तात्पर्यपरिशुद्धि नामकं न्यायवार्तिकतात्पर्यटीका व्याख्यानं , मायकुसुमाञ्जालनामक स्वतन्त्रनिबन्धनं च निबन्धयामास । एवं न्यायनये प्राचीनप्रस्थानं व्याख्यातम् ॥ अथ श्रीमद्गङ्गेशोपाध्यायः प्रत्यक्षानुमानोपमानशब्दात्मकप्रमाणचतुष्टयवादिगौतमी. यमतमवलम्ब्य , पदार्थविभागादिमन्दभात्र शेपेषु कणादमतप्रक्रियाः मटथ्य , शास्त्रा. न्तरीयविषयान् हदि निधाय, निरतिशयबामाधुरीगुम्फितं निसर्गसुन्दरनिजधारणो- भिरलकृतं प्रमाणचतुष्टय प्रामाण्यव्यवस्थापनपरं लोकोत्तरां नवोनन्यायमर्यादां प्रपञ्चय- न्तं श्रीतत्त्वचिन्तामणि नाम प्रत्यक्षादिखण्ड चतुष्टात्मकं युक्ति जालजटिलं वह्वर्थगभितं अतिसक्षिप्तपदरचना निर्मितं निखिलशास्त्रकृदादरणोयलमं न्यायग्रन्थं रचयामास । अ. स्य व ग्रन्थस्य गीरिमाणमनुभाव्य तदानीन्तनैः शास्त्रकृन्द्रिः प्राचीनन्यायग्रन्धानायव ज्ञाय अस्यैव ग्रन्थस्य व्याख्याने पठनपाठन योश्चादरोविहित । अस्यच गङ्गशोपाध्यायस्य वचस्पतिमिश्रापेक्षया अर्वाचीनत्वमगन्तव्यम् । अत एव पक्षनाग्रन्थे “मुमुक्षोः शब्दादा- भावगमेऽपि मननस्य मोक्षोपायवन सिद्धिविशेषानामतीच्या आत्मानुमानं अन एव प्रत्यक्षपरिकलि समप्यर्थ अनुमानेन बुभुत्सन्ते नर्करसिका नहि काराण दृष्ट चीत्कारण न- मनुमिमतेऽनुमातार इति वाचस्पतिवचनयोरावरोधः । अनुमित्सातद्विरहाभ्यां तदु. पपत्तेः” इति वाचस्पतिवचनोदाहरणं सङ्गच्छत । काले च" राजकीयसभासु विद्य- त्परीक्षार्थमागतैः पण्डितैः चिन्तामणेः नूतनव्याख्या ग्रथनीया” इति नियमेन बहुभिः पण्डिने वह्वयो व्याख्या अकारिषत । तथापि सत्र मुख्यतया अदरणीयकोर्टि प्रविष्टाः कतिचनैव व्याख्याः, श्रीजयदेवासश्रेण विरचिता आलोकनामकव्याख्या , श्रीरुचिदत्ते- न विरचिता प्रकाशनामकव्याख्या , श्रीमथुरानायतर्कवागीशेन निर्मिता रहस्यनामक- व्याख्या , श्रीरघुनाथाशेरोमणिना कृता दीधितिनामकव्याख्या च । आसु च व्याख्यासु श्री. रघुनाथशिरोमणिकृतदीधितिरेव अतिसक्षिप्त या अन्यूनानतिरिक्तपदसन्दर्भणेन अन- न्यसामान्यप्रतिभाविशेषविजृम्भितयुक्तिजालजादलतया चोत्कर्पस्य परां कोटिमावहती. त्यत्र न्यायशास्त्रज्ञा एच प्रमाणम् ॥ अस्याश्च दीधितिव्याख्यायाः श्रीजगदीशतकालङ्कारेण श्रीगदाधरभट्टाचार्येण च व्याख्य निरमायिषातां । अनयोर्मध्ये जागदीश्याः अनुमानखण्डः प्रायेणोत्तरदंशे पठनपाठनपर- म्पराप्रातः परिदृश्यते । गदाधरीधं तु विविधपरिष्कारजटिलं मणिदीधित्योः प्रतिपदमर्थ- वर्णनेन सौलभ्येन च दाक्षिणात्यैरत्यन्तमाद्रियते । परंतु ग्रन्थस्यातिविस्तृतत्वात् तदी. यानुमानखण्ड पत्र तत्रापि पञ्चलक्षणी , चतुर्दशलक्षणी , सिद्धान्तलक्षणं , सामान्य- निरुक्तिः , अवयवः , पक्षता , बाधः इति वाधान्तमेव पठनपाठनपरम्परायां प्रसिद्धम्। तदनन्तरं तेनैव प्रणीताः व्युत्पत्तिवादः , शक्तिवादः , प्रामाण्यवादश्च प्रायः पठ्यन्ते । गदाधरेण च स्वतन्त्रवादाः चतुःषष्टिः निर्मिता इति प्रसिद्धिः , तत्र कतिचनवास्मा- भिरुपलभ्यन्ते , बहवो लुप्तप्रायाः अज्ञातवसतयश्च नोपलभ्यन्त इत्यास्तां चिस्तरः॥ क्रमेण च मणिदीधित्योः ग्रन्थयोरपि वालानां पठनं दुष्करमित्याकलय्य सदी- याशयमनुसृत्य नितरां साहेण मणिकारोक्तमार्गेग काणादत्यायमतसङ्क्षपरूपः भा- षापरिच्छेदापरनामककारिकावळ्याख्यग्रन्थः श्रीविश्वनाथतर्कपञ्चाननेन कारिकारूपेण