पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

39 - सम्प्रेषः इत्यन्तैः सूत्रैः पोडशलक्षणैः बहधिकरणगर्भितं प्रपश्चितम् । वेदान्तशा. स्त्रस्य तु कर्ता भगवान् वादरायणः अखण्डसञ्चित्सुखस्वरूपं जगजन्मस्थितिलयक र्तृत्वलक्षणलक्षितं जोवाभिन्नं अशनायाद्यतीतं अपेनब्रह्मक्षत्रादिभदं असंसारि ब्रह्मतत्त्वं "अथातो ब्रह्मजिज्ञासा" इत्यारभ्य "अनावृत्तिः शब्दादनापत्तिः शब्दात्" इत्यन्तैः सूत्रैः चतुर्भिरध्यायैः प्रपञ्चयामास । अस्यैव वेदान्तशास्त्रस्य उत्तरमीमांसा इति नामान्त- रंवरीवर्ति । अनयोश्च पूर्वोत्तरमीमांसयो एकवाक्यतां समामनन्ति रामानुजमतानुया- यिनः। परंतु तयोः भिन्नशास्त्रत्वं समार्थनमद्वैनग्रन्थेषु । यतः एतयोई योः शास्त्रयोरनुब ग्धचतुष्यभेदो विद्यते । तथाहि पूर्वमीमांसायां धमाधम विचार्यत्या विषयौ. उत्तरमी. मांसायां परं ब्रह्म, अत एव जैमिनिना" अथातो धर्मजिज्ञासा" इति धर्मस्व जिज्ञास्य- स्वेन वर्णनं, बादरायणेन च " अथातो ब्रह्मजिज्ञासा” इति ब्रह्मणः जिज्ञास्यत्वेनोपवर्णन. मपि सङ्गच्छते । पूर्वमीमांसायां वेदाध्ययनवतः अधिकारित्वं, उत्तरमीमांसायां तु नित्या- नित्यवस्तुविवेकः इहामुत्रार्थफलभोगविरागः शमदमोपरतितितिक्षाश्रद्धाममाधानानि मुमुक्षुत्वमित्येवं साधनचतुष्टयसम्पन्नस्यवाधिकारः । पूर्वमीमांसायाः वेदार्थविचारद्वा- रा धर्माधर्मपरिज्ञान प्रयोजनं, ब्रह्ममीमांसायास्तु पराभित्रस्य निर्गुणस्यात्मनः सा क्षात्कारः प्रयोजन एवमनयोरुभयोरनुबन्धचतुष्टयभेदोऽवगन्तव्यः । अपिच पूर्वोत्तामी मांसयोरकशास्थ्ये ब्रह्ममीमांसोपक्रमे अथातो ब्रह्मजिज्ञासा " इत्यथकरणमसङ्गत स्यात् । परंच “ मध्वादिप्वसंभवादनधिकार जैमिनि " इति ब्रह्ममीमांसायां जैमिनः पृथऊनामग्रहणं शास्त्रभेद एव घटते । अपिच पूर्वोत्तरयोः मीमांसयोः अभेदे सर्व- संप्रतिपन्नं दर्शनषत्वं व्याहन्यत, अपिच पूर्वमीमांसायां " आम्नायस्य क्रियार्थत्वादा नर्थक्यमतदर्थानां " इति सूत्रण जैमिनिना चेद घटकविधियाक्यानामेव प्रामाण्यं, इतरे. पामर्थवादरूपतया स्तुतिनिन्दापरतया विधिशपतयैव प्रामाण्यम् । वैयासिकनयेतु व्र. ह्मणः सिद्धयस्तुस्वरूपन्यात् सिद्धवस्तुप्रतिपादकवाक्यानामपि प्रामाण्यं सिद्धान्ति- तमित्यनयोः शास्त्रयोमहान् भेद इत्यन्यत्र इप्रव्यमिति सुधीभिर्विभावनीयम् ॥ प्रकृतेऽस्मिन् न्यायशास्त्रे सूत्रकर्मा भगवान् अक्षपाद इति पूर्वमेव न्यरूपि, तस्य भाष्यकर्ता भगवान् वात्स्यायनमुनिः । तस्मिन् न्याय पाप्ये दिङ्नागप्रभृतिभिर्नास्तिकैर्दू पिते तदीययुक्तयाभासान निरस्य न्यायभाष्यस्य गाम्भीर्य सिद्धान्तयन् उद्योतकरः न्याय- वार्तिकं प्रणिनाय । अस्य च टीका न्यायवार्तिकतात्पर्यटोकेति प्रसिद्धा विख्यातलो. कातिशायिवैदुपीवैभत्रैः, सर्वतन्त्रस्वतन्त्रीमद्वाचस्पतिमिश्नः व्यरचि । यदक्षपादः प्रवरो मुनीनां शमाय शास्त्रं जगतो जगाद । कुतार्किकाज्ञाननिवृत्तिहेतुः विधीयते तस्य मया निवन्धः ॥” इति न्यायवा- तिकोक्तथा तत्रत्यकुतार्किकैरिति पदस्य दिङ्नागप्रभृतिभिर्नास्तिकरिति टीकाकृया. ख्यानेन " इच्छामि किमपि पुण्यं दुस्तरकुनिवन्धपङ्कमग्नानाम् । उद्योतकरगवीनामतिजरतीनां समुद्धरणात् ॥” इति तदीयोक्तया च टी- काग्रन्थस्योत्कर्षः अवगम्यते । एभिरेव बावस्पतिमिधः योगसूत्रभाष्यव्याख्या, साङ्ख्यतत्त्वकौमुदी, न्यायकणिका, न्यायसूची, तत्त्वसमीक्षा, तत्त्वविन्दुः, भामती इत्यनेके प्रबन्धाः निर्मिताः। तथाचोक्तं ब्रह्मसूत्रशाङ्करभाष्यच्याख्यायां भामत्यां तैरेव - यन्न्यायकणिकातत्त्वसमीक्षातत्त्वविन्दुभिः । यन्न्यायसाङ्घययोगानां वेदान्तानां निवन्धनैः ॥