पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [ अनुमानखण्डम वान जातरित्यादौ साध्यवदन्यस्मिन सामान्यादौ हेतुतावच्छेदकसम्बन्धेन समवायेन वृत्तेरप्रसिद्धत्वादस आह ।। अथवेति ॥ हेतुमति निष्ठा वृत्तिर्यस्य स तथा विरहोऽभा- वः तथा च हेत्वधिकरणवृत्तियोऽभावस्तदप्रतियोगिना साध्येन सह हेतो. सामानाधि- करण्यं व्याप्तिरुच्यते । अत्र यद्यपि वह्निमान धूमादित्यादौ हेत्वधिकरणपर्वतादिवृत्त्यभा- वप्रतियोगित्वं तत्तद्वयादेरस्तीत्यव्याप्तिः । नच समानाधिकरणचह्निधूमयोरेव व्याप्तिरिति प्रभा. यो भ्रमात्मकपरामादेवानमितिरित्यत आह किंचेतीत्यवतरणिकामाहुः । तदसत् तथा सति हेतुमात्रेऽपि भ्र- मात्मकव्याप्तिज्ञानादनुमितिसंभवे सखेतावच्याप्तिवारणाय विशेषणदानस्यास द्धतावतिव्याप्तिवारणाय वि- शेषणान्तरदानस्य न वयापत्तेः तस्मादसद्धेतौ लक्षणासत्त्वस्येव सद्धेतौ लक्षणसत्त्वस्यावश्यकतया केव- लान्यायनि तदप्रतिपादनेनोत्तरप्रन्यानुत्थितेस्तादृशप्रन्धस्यावतारिकारूपत्वाभावात् व्यतिरेकित्वभ्रमं विनापि अनुमितेरानुभाविकत्वाच ॥ समवायेन वृत्तरप्रसिद्धत्वादिति ॥ नच साध्यवदन्यनिरूपितहेतुतावच्छे दकस्वरूपैतदन्यतरसंबन्धावच्छिन्नवृत्तित्वाभावधिवक्षणानाव्याप्तिः सामान्यादिनिरूपितसमवाय संबन्धाव- छिन्नति तस्याप्रसिद्धत्वेऽपि स्वरूप संबन्धावच्छिन्नवृत्तित्वस्य प्रसिह त्वादिति बाच्यम् । तथा सत्ययं काल: कालिकसंबन्धेनाकाशाभावादित्यादौ अव्याप्त्यापत्तेः तत्र साध्यवद्भिने नित्से कालिकसंवन्धेन वृत्तित्वस्याप्रसि- द्वत्वेऽप्यन्यतरसंबन्धान्तर्गताभावीयविशेषणतासंबन्धेन हेतात्तित्वात् । नच स्वाधिकरणावृत्तिसाध्यवदन्यो- न्याभावकत्वस्यैव लक्षणार्थत्वस्वीकारात् नोक्ताव्याप्तिः जात्यधिकरणे साध्यवत्ताप्रहविरोधितानियामकदेशि. कविशेषणतासंबन्धेन सत्तावदन्योन्याभावस्थासत्त्वादिति वाच्यम् तथा सति सत्ताभाववान् जान्यभावादि- ज्यादौ अव्याप्त्यापत्तेः जात्यभावरूपहेत्वधिकरणे सामान्यादौ साध्यवत्ताग्रहविरोधितानियामकसमवायसं- न्धेन वृत्तेरप्रसिद्धत्वात् । परेतु सत्तावान् जातेरित्यादौ स्वाधिकरणेत्यादिव्याप्तिज्ञानं करणं सत्ताभाववान जात्य भावादित्यादी साध्यवदन्येत्यादिव्याप्तिज्ञानं करणमित्याहुः तदसत् संयोगसंवन्धावच्छिन्नघटाभावे साध्ये वि. पबितया हतौ घटे लक्षणद्वयस्याव्याप्तेः विषयितया हेत्वधिकरणे संयोगेन साध्यवदन्ये भूतले विषयितया च वृत्तेरप्रसिद्धेः । स्वतन्तास्तु अत्यन्ताभावाप्रतियोगित्वमातं न केवलान्वयित्वं आकाशाभावस्य केवलान्व- यित्वानुपपत्तेः किंतु वृत्तिमत्त्वघटितमेव वाच्यम् तत्र हेनुतावच्छेदकसंबन्धेन यत्किंचिदधिकरणं तन्निरूपि- तत्वमपि निवेशनीयम् । तथाच हेतुतावच्छेदकसंबन्धेन यकिंचिदधिकरणनिष्ठात्यन्ताभाषाप्रतियोगित्वं केवला- न्वयित्वमिति लक्षणं फलितम् । एवंच सत्तावान् जातेरित्यादौ सत्ताया अपि निरुतकेवलान्वयित्वसत्वेन त. साध्य कहे तोरपि केवलान्वयित्वात् केवलान्वयिन्यव्याप्तिरित्यनेनैव चारितार्थे पृथक् तत्राव्याप्त्यभिधानं त. द्वारणाय परिष्कारान्तरकरणं चासतमित्याहुः । मूले हेतुमनिष्ठविरहे लत्र निपूर्वकष्ठाध तोः वृत्तित्वार्थकतया धर्मिलाभाय बहुव्रीहिमाह ॥ मुक्तावळ्यां हेतुमतीत्यादि । तत्तद्वयादेरस्तीत्यव्याप्तिरिति ॥ यद्यपि निकृटकलोऽपि गुणवान् द्रव्यत्वादित्यादी विषयितासंवन्धेन गुणत्वविशिष्टज्ञानादेरभावस्यापि हेतुस- मानाधिकरणतया साध्यतावच्छेदकस्य गुणत्वस्य ताशाभावीयप्रतियोगितावच्छेदकत्वेनाव्याप्तिवारणाय हेतुसमानाधिकरणाभावे साध्यतावच्छेदकताघटकसंबन्धावच्छिन्नावच्छेदकताकप्रतियोगिताकत्वस्य विशेषणी- दिनकरीयम्. कसम्बन्धन समवायेन वृत्त प्रसिद्धः । नच सत्तावान् जातेरित्यादौ स्वाधिकरणेल्यादिव्याप्तिज्ञानं करणं स- ताभाववान जायभावादित्यादौ तु साध्यवदन्येत्यादिव्याप्तिज्ञानं करणमिति वाच्यम् । तथापि संयोगसम्ब- धावच्छिन्नघटामाचे साध्ये विषयितया हेतौ घटे लक्षणद्वयस्याप्यव्याप्तिः तत्र विषयितया हेत्वधिकरणका ने साभ्यवत्ताग्रहविरोधितानियामकसंयोगेन घटाधिकरणे हेतुतावच्छेदकविषयितया वृत्तेरप्रसिद्धेः । नन्वति- रामरुद्रीयम्. त्तावानित्यादि ॥ साध्यसाधनभेदेन व्याप्तिभेदस्यावश्यकतया शब्दक्यस्यानुपादेयत्वादिति भा.